________________
तत्त्वार्थश्लोकवार्तिके
[सू० ३ पावस्यैव परोपदेशापेक्षतत्त्वार्थज्ञानस्य संभवात् । यदैव प्रतिपाद्यस्य परोपदेशात्तत्त्वार्थज्ञानं तदैव सम्यग्दर्शनं तयोः सहचारित्वात् ततो नेतरेतराश्रय इत्यन्ये । तेपि न प्रकृतज्ञाः । सदर्शनजनकस्य परोपदेशापेक्षस्यात् तत्त्वार्थज्ञानस्य प्रकृतत्वात् तस्य तत्सहचारित्वाभावात् सहचारिणस्तदजनकत्वात् परोपदेशापेक्षस्य तत्त्वार्थज्ञानस्य सम्यग्दर्शनजननयोग्यस्य परोपदेशानपेक्षतत्त्वार्थज्ञानवत्सम्यग्दर्शनात्पूर्व स्वकारणादुत्पत्तेर्नेतरेतराश्रयणमित्यपरे, सकलचोद्यानामसंभवादागमाविरोधात् । सर्व सम्यग्दर्शनं स्वाभाविक- : मेव खकाले स्वयमुत्पत्तेनिःश्रेयसवदिति चेन्न, हेतोरसिद्धत्वात् । सर्वथा ज्ञानमात्रेणाप्यनधिगतेर्थे श्रद्धानस्याप्रसिद्धेः । वेदार्थे शूद्रवत्तत्स्यादिति चेन्न, भारतादिश्रवणाधिगते शूद्रस्य तस्मिन्नेव श्रद्धानदर्शनात् । न प्रत्यक्षतः खयमधिगते मणौ प्रभावादिना संभवानुमानान्निर्णीते कस्यचिद्भक्तिसंभवादन्यथा तदयोगात् । साध्यसाधनविकलत्वाच्च दृष्टांतस्य न खाभाविकत्वसाधनं दर्शनस्य साधीयः । न हि स्वाभाविकं निःश्रेयसं तत्त्वज्ञानादिकतदुपायानर्थकत्वापत्तेः । नापि खकाले खयमुत्पत्तिस्तस्य युक्ता तत एव । केचित्संख्यातेन कालेन सेत्स्यति भव्याः केचिदसंख्यातेन, केचिदनंतेन, केचिदनंतानंतेनापि कालेन न सेत्स्यंतीत्यागमान्निःश्रेयसस्य खकाले खयमुत्पत्तिरिति चेत् न, आगमस्यैवंपरत्वाभावात् । सम्यग्दर्शनज्ञानचारित्रमात्मीभावे सति संख्यातादिना कालेन सेत्स्यतीत्येवमर्थतया तस्य निश्चितत्वात् , दर्शनमोहोपशमादिजन्यत्वाच्च न दर्शनं खकालेनैव जन्यते यतः खाभाविकं स्यात् ॥
अंतर्दर्शनमोहस्य भव्यस्योपशमे सति । तत्क्षयोपशमे वापि क्षये वा दर्शनोद्भवः ॥ ५ ॥ बहिः कारणसाकल्येप्यस्योत्पत्तेरपीक्षणात् । कदाचिदन्यथा तस्यानुपपत्तेरिति स्फुटम् ॥६॥ ततो न खाभाविकोस्ति विपरीतग्रहक्षयः स्याद्वादिनामिवान्येषामपि तथानभ्युपगमात् ॥ पापापायाद्भवत्येष विपरीतग्रहक्षयः । पुंसो धर्मविशेषाद्वेत्यन्ये संप्रतिपेदिरे ॥ ७ ॥
ननु च यदि दर्शनमोहस्योपशमादिस्तत्त्वश्रद्धानस्य कारणं तदा स सर्वस्य सर्वदा तजनयेत् आत्मनि तस्याहेतुकत्वेन सर्वदा सद्भावात् , अन्यथा कदाचित्कस्यचिन्न जनयेत् सर्वदाप्यसत्त्वात् विशेषाभावादिति चेन्न, तस्य सहेतुकत्वात्प्रतिपक्षविशेषमंतरेणाभावात् । कथं प्रतिपक्षविशेषाद्दर्शनमोहस्योपशमादिरित्युच्यते;
दृग्मोहस्तु कचिज्जातु कस्यचिन्नुः प्रशाम्यति । प्रतिपक्ष्यविशेषस्य संपत्तेस्तिमिरादिवत् ॥८॥ क्षयोपशममायाति क्षयं वा तत एव सः । तद्वदेवेति तत्त्वार्थश्रद्धानं स्यात्स्वहेतुतः ॥९॥
यः कचित् कदाचित् कस्यचिदुपशाम्यति क्षयोपशममेति क्षीयते वा स खप्रतिपक्षप्रकर्षमपेक्षते यथा चक्षुषि तिमिरादिः । तथा च दर्शनमोह इति नाहेतुकस्तदुपशमादिः ॥ प्रतिपक्षविशेषोपि दृङ्मोहस्यास्ति कश्चन । जीवव्यामोहहेतुत्वादुन्मत्तकरसादिवत् ॥ १०॥
यो जीवव्यामोहहेतुस्तस्य प्रतिपक्षविशेषोस्ति यथोन्मत्तकरसादेः । तथा च दर्शनमोह इति न तस्य प्रतिपक्षविशेषस्य संपत्तिरसिद्धा ॥
स च द्रव्यं भवेत् क्षेत्रं कालो भावोपि वांगिनाम् । मोहहेतुसपत्नत्वाद्विषादिप्रतिपक्षवत् ॥११॥
मोहहेतोहि देहिनां विषादेः प्रतिपक्षो बंध्यकर्कोट्यादि द्रव्यं प्रतीयते, तथा देवतायतनादि क्षेत्र, कालश्च मुहूर्तादिः, भावश्च ध्यानविशेषादिस्तद्वदर्शनमोहस्यापि सपनो जिनेंद्रबिंबादि द्रव्यं, समवशरणादि क्षेत्रं, कालश्चार्धपुद्गलपरिवर्तनविशेषादिर्भावश्चाधाप्रवृत्तिकरणादिरिति निश्चीयते । तदभावे तदुपशमादिप्रतिपत्तेः, अन्यथा तदभावात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org