________________
तत्त्वार्थश्लोकवार्तिके
[सू० १३ चक्षुरादिगोचरतापत्तेः । स्वाकारार्पणक्षमकारणं विषय इति चेत् कथमिदानी प्रत्यक्षानुपलंभयोस्तात्मलाभनिमित्तयोर्विषयं खाकारमनर्पयतमूहाय साक्षात्कारणभावं चानुभवतं तर्कविषयमाचक्षतीत ? तथाचक्षाणो वा कथमनुमाननिबंधनस्य लिंगज्ञानस्य विषयमनुमानगोचरतया प्रत्यक्षं प्राचक्षीत ? न चेद्विक्षिप्तः । ततो न प्रत्यक्षानुपलंभार्थग्राही तर्कः । सर्वथा कथंचित्तदर्थवाहित्वं तु तस्य नाप्रमाणतां विरुणद्धि प्रत्यक्षानुमानवदित्युक्तं ॥
समारोपव्यवच्छेदात्स्वार्थे तर्कस्य मानता । लैंगिकज्ञानवन्नैव विरोधमनुधावति ॥ ९७ ॥ प्रवृत्तश्च समारोपः साध्यसाधनयोः कचित् । संबंधे तर्कतो मातुर्व्यवच्छेद्येत कस्यचित् ॥९८॥ संवादकोप्रसिद्धार्थसाधनस्तद्व्यवस्थितः । समारोपछिदूहोत्र मानं मतिनिबंधनः ॥ ९९ ॥ प्रमाणमूहः संवादकत्वादप्रसिद्धार्थसाधनत्वात् समारोपव्यवच्छेदित्वात्प्रमाणभूतमतिज्ञाननिबंधनत्वादनुमानादिवदिति सूक्तं बुद्ध्यामहे । ननूहो मतिः स्वयं न पुनर्मतिनिबंधन इति चेन्न, मतिविशेषस्य तस्य पूर्वमतिविशेषनिबंधनत्वाविरोधात् साधनस्यासिद्धत्वायोगात् । न च तन्निबंधनत्वं प्रमाणत्वेन व्याप्तमनुमानेन स्वयं प्रतिपन्नं लिंगज्ञानं मतिविशेषपूर्वकत्वस्य प्रमाणत्वव्याप्तस्य तत्र प्रतीतेर्व्यभिचाराभावात् । श्रुतेन व्यभिचार इति चेन्न, तस्य प्रमाणत्वव्यवस्थापनात् । तदव्यभिचारिणो मतिनिबंधनवात्संवादकत्वादेवोहः प्रमाणं व्यवतिष्ठत एव ॥
ननूहस्यापि संबंधे स्वार्थे नाध्यक्षतो गतिः । साध्यसाधनसंबंधे यथा नाप्यनुमानतः ॥१०॥ तस्योहांतरतः सिद्धौ कानवस्थानिवारणं । तत्संबंधस्य चासिद्धौ नोहः स्यादिति केचन १०१
ननुहस्यापि खार्थैरूदैः संबंधोभ्युपगंतव्यस्तस्य च साध्यसाधनस्येव नाध्यक्षाद्गतिस्तावतो व्यापारात् कर्तुमशक्तेः सन्निहितार्थग्राहित्वाच्च सविकल्पस्यापि प्रत्यक्षस्य । नाप्यनुमानतोऽनवस्थाप्रसंगात् तस्यापि ह्यनुमानस्य प्रवृत्तिर्लिंगलिंगिसंबंधनिश्चयात् स चोहात्तस्यापि प्रवृत्तिः स्वार्थसंबंधनिश्चायात् सोप्यनुमानांतरादिति तस्योहांतरासिद्धौ केयमनवस्थानिवृत्तिः । यदि पुनरयमूहः खार्थसंबंधसिद्धिमनपेक्षमाणः खविषये प्रवर्तते तदानुमानस्यापि तथा प्रवृत्तिरस्त्विति व्यर्थमूहपरिकल्पनमिति कश्चित् ॥
तन्न प्रत्यक्षवत्तस्य योग्यताबलतः स्थितेः । स्वार्थप्रकाशकत्वस्य कान्यथाध्यक्षनिष्ठितिः॥१०२
योग्यताबलादूहस्य खार्थप्रकाशकत्वं व्यवतिष्ठत एव पत्यक्षवत् । न हि प्रत्यक्षं खविषयसंबंधग्रहणापेक्षमनवस्थाप्रसंगात् । तथाहि
ग्राह्यग्राहकभावो वा संबंधोन्योपि कश्चन । स्वार्थे न गृह्यते केन प्रत्यक्षस्येति चिंत्यताम् १०३
प्रत्यक्षस्यापि खार्थे संबंधो ग्राह्यग्राहकभावः कार्यकारणभावो वाभ्युपगंतव्य एवान्यथा ततः खार्थप्रतिपत्तिनियमायोगादतिप्रसंगात् । स च यदि गृहीत एवाध्यक्षप्रवृत्तिनिमित्तं तदा केन गृह्यत इति चिंत्यं खेन प्रत्यक्षांतरेणानुमानेन वा ॥
स तच्चत्तादृशाकारा प्रतीतिः स्वात्मनिष्ठिता । नासो घटोयमित्येवमाकारायाः प्रतीतितः१०४ प्रत्यक्षांतरतश्चेन्नाप्यनवस्थानुषंगतः । तत्संबंधस्य चान्येन प्रत्यक्षेण विनिश्चयात् ॥ १०५॥ नानुमानेन तस्यापि प्रत्यक्षायत्तता स्थितः । अनवस्थाप्रसंगस्य तदवस्थत्वतस्तराम् ॥ १०६ ॥ स्वसंवेदनतः सिद्धे स्वार्थसंवेदनस्य चेत् । संबंधोक्षधियः स्वार्थे सिद्ध कश्चिदतींद्रियः ॥१०७॥ क्षयोपशमसंज्ञेयं योग्यतात्र समानता । सैव तर्कस्य संबंधज्ञानसंवित्तितः स्वतः ॥ १०८ ॥ न प्रत्यक्षं स्वार्थे संबंधग्रहणापेक्षं प्रवर्तते कचिदकस्मात्तत्प्रवृत्तिदर्शनात् । किं तर्हि । तस्य खसंवेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org