________________
तत्त्वार्थश्लोकवार्तिके
[सू० १३ बोध इति लक्षितः । साध्यं प्रत्यभिमुखस्य नियमितस्य च साधनेनानिद्रिययुक्तेनाभिबोधस्याभिनिबोधत्वात् । ननु मतिज्ञानसामान्यमभिनिबोधः प्रोक्तो न पुनः खार्थानुमानं तद्विशेष इति चेन्न, प्रकरणविशेषाच्छब्दांतरसंनिधानादेर्वा सामान्यशब्दस्य विशेषे प्रवृत्तिदर्शनात् गोशब्दवत् । तेन यदा कृतषट्त्रिंशत्रिशतभेदमाभिनिबोधिकमुच्यते तदाभिनिबोधसामान्य विज्ञायते, यदा त्ववग्रहादिमतिविशेषानभिधाय ततः पृथगभिनिबोध इत्युच्यते तदा खार्थानुमानमिति इंद्रियानिद्रियाभ्यां नियमितस्यासर्वपर्यायद्रव्यं प्रत्यभिमुखस्य बोधस्यास्याभिनिबोधिकव्यपदेशादभिनिबोध एवाभिनिबोधिकमिति खार्थेकस्य ठणो विधानात् । न च तदनिद्रियेण लिंगापेक्षेणं नियमितं साध्यार्थाभिमुखं बोधनमाभिनिबोधिकमिति विरुध्यते, तल्लक्षणवाक्ये वाक्यांतरोपप्लवात् । न तु नैकलक्षणाल्लिंगाल्लिंगिनि ज्ञानमनुमानं यदभिनिबोधशब्देनोच्यते । किं तर्हि । त्रिरूपाल्लिंगादनुमेये ज्ञानमनुमानमिति परमतमुपदर्शयन्नाह;निश्चितं पक्षधर्मत्वं विपक्षे सत्त्वमेव च । सपक्ष एव जन्मत्वं तत्रयं हेतुलक्षणम् ॥ १२३॥ केचिदाहुर्न तद्युक्तं हेत्वाभासेपि संभवात् । असाधारणतापायाल्लक्षणत्वविरोधतः ॥ १२४ ॥
असाधारणो हि स्वभावो भावलक्षणमव्यभिचारादग्नेरौष्ण्यवत् । न च त्रैरूप्यस्यासाधारणता तद्धेतौ तदाभासेपि तस्य समुद्भवात् । ततो न तद्धेतुलक्षणं युक्तं पंचरूपत्वादिवत् ॥ कुत एव तदित्युच्यते
वक्तृत्वादावसार्वज्ञसाधने त्रयमीक्ष्यते । न हेतुत्वं विना साध्याभावासंभूष्णुतां यतः॥१२५॥
इदमिह संप्रधार्य त्रैरूप्यमानं वा हेतोर्लक्षणं विशिष्टं वा त्रैरूप्यमिति ? प्रथमपक्षेन तदसाधारणहेत्वाभासेपि तावदादित्वलक्षणमेव बुद्धोसर्वज्ञो वक्तृत्वादे रथ्यापुरुषवदिल्यत्र हेतोः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे वासत्त्वं । सर्वज्ञो वक्ता पुरुषो वा न दृष्ट इति । न च गमकत्वमन्यथानुपपन्नत्वविरहात् । विशिष्टं त्रैरूप्यं हेतुलक्षणमिति चेत् कुतो न तदविशिष्टं ? ॥
सर्वज्ञत्वेन वक्तृत्वं विरुद्धं न विनिश्चितं । ततो न तस्य हेतुत्वमित्याचक्षणकः स्वयम्॥१२६।। तदेकलक्षणं हेतोर्लक्षयत्येव तत्त्वतः । साध्याभावविरोधो हि हेतोर्नान्यस्ततो मतः ॥१२७॥ तदिष्टौ तु त्रयेणापि पक्षधर्मादिनात्र किं । तदभावेपि हेतुत्वसिद्धेः कचिदसंशयम् ॥१२८॥
साध्याभावविरोधित्वाद्धेतुस्त्रैरूप्यमविशिष्टकर्तृत्वादिति वदन्नन्यथानुपपन्नत्वमेव विशिष्टत्वमभ्युपगच्छति साध्याभावविरोधित्वस्यैवान्यथानुपपन्नत्वनियमव्यपदेशात् । तथा पक्षधर्मत्वमेकमन्यथानुपपन्नत्वेन विशिष्टं सपक्षे सत्त्वं वा विपक्षासत्त्वमेव वा निश्चितं साध्यसाधनायालमिति कितन्त्रयेण समुदितेन कर्तव्यं यतस्तद्धेतुलक्षणमाचक्षीत । न हिपक्षधर्मत्वशून्योयं हेतुः सादेकलक्षणः । उदेष्यच्छकटं व्योम कृत्तिकोदयवत्त्वतः ॥ १२९ ॥ इति प्रयोगतः पक्षधर्मतामेष्यते यदि । तदा धूमोनिमानेष धूमत्वादितिगद्यताम् ॥१३० ॥ ततः स्वभावहेतुः स्यात्सर्वो लिंगस्त्रिवान्न ते । यदि लोकानुरोधेन भिन्नाः संबंधभेदतः।।१३१॥ विषयस्य च भेदेन कायोद्यनुपलब्धयः । किं न तादात्म्यतज्जन्मसंबंधाभ्यां विलक्षणात १३२ अन्यथानुपपन्नत्वाद्धेतुः स्यात्कृत्तिकोदयः ।। यथैव हि लोकः कार्यस्वभावयोः संबंधभेदात्ततोनुपलभस्य च विषयभेदा दमनुरुध्यते तथाविनाभावनियममात्रात्कार्यादिहेतुत्रयात्कृत्तिकोदयादि हेतोरपीति कथमसौं चतुर्थी हेतुने स्यात् । न ह्यत्र लोकस्यानुरोधनवचो बाधकादिति शक्यं वक्तुं बाधकासंभवात् । नन्विदमन्यथानुपपन्नत्वं नियतं संबंधेन व्याप्तं तदभावे तत्संभवेतिप्रसंगात् सोपि तादात्म्यतज्जन्मभ्यामतादात्म्यवतस्तजन्मनो वा संबंधानुपपत्तेः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org