________________
प्रथमोऽध्यायः। इति द्वितीयविकल्पोपि न श्रेयान् तस्याधिगमजत्वासंभवात् द्विविधहेतुकत्वाघटनात् । किंचिन्निसर्गादपरमधिगमादुत्पद्यत इति ज्ञानसामान्यं द्विविधहेतुकं घटत एवेति चेत् न, दर्शनेपि तथा प्रसंगात् । न चैतद्युक्तं प्रतिव्यक्ति तस्य द्विविधहेतुकत्वप्रसिद्धः । यथा ह्यौपशमिकं दर्शनं निसर्गादधिगमाच्चोत्पद्यते तथा क्षायोपशमिकं क्षायिकं चेति सुप्रतीतं, चारित्रं पुनरधिगमजमेव तस्य श्रुतपूर्वकत्वात्त • द्विशेषस्यापि निसर्गजत्वाभावान्न द्विविधहेतुकत्वं संभवतीति न त्रयात्मको मार्गः संबध्यते, अत्र दर्शनमात्रस्यैव निसर्गादधिगमाद्वोत्पत्त्यभिसंबंधघटनात् । नन्वेवं तच्छब्दोनर्थकः सामर्थ्यादर्शनेनात्राभिसंबंधसिद्धेरिति चेत् न, शाब्दन्यायान्मार्गेणाभिसंबंधप्रसक्तेः । प्रत्यासत्तेस्ततोपि दर्शनस्यैवाभिसंबंध इति चेन्न, मार्गस्य प्रधानत्वाद्दर्शनस्यास्य तदवयवत्वेन गुणभूतत्वात् , प्रत्यासत्तेः प्रधानस्य बलीयस्त्वात् , सन्निकृष्टविप्रकृष्टयोः सन्निकृष्टे संप्रत्यय इत्येतस्य गौणमुख्ययोर्मुख्य संप्रत्यय इत्यनेनापोहितत्वात् सार्थक एव तच्छब्दो मार्गाभिसंबंधपरिहारार्थत्वात् । ननु च दर्शनवन्मार्गस्यापि पूर्वप्रक्रांतत्वप्रतीतेः तच्छब्दस्य च पूर्वप्रक्रांतपरामर्शित्वात् कथं शाब्दन्यायाद्दर्शनस्यैवाभिसंबंधो न तु मार्गस्येति चेत् न, अस्मात्सूत्राद्दर्शनस्य मुख्यतः पूर्वप्रक्रांतत्वात्परामर्शोपपत्तेः मार्गस्य पूर्वप्रक्रांतत्वादुपचारेण तथा भावात् परामर्शाघटनात् । तदिति नपुंसकलिंगस्यैकस्य निर्देशाच्च न मार्गस्य पुल्लिंगस्य परामर्शो नापि बहूनां सम्यग्दर्शनज्ञानचारित्राणामिति शाब्दान्न्यायादार्थादिव सद्दर्शनं तच्छब्देन परामृष्टमुन्नीयते । कः पुनरयं निसर्गोधिगमो वा यस्मात्तदुत्पद्यत ? इत्याह;
विना परोपदेशेन तत्त्वार्थप्रतिभासनम् । निसर्गोधिगमस्तेन कृतं तदिति निश्चयः ॥३॥ ततो नाप्रतिभातेर्थे श्रद्धानमनुषज्यते । नापि सर्वस्य तस्येह प्रत्ययोधिगमो भवेत् ॥ ४ ॥
न हि निसर्गः स्वभावो येन ततः सम्यग्दर्शनमुत्पद्यमानमनुपलब्धतत्त्वार्थगोचरतया रसायनवन्नोपपद्येत । न परोपदेशनिरपेक्षे ज्ञाने निसर्गशब्दस्य प्रवर्तनान्निसर्गतः शूरः सिंह इति यथा खकारणविशेषादभवदपि हि तस्य शौर्य परोपदेशानपेक्षं लोके नैसर्गिकं प्रसिद्धं तद्वत्तत्त्वार्थश्रद्धानमपरोपदेशमत्यादिज्ञानाधिगते तत्त्वार्थे भवन्निसर्गान्न विरुध्यते । नन्वेवं मत्यादिज्ञानस्य दर्शनेन सहोत्पत्तिर्विहन्यते तस्य ततः प्रागपि भावादिति चेन्न, सम्यग्दर्शनोत्पादनयोग्यस्य मत्यज्ञानादेर्मतिज्ञानादिव्यपदेशादर्शनसमकालं मत्यादिज्ञानोत्पत्तेः । तर्हि मिथ्याज्ञानाधिगतेथे दर्शनं मिथ्या प्रसक्तमिति चेन्न, ज्ञानस्यापि मिथ्यात्वप्रसंगात् । सत्यज्ञानस्यापूर्वार्थत्वान्न मिथ्याज्ञानाधिगतेथे प्रवृत्तिरिति चेन्न, सर्वेषां सत्यज्ञानसंतानस्यानादित्वप्रसंगात् । सत्यज्ञानात् प्राक् तदर्थे मिथ्याज्ञानवत्सत्यज्ञानस्याप्यभावान्न तस्यानादित्वप्रसक्तिरिति चेन्न, सर्वज्ञानशून्यस्य प्रमातुरनात्मत्वप्रसंगात् । न चानात्मा प्रमाता युक्तोतिप्रसंगात् । सत्यज्ञानात्पूर्व तद्विषये ज्ञानं न मिथ्या सत्यज्ञानजननयोग्यत्वात् , नापि सत्यं पदार्थयाथात्म्यपरिच्छेदकत्वाभावात् । किं तर्हि ? सत्येतरज्ञानविविक्तं ज्ञानसामान्यं, ततो न तेनाधिगतेथे प्रवर्तमानं सत्यज्ञानं मिथ्याज्ञानं मिथ्याज्ञानाधिगतविषयस्य ग्राहकं नापि गृहीतग्राहीति चेत् , तर्हि कथंचिदपूर्वार्थ सत्यज्ञानं न सर्वथेत्यायातं । तथोपगमे सम्यग्दर्शनं तथैवोपगम्यमानं कथं मिथ्याज्ञानाधिगतार्थे स्यात् ? सत्यज्ञानपूर्वकं वा? यतस्तत्समकालं मतिज्ञानाद्युपगमविरोधः। सर्व सद्दर्शनमधिगमजमेव ज्ञानमात्राधिगते प्रवर्तमानत्वादिति चेन्न, परोपदेशापेक्षस्य तत्त्वार्थज्ञानस्याधिगमशब्देनाभिधानात् । नन्वेवमितरेतराश्रयः सति सम्यग्दर्शने परोपदेशपूर्वकं तत्त्वार्थज्ञानं तस्मिन् सति सम्यग्दर्शनमिति चेन्न, उपदेष्ट्रज्ञानापेक्षया तथाभिधानादित्येके समादधते । तेपि न युक्तवादिनः । परोपदेशापेक्षत्वाभावादुपदेष्टुज्ञानस्य, खयंबुद्धस्योपदेष्टुत्वात् , प्रति
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org