________________
१२०
तत्त्वार्थ लोकवार्तिके
[सू० ६
1
"
कविषयत्वे सति विकल्पस्य दर्शनेनाभिभवः साध्यते ततस्तस्य स्पष्टप्रतिभास इति मतं । नैतदपि साधीयः । शब्दखलक्षणदर्शनेन तत्क्षणक्षयानुमानविकल्पस्याभिभवप्रसंगात् । नहि तस्य तेन युगपद्भावो नास्ति विरोधाभावात् ततोस्य स्पष्टप्रतिभासः स्यात् । भिन्नसामग्रीजन्यत्वादनुमान विकल्पस्य न दर्शनेनाभिभव इति चेत्, स्यादेवं । यद्यभिन्नसामग्रीजन्ययोर्विकल्पदर्शनयोरभिभाव्याभिभावकभावः सिद्ध्येत् नियमात् । न चासौ सिद्धः सकलविकल्पस्य स्वसंवेदनेन स्पष्टावभासिना प्रत्यक्षेणाभिन्नसामग्रीजन्येनाप्यभिभवाभावात् । खविकल्पवासनाजन्यत्वाद्विकल्पस्य पूर्वसंवेदनमात्रजन्यत्वाच्च स्वसंवेदनस्य । तयोर्भिन्नसामग्रीजन्यत्वमेवेति चेत् । कथमेवमंशदर्शनेनांशिविकल्पस्याभिभवो नाम तथा दृष्टत्वादिति चेन्न, अंशदर्शनेनांशि विकल्पोऽभिभूत इति कस्यचित्प्रतीत्यभावात् । ननु चापि विकल्पः स्पष्टाभोऽनुभूयते नचासौ युक्तस्तस्यास्पष्टावभासित्वेन व्याप्तत्वात् । तदुक्तं | “न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासता" इति । ततोस्य दर्शनाभिभवादेव स्पष्टप्रतिभासोऽन्यथा तदसंभवादिति चेन्न, विकल्पस्यास्पष्टावभासित्वेन व्याप्त्यसिद्धेः । कामाद्युपप्लुतचेतसां कामिन्यादिविकल्पस्य स्पष्टत्वप्रतीतेः सोक्षज एव प्रतिभासो न विकल्पज इत्ययुक्तं, निमीलिताक्षस्यांधकारावृतनयनस्य च तदभावप्रसंगात् । भावनातिशयजनितत्वात्तस्य योगिप्रत्यक्षतेत्यसंभाव्यं भ्रांतत्वात् । ततो विकल्पस्यैवाक्षजस्य मानसस्य वा कस्यचित्स्पष्टमतिज्ञानावरणक्षयोपशमापेक्षस्याभ्रांतस्य प्रांतस्य वा निर्बाधप्रतीतिसिद्धत्वादवयविविकल्पस्य स्वतः स्पष्टतोपपत्तेः सिद्धमंशिनः स्पष्टज्ञानवेद्यत्वमंशवत् । तच्च न कल्पनारोपितत्वे संभव - तीति तस्यानारोपितत्वसिद्धेः । ननु स्पष्टज्ञानवेद्यत्वं नावयविनो अनारोपितत्वं साधयति कामिन्यादिना स्पष्टभावनातिशयजनिततद्विकल्पवेद्येन व्यभिचारादिति चेन्न, स्पष्टसत्यज्ञानवेद्यत्वस्य हेतुत्वात् । तथा स्वसंवेद्येन सुखादिनानैकांत इत्यपि न मंतव्यं, कल्पनानारोपितत्वस्याक्षजत्वस्य साध्यतयानभ्युपगमात् । परमार्थसत्त्वस्यैव साध्यत्वात् । ननु परमार्थसतोवयविनः स्पष्टज्ञानेन वेदनं सर्वावयववेदनपूर्वकं कतिपयावयववेदनपूर्वकं वावयवावेदनपुरःसरं वा ? न तावदाद्यः पक्षः सर्वदा तदभावप्रसंगात् किंचिज्ज्ञस्य सर्वावयववेदनासंभवात् । तदवयवानामपि स्थवीयसामवयवित्वेन सकलावयववेदनपुरःसरत्वे तस्य परमाणूनामवयवानामवेदनेन तदारब्धशताणुकादीनां वेदनानुषंगादभिमतपर्वतादेरपि वेदनानुपपत्तेः । एतेन द्वितीयपक्षोपाकृतः, कतिपयपरमाणुवेदने तदवेदनानुपपत्तेरविशेषात् । तृतीयपक्षे तु सकलावयवशून्ये देशेवयविवेदनप्रसंगस्ततो नावयविनः स्पष्टज्ञानेन वित्तिः । यतः स्पष्टज्ञानवेद्यत्वं तत्त्वतः सिच्छेत् । इत्यपि प्रतीतिविरुद्धं, सर्वस्य हि स्थवीयानर्थः स्फुटतरमवभासत इति प्रतीतिः ॥
भ्रांतिरिंद्रियजेयं चेत्स्थविष्टाकारदर्शिनी । काभ्रांत मंद्रियज्ञानं प्रत्यक्षमिति सिद्धय ॥ ९ ॥ प्रत्यासन्नेष्वयुक्तेषु परमाणुषु चेन्न ते । कदाचित्कस्यचिद्बुद्धिगोचराः परमात्मवत् ॥ १० ॥
सर्वदा सर्वथा सर्वस्येंद्रियबुध्यगोचरान् परमाणून संस्पृष्टान् स्वयमुपयंस्तत्रेंद्रियजं प्रत्यक्षमभ्रांतं कथं ब्रूयात्, यतस्तस्य स्थविष्टाकारदर्शनं भ्रांतं सिच्छेत् । कयाचित् प्रत्यासत्त्या तानिंद्रियबुद्धिविषयानिच्छत् कथमवयविवेदनमपाकुर्वीत सर्वस्यावयव्यारंभकपरमाणूनां कार्यतोऽन्यथा वा वेदनसिद्धेस्तद्वेदनपूर्वकावयविवेदनोपपत्तेः सहावयवावयविवेदनोपपत्तेर्वा नियमाभावात् । यदि पुनर्न परमाणवः कथंचित्कस्यचिदिंद्रियबुद्धेर्गोचरा नाप्यवयवी । न च तनेंद्रियजं प्रत्यक्षमत्रांतं सर्वमालंबते, प्रांतमितिवचनात् । सर्वज्ञानानामनालंबनत्वादिति मतिस्तदा प्रत्यक्षं कल्पनापोढमभ्रांतमिति वचोऽनर्थकमेव स्यात् कस्यचित्प्रत्यक्षस्याभावात् ॥
स्वसंवेदनमेवैकं प्रत्यक्षं यदि तत्त्वतः । सिद्धिरंशांशिरूपस्य चेतनस्य ततो न किम् ॥ ११ ॥ यर्थेद्रियजस्य बहिःप्रत्यक्षस्य तत्त्वतोऽसद्भावस्तथा मानसस्य योगिज्ञानस्य च स्वरूपमात्र पर्यवसितत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org