________________
प्रथमोऽध्यायः ।
१९५ त्वात् । संबंधज्ञानं च संबंधस्यार्थक्रिया नीलस्य नीलज्ञानवत् । तदुक्तं । मत्या तावदियमर्थक्रिया यदुत खविषयविज्ञानोत्पादनं नामेति ॥ विशिष्टार्थान् परित्यज्य नान्या संबंधितास्तिचेत् । तदभावे कुतोर्थानां प्रतितिष्ठेविशिष्टता ८७
स्वकारणवशादेषा तेषांचेत् सैव संमता । संबंधितेति भिद्येत नाम नार्थः कथंचन ॥ ८८ ॥ • न हि संबंधाभावेाः परस्परं संबद्धा इति विशिष्टता तेषां प्रतितिष्ठत्यतिप्रसंगात् । स्वकारणवशात्
केषांचिदेव संबंधप्रत्ययहेतुतासमानप्रत्ययहेतुतावदितिचेत् सैव संबंधिता तद्वदिति नाममात्रं भिद्यते न पुनरर्थः प्रसाधितश्च संबंधः परमार्थिकोऽर्थानां प्रपंचतः प्राक् संबंधितास्य मानव्यवस्थितिहेतुरित्यलं विवादेन निर्बाधं संबंधितायाः खबुद्धेः खार्थक्रियायाः संबंधस्य व्यवस्थानात् । पावकस्य दाहाद्यर्थक्रियावत् संवेदनस्य खरूपप्रतिभासनवद्वा तस्या वासनामात्रनिमित्तत्वे तु सर्वार्थक्रिया सर्वस्य वासनामात्रहेतुका स्यादिति न किंचित्परमार्थतार्थक्रियाकारीति कुतो वस्तुत्वव्यवस्था परितोषहेतोः पारमार्थिकत्वेप्युक्तं खप्नोपलब्धस्य तत्त्वप्रसंगात् इति न हि तत्र परितोषः कस्यचिन्नास्तीति सर्वस्य सर्वदा सर्वत्र नास्त्ये. वेति चेत् जाग्रद्दशार्थक्रियायास्तर्हि सुनिश्चितासंभवबाधकत्वात् परमार्थसत्त्वमित्यायातं । तथा चार्थानां संबंधितार्थक्रियासंबंधस्य कथं परमार्थसतीति न सिद्ध्येत् । न हि तत्र कस्यचित्कदाचिबाधकप्रत्यय उच्यते येन सुनिश्चितासंभवबाधकत्वं न भवेत् । सर्वथा संबंधाभाववादिनस्तत्रास्ति बाधकप्रत्यय इति चेत्, सर्वथा शून्यवादिनस्तत्त्वोपप्लववादिनो ब्रह्मवादिनो वा जाग्रदुपलब्धार्थक्रियायां किं न बाधकप्रत्ययः । स तेषामविद्याबलादिति चेत् संबंधितायामपि तत एव परेषां बाधकप्रत्ययो न प्रमाणबलादिति निर्विवादमेतत् यतः सैव तर्कात् संबंधं प्रतीत्य वर्तमानोर्थानां संबंधितामाबाधमनुभवति ।।
तत्तकस्याविसंवादोनुमा संवादनादपि । विसंवादे हि तर्कस्य जातु तन्नोपपद्यते ॥ ८९ ॥ __ न हि तर्कस्यानुमाननिबंधने संबंधे संवादाभावेनुमानस्य संवादः संभविनिश्चितः संवादस्तर्कस्य नास्ति विप्रकृष्टार्थविषयत्वादितिचेत्
तर्कसंवादसंदेहे निःशंकानुमितिः क ते । तदभावे न चाध्यक्षं ततो नेष्टव्यवस्थितिः॥९॥ तस्मात्प्रमाणमिच्छद्भिरनुमेयं वसंबलात् । चिंता चेति विवादेन पयोप्तं बहुनात्र नः ॥९१॥ सर्वेण वादिना ततः खेष्टसिद्धिः प्रकर्तव्या अन्यथा प्रलापमात्रप्रसंगात् । सा च प्रमाणसिद्धिमन्वाकर्षति तदभावे तदनुपपत्तेः । तत्र प्रत्यक्षं प्रमाणमवश्यमभ्युपगच्छतानुमानमुररीकर्तव्यमन्यथा तस्य सामस्त्येनाप्रमाणव्यवच्छेदेन प्रमाणसिध्ययोगात् । निःसंदेहमनुमानं छेदत्सता साध्यसाधनसंबंधग्राहि प्रमाणमसंदिग्धमेषितव्यमिति तदेव च तर्कः ततस्तस्य च संवादो निःसंदेह एव सिद्धोऽन्यथा प्रलापमात्रमहेयोपादेयमश्लीलविजंभितमायातीति पर्याप्तमत्र बहुभिर्विवादैरूहसंवादसिद्धेरुल्लंघनार्हत्वात् ॥
गृहीतग्रहणात्तर्कोऽप्रमाणमितिचेन्न वै । तस्यापूर्वार्थवेदित्वादुपयोगविशेषतः ॥ ९२ ॥ प्रत्यक्षानुपलंभाभ्यां संबंधो देशतो गतः । साध्यसाधनयोस्तोत्सामस्त्येनेति चिंतितम्॥१३॥ प्रमांतरागृहीतार्थप्रकाशित्वं प्रपंचतः । प्रामाण्यं च गृहीतार्थवाहित्वेपि कथंचन ॥ ९४॥ किं च । लिंगज्ञानाद्विना नास्ति लिंगिज्ञानमितीष्यति । यथा तस्य तदायत्तवृत्तिता न तदर्थिता॥१५॥ प्रत्यक्षानुपलंभादेविनानुभूतितस्तथा । तर्कस्य तज्ज्ञता जातु न तद्गोचरतः स्मृता ॥ ९६ ॥ न हि यद्यदात्मलाभकारणं तत्तस्य विषय एव लिंगज्ञानस्य लिंगिज्ञानविषयत्वप्रसंगात् प्रत्यक्षस्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org