________________
१२१
प्रथमोऽध्यायः । ततः खसंवेदनमेकं प्रत्यक्षमितिचेत् सिद्धं तर्हि चेतनातत्त्वमंशांशिखरूपं स्वसंवेदनात्तस्यैव प्रतीयमानत्वात् । न हि सुखनीलाद्याभासांशा एव प्रतीयंते खशरीरव्यापिनः सुखादिसंवेदनस्य महतोऽनुभवात् नीलाद्याभासस्य चंद्रनीलादेः प्रचयात्मनः प्रतिभासनात् ॥
विज्ञानप्रचयोप्येष भ्रांतश्चेत् किमविभ्रमम् । स्वसंवेदनमध्यक्ष ज्ञानाणोरप्रवेदनात् ॥ १२ ॥
न हि खसंविदि प्रतिभासमानस्य विज्ञानप्रचयस्य भ्रांततायां किंचित्वसंवेदनमभ्रांतं नाम यतस्तदेव प्रत्यक्षं सिद्ध्येत् । विज्ञानपरमाणोः संवेदनं तदितिचेत् न, तस्य सर्वदाप्यप्रवेदनात् । सर्वस्य ग्राह्यग्राहकात्मनः संवेदनस्य सिद्धेः । स्यान्मतं । न बुद्ध्या कश्चिदनुभाव्यो भिन्नकालोस्ति सुप्रसिद्धभिन्नकालाननुभाव्यवत् । तस्य हेतुत्वेनाप्यनुभाव्यत्वसाधने नयनादिनानेकांतात् । खाकारार्पणक्षमेणापि तेन तत्साधने समानार्थसमनंतरप्रत्ययेन व्यभिचारात् तेनाध्यवसायसहितेनापि तत्साधने भ्रांतज्ञानसमनंतरप्रत्ययेनानेकांतात् । तत्त्वतः कस्यचित्तत्कारणत्वाद्यसिद्धेश्च । नापि समानकालस्तस्य स्वतंत्रत्वात् , योग्यताविशेषस्यापि तद्व्यतिरिक्तस्यासंभवात् तस्याप्यनुभाव्यत्वासिद्धेः । परेण योग्यताविशेषणानुभाव्यत्वेनवस्थानात् , प्रकारांतरासंभवाच्च । नापि बुद्धाहकत्वेन परोनुभवोस्ति, सर्वथानुभाव्यवदनुभावकस्यासंभवे तदघटनात् । ततो बुद्धिरेव खयं प्रकाशते ग्राह्यग्राहकवैधुर्यात् । तदुक्तं । “नान्योनुभाव्यो बुझ्यास्ति तस्या नानुभवोऽ. परः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥” इति ॥ अत्रोच्यते;नान्योनुभाव्यो बुद्धास्ति तस्या नानुभवोपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सा न प्रकाशते ॥१३॥
न हि बुद्ध्यान्योनुभाव्यो नास्ति संतानांतरस्याननुभाव्यत्वानुषंगात् । कुतश्चिदवस्थितेरयोगात् । तदुपगमे च कुतः खसंतानसिद्धिः ? पूर्वोत्तरक्षणानां भावतोननुभाव्यत्वात् । स्यादाकूतं । यथा वर्तमानबुद्धिः खरूपमेव वेदयते न पूर्वामुत्तरां वा बुद्धिं संतानांतरं बहिरर्थ वा । तथातीतानागता च बुद्धिस्ततः खसंविदितः खसंतानः खसंविदितक्रमवय॑नेकबुद्धिक्षणात्मकत्वादिति । तदसत् । वर्तमानया बुद्ध्या पूर्वोत्तरबुद्ध्योरवेदनात् खरूपमात्रवेदित्वानिश्चयात् । ते चानुमानबुद्ध्या वेद्यते । खरूपमात्रवेदिन्यावित्यप्यसारं । संतानांतरसिद्धिप्रसंगात् । तथा च संतानांतरं खसंतानश्चानुमानबुद्ध्यानुभाव्यो न पुनर्बहिरर्थ इति कुतो विभागः सर्वथाविशेषाभावात् । विवादापन्ना बहिरर्थबुद्धिरनालंबना बुद्धित्वात् खानादिबुद्धिवदित्यनुमानाद्वहिरोंननुभाव्यो बुद्ध्या सिद्धयति न पुनः संतानांतरं । खसंतानश्चेति न बुद्ध्यामहे, खप्नसंतानांतरखसंतानबुद्धेरनालंबनत्वदर्शनादन्यथापि तथात्वसाधनस्य कर्तुं शक्यत्वात् । बहिरर्थना ह्यतादूषणस्य च संतानांतरग्राह्यतायां समानत्वात् तस्यास्तत्र कथंचिददूषणत्वे बहिरर्थग्राह्यतायामप्यदूषणत्वात् कथं ततस्तत्प्रतिक्षेप इत्यस्त्येव बुद्ध्यानुभाव्यः । एतेन बुद्धेर्बुद्ध्यंतरेणानुभवोपि परोस्तीति निश्चितं ततो न ग्राह्यग्राहकवैधुर्यात् वयं बुद्धिरेव प्रकाशते । माभूत् संतानांतरस्य खसंतानस्य वा व्यवस्थितिर्बहिरर्थवत्संवेदना। द्वैतस्य ग्राह्यग्राहकाकारविवेकेन खयं प्रकाशनादित्यपरः । तस्यापि संतानांतराद्यभावोऽनुभाव्यः, संवेदनस्य स्यादन्यथा तस्याद्वयस्याप्रसिद्धेः । स्वानुभवनमेव संतानांतराद्यभावानुभवनं संवेदनस्येति च न सुभाषितं, खरूपमात्रसंवेदनस्यैवासिद्धिः । न हि क्षणिकानंशखभावं संवेदनमनुभूयते, स्पष्टतयानुभवनस्यैव क्षणिकत्वात् । क्षणिकं वेदनमनुभूयत एवेति चेत् न, एकक्षणस्थायित्वस्याक्षणिकत्वस्याभिधानात् । अथ स्पष्टानुभवनमेवैकक्षणस्थायित्वं अनेकक्षणस्थायित्वे तद्विरोधात् । तत्र तदविरोधे वानाद्यनंतस्पष्टानुभवप्रसंगात् । तथा चेदानी स्पष्टं वेदनमनुभवामीति प्रतीतिर्न स्यादितिमतं । तदसत् । क्षणिकत्वे वेदनस्येदानीमनुभवामीति प्रतीतौ पूर्व पश्चाच तथा प्रतीतिविरोधात् । तदविरोधे वा कथमनाद्यनंतरसंवेदनसिद्धिर्न
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org