________________
प्रथमोऽध्यायः।
१९७ नादिवत्स्वार्थग्रहणसिद्धिः खतोतींद्रियः कश्चित्संबंधः । खार्थानुमानः सिद्ध्येदितिचेत् सैव योग्यता खावरणक्षयोपशमाख्या प्रत्यक्षस्यार्थप्रकाशनहेतुरिह समायाता । तर्कस्यापि खयं व्याप्तिग्रहणानुभवात्तज्ज्ञानावरणक्षयोपशमरूपा योग्यतानुमीयमाना सियतु प्रत्यक्षवदनवस्थापरिहारस्यान्यथा कर्तुमशक्तेः । ननु च यथा तकस्य खविषयसंबंधग्रहणमनपेक्षमाणस्य प्रवृत्तिस्तथानुमानस्यापि सर्वत्र ज्ञाने खावरण.क्षयोपशमस्य स्वार्थप्रकाशनहेतुरविशेषात् । ततोनर्थकमेव तत्संबंधग्रहणाय तर्कपरिकल्पनमितिचेत् , सत्यमनुमानस्यापि खयोग्यता ग्रहणनिरपेक्षकमनुमेयार्थप्रकाशनं न पुनरुत्पत्तिलिंगलिंगिसंबंधग्रहणनिर. पेक्षास्त्यगृहीततत्संबंधस्य प्रतिपत्तुः कचित्कदाचिदनुत्पत्तिनिश्चयात् । नैवं प्रत्यक्षस्योत्पत्तिरपि करणार्थसंबंधग्रहणापेक्षा खयमगृहीततत्संबंधस्यापि पुनस्तदुत्पत्तिदर्शनात् । तद्वदूहस्याप्यतींद्रियात्मार्थसंबंधग्रहणनिरपेक्षस्योत्पत्तिदर्शनान्नोत्पत्तावपि संबंधग्रहणापेक्षत्वमिति युक्तं तर्कः ॥
प्रमाणविषयस्यायं साधको न पुनः स्वयं । प्रमाणं तर्क इत्येतत्कस्यचिद्याहतं मतम् ॥१०९॥ प्रमाणविषये शुद्धिः कथं नामाप्रमाणतः । प्रमेयांतरतो मिथ्याज्ञानाच्चैतत्प्रसंगतः ॥ ११०॥ यथा संशयितार्थेषु प्रमाणानां प्रवर्तनं । निर्णयाय तथा लोके तर्कितेष्विति चेन्मतम्॥१११॥ संशयः साधकः प्राप्तः प्रमाणार्थस्य ते तथा । नाप्रमाणत्वतस्तर्कः प्रमाणमनुमन्यताम्॥११२॥ स चेत्संशयजातीयः संशयात्पृथगास्थितः । कथं पदार्थसंख्यानं नान्यथास्त्विति त्वश्रुते११३ तस्मात्प्रमाणकर्तव्यकारिणो वेदितात्मनः । सत्तकस्याप्रमाणत्वमवितळ प्रचक्ष्यते ॥ ११४॥
प्रमाणं तर्कः प्रमाणकर्तव्यकारित्वात् प्रत्यक्षादिवत् प्रत्ययसाधनं प्रमाणकर्तव्यं तत्कारी च तर्कः प्रसिद्ध इति नासिद्धो हेतुः । नाप्यनैकांतिकोऽप्रमाणे विपक्षे वृत्त्यभावात् । न हि प्रमेयांतरं संशयादि या प्रमाणविषयस्य साधनं विरोधात् । ततस्तर्कस्थप्रमाणविषयसाधकत्वमिच्छता प्रमाणत्वमुपगंतव्यम् । किं च
सम्यक् तर्कः प्रमाणं स्यात्तथानुग्राहकत्वतः। प्रमाणस्य यथाध्यक्षमनुमानादि चाश्रुते ॥११५॥ अनुग्राहकता व्याप्ता प्रमाणत्वेन लक्ष्यते । प्रत्यक्षादौ तथाभासे नागमानुग्रहक्षतेः ॥११६ ॥ यस्मिन्नर्थ प्रवृत्तं हि प्रमाणं किंचिदादितः । तत्र प्रवृत्तिरन्यस्य यानुग्राहकतात्र सा ॥११७॥ पूर्वनिर्णीतदायस्य विधानादभिधीयते । उत्तरेण तु तद्युक्तमप्रमाणेन जातुचित् ॥ ११८ ॥
खयं प्रमाणानामनुग्राहकं तर्कमिच्छन्नाप्रमाणं प्रतिपत्तुं समर्थो विरोधात् । प्रमाणसामग्र्यंतर्भूतः कश्चित्तर्कः प्रमाणमिष्ट एवेति चेन्न, तस्य स्वयं प्रमाणत्वोपपत्तेः । तथाहि-प्रमाणं तर्कः साक्षात्परंपरया च स्वार्थनिश्चयने फले साधकतमत्वात्प्रत्यक्षवत् खविषयभूतस्य साध्यसाधनसंबंधाज्ञाननिवृत्तिरूपे साक्षात्वार्थनिश्चयने फले साधकतमस्तकः परंपरया तु स्वार्थानुमाने हानोपादानोपेक्षाज्ञाने वा प्रसिद्ध एवेत्युपसंह्रियते ॥
ततस्तर्कः प्रमाणं नः स्यात्साधकतमत्वतः । स्वार्थनिश्चयने साक्षादसाक्षाच्चान्यमानवत् ॥११९ साधनात्साध्यविज्ञानमनुमानं विदुर्बुधाः । प्रधानगुणभावेन विधानप्रतिषेधयोः ॥ १२० ॥ अन्यथानुपपत्त्येकलक्षणं तत्र साधनं । साध्यं शक्यमभिप्रेतमप्रसिद्धमुदाहृतम् ॥ १२१ ॥ तत्साध्याभिमुखो बोधो नियतः साधने तु यः। कृतोनिंद्रिययुक्तेनाभिनिबोधः स लक्षितः१२२ साध्याभावासंभवनियमलक्षणात्साधनादेव शक्याभिप्रेताग्रसिद्धत्वलक्षणस्य साध्यस्यैव यद्विज्ञानं तदनुमानमाचार्या विदुः यथोक्तहेतुविषयद्वारकविशेषणयोरन्यतरस्थानुमानत्वाप्रतीतेः । स एव वाभिनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org