________________
९२
तत्त्वार्थश्लोकवार्तिके
[सू० ४
वत् । किं तर्हि ? बंधविकल्पौ । पुण्यपापबंधभेदेन बंधस्य द्विविधोपदेशात् । तद्धेतुत्वा सवविकल्पौ वा सूत्रितौ । ततो न सप्तभ्यो जीवादिभ्यो भेदेन श्रद्धातव्यौ । तथा तयोः श्रद्धानेतिप्रसंगात् । संवरविकल्पानां गुप्यादीनां निर्जरा विकल्पयोश्च यथाकालौप क्रमिकानुभवनयोः संवरनिर्जराभ्यां भेदेन श्रद्धातव्यतानुषंगात् । नन्वेवं जीवाजीवाभ्यां भेदेन नास्रवादयः श्रद्धेयास्तद्विकल्पत्वात् अन्यथातिप्रसंगादिति न चोद्यं, तेषां तद्विकल्पत्वेपि सार्वकत्वेन भिदा श्रद्धेयत्वोपपत्तेः ॥
बंधो मोक्षस्तयोर्हेतू जीवाजीवौ तदाश्रयौ । ननु सूत्रे पडेवैते वाच्याः सार्वत्ववादिना ॥ ९ ॥ जीवाजीव बंधमोक्षौ तद्धेतु च तत्त्वमिति सूत्रं वक्तव्यं सकलप्रयोजनार्थ संग्रहात्, बंधस्य हि हेतुरास्रवो मोक्षस्य हेतुर्द्विविकल्पः संवरनिर्जराभेदादिति न कस्यचिदसंग्रहस्तत्त्वस्य मोक्षहेतुविकल्पयोः पृथगभिधाने बंधास्रवविकल्पयोरपि पुण्यपापयोः पृथगभिधानप्रसंगादिति चेत् ;
१४ ॥
सत्यं किं त्वाश्रयस्यैव बंधहेतुत्वसंविदे । मिथ्याद्यगादिभेदस्य वचो युक्तं परिस्फुटम् ॥१०॥ मोक्षसंपादिके चोक्ते सम्यक् संवरनिर्जरे । रत्नत्रयाद्यतेन्यस्य मोक्षहेतुत्वहानये ॥। ११ ॥ तेनानागतबंधस्य हेतुध्वंसाद्विमुच्यते । संचितस्य क्षयाद्वेति मिथ्यावादो निराकृतः ॥ १२ ॥ संचितस्य स्वयं नाशादेष्यद्वेधस्य रोधकः । एकः कश्चिदनुष्ठेय इत्येके तदसंगतम् ॥ १३ ॥ निर्हेतुकस्य नाशस्य सर्वथानुपपत्तितः । कार्योत्पादवदन्यत्र विस्रसा परिणामतः ॥ यतश्चानागताघौघनिरोधः क्रियतेऽमुना । तत एव क्षयः पूर्वपापौघस्येत्यहेतुकः ॥ १५ ॥ सन्नप्यसौ भवत्येव मोक्षहेतुः स संवरः । तयोरन्यतरस्यापि वैकल्ये मुक्त्ययोगतः ॥ १६ ॥ एतेन संचिताशेषकर्मनाशे विमुच्यते । भविष्यत्कर्मसंरोधापायेपीति निराकृतम् ॥ १७ ॥ एवं प्रयोजनापेक्षाविशेषादास्त्रवादयः । निर्दिश्यंते मुनीशेन जीवाजीवात्मका अपि ॥ १८ ॥ बंधमोक्षौ तद्धेतू च तत्त्वमिति सूत्रं वाच्यं जीवाजीवयोर्बंधमोक्षोपादानहेतुत्वादात्रवस्य बंध सहकारिहेतुत्वात् संवरनिर्जरयोर्मोक्षसहकारिहेतुत्वात् तावता सर्वतत्त्व संग्रहादिति येप्याहुस्तेप्यनेनैव निराकृताः । आस्रवादीनां पृथगभिधाने प्रयोजनाभिधानात् जीवाजीवयोश्चानभिधाने सौगतादिमतव्यवच्छेदानुपपत्तेः ॥ जीवादीनामिह ज्ञेयं लक्षणं वक्ष्यमाणकम् । तत्पदानां निरुक्तिश्च यथार्थानतिलंघनात् ॥ १९ ॥ जीवस्य उपयोगलक्षणः, सामर्थ्यादजीवस्यानुपयोगः, आस्रवस्य कायवाङ्मनः कर्मात्मको योगः, बंधस्य कर्मयोग्यपुद्गुलादानं, संवरस्यास्रवनिरोधः, निर्जरायाः कर्मैकदेशविप्रमोक्षः, मोक्षस्य कृत्स्नकर्मविप्रमोक्ष इति वक्ष्यमाणं लक्षणं जीवादीनामिह युक्त्यागमाविरुद्धमवबोद्धव्यं । निर्वचनं च जीवादिपदानां यथार्थानतिक्रमात् । तत्र भावप्राणधारणापेक्षायां जीवत्यजीवीज्जीविष्यतीति वा जीवः, न जीवति नाजीवीत् न जीविष्यतीत्यजीवः, आस्रवत्यनेनास्रवणमात्रं वास्रवः, बध्यतेनेन बंधमात्रं वा संत्रियतेनेन संवरणमात्रं वा संवरः, निर्जीर्यतेनया निर्जरणमात्रं वा निर्जरा, मोक्ष्यतेनेन मोक्षणमात्रं वा मोक्ष, इति करणभावापेक्षया ॥
बंधः,
"
क्रमो हेतुविशेषात्स्याद् द्वंद्ववृत्ताविति स्थितेः । जीवः पूर्वं विनिर्दिष्टस्तदर्थत्वाद्वचोविधेः २० तदुपग्रहहेतुत्वादजीवस्तदनंतरम् । तदाश्रयत्वतस्तस्मादास्रवः परतः स्थितः ॥ २१ ॥ बंधश्वास्रव कार्यत्वात्तद्नंतरमीरितः । तत्प्रतिध्वंसहेतुत्वादजीवस्तदनंतरम् ॥ २२ ॥ संवरे सति संभूतेर्निर्जरायास्ततः स्थितिः । तस्यां मोक्ष इति प्रोक्तस्तदनंतरमेव सः ॥ २३ ॥ जीवादिपदानां द्वंद्ववृत्तौ यथोक्तः क्रमो हेतुविशेषमपेक्षतेऽन्यथा तन्नियमायोगात् । तत्र जीवस्यादौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org