________________
४८२
तत्त्वार्थ श्लोकवार्तिके
[सू० २२
अधुना वेदनीयस्य मुहूर्ता द्वादश स्थितिः । सामर्थ्यान्मध्यमा मध्येऽनेकधा संप्रतीयते ॥ १ ॥ अथायुषो नंतरयोः कर्मणोः का जघन्या स्थितिरित्याह;
-------
नामगोत्रयोरष्टौ ॥ १९॥
मुहूर्ता इत्यनुवर्तते अपरा स्थितिरिति च । सा च सूक्ष्मसांपराये विभाव्यते । तथाहिसानामगोत्रयोरष्टौ मुहूर्ता इति वर्तनात् । यामादयो व्यवच्छिन्नाः कामं मध्येस्तु मध्यमा १ अथोक्तेभ्योऽन्येषां कर्मणां का निकृष्टा स्थितिरित्याह;
शेषाणामतर्मुहूर्ता ॥ २० ॥
अपरा स्थितिरित्यनुवर्तते । शेषाणि ज्ञानदर्शनावरणांतरायमोहनीयायूंषि । तत्र ज्ञानदर्शनावरणांतरा - याणां सूक्ष्मसांपराये, मोहनीयस्यानिवृत्तिबादरसां पराये, आयुषः संख्येयवर्षायुषतिर्यग्मनुष्येषु ॥ सर्वकर्मणां स्थितिबंधमुपसंहरन्नाह; -
शेषाणां कर्मणामतर्मुहूर्ताचेति कार्यतः । जघन्यमध्यमोत्कृष्टा स्थितिर्या प्रतिपादिता || १ || तया विशेषितैर्वधः कर्मभिः स्वयमाहृतैः । स्थितिबंधोवबोद्धव्यस्तत्प्राधान्य विवक्षया ॥ २ ॥ स्थित्या केवलया बंधस्तद्वच्छ्रन्यैर्न युज्यते । तद्वदाश्रितया त्वस्ति भूमिभूधरयोरिव ॥ ३ ॥ स्थितिशून्यानि कर्माणि निरन्वयविनाशतः । प्रदीपादिवदित्येतत्स्थितेः सिद्धानि धार्यते ॥ ४॥ निर्णीता हि स्थितिः सर्वपदार्थानां क्षणादूर्ध्वमपि प्रत्यभिज्ञानादबाधितखरूपाद्भेदप्रत्ययादुत्पादविनाशवत् । ततः स्थितिमद्भिः कर्मभिरात्मनः स्थितिबंधोऽनेकधा सूत्रितोनवद्यो बोद्धव्यः प्रकृतिबंधवत् ॥ अथानुभवबंधं व्याचष्टे:
विपाकोऽनुभवः ॥ २१ ॥
विशिष्टः पाको नानाविधो वा विपाकः, पूर्वास्रवतीत्रादिभावनिमित्तविशेषाश्रयत्वात् द्रव्यादिनिमित्तभेदेन विश्वरूपत्वाच्च सोनुभवः कथ्यते । शुभपरिणामानां प्रकर्षाच्छुभप्रकृतीनां प्रकृष्टोनुभवः, अशुभपरिणामानां प्रकर्षात्तद्विपर्ययः । स किंमुखेनात्मनः स्यादित्याह ;
विपाकोनुभवो ज्ञेयः पुद्गलादिमुखेन तु । कर्मणां फलनिष्पत्तौ सामर्थ्यायोगतोन्यथा ॥ १ ॥ पुद्गलविपाकिनां कर्मणामंगोपांगादीनां पुद्गलद्वारेणानुभवोऽन्यथात्मनि फलदाने सामर्थ्याभावात्, क्षेत्रविपाकिनां तु नरकादिगतिप्रायोग्यानुपूर्व्यादीनां क्षेत्रद्वारेण, जीवविपाकिनां पुनर्ज्ञानावरणसद्वेद्यादीनामात्मभावप्रतिषेधाविधानविधानानां जीवमुख्येनैव भवविपाकिनां तु नारकाद्यायुषां भवद्वारेण तत एव । तेन मूलप्रकृतीनां खमुखेनैवानुभवो, अतुल्यजातीयानामुत्तरप्रकृतीनां च निवेदितः । तुल्यजातीयानां तूत्तरप्रकृतीनां परमुखेनापीति प्रतिपत्तव्यमन्यत्रायुर्दर्शनचारित्रमोहेभ्यः, तेषां परमुखेन वफलदाने सामर्थ्याभावात् ॥
कुतः पुनर्ज्ञानावरणादिकर्मप्रकृतीनां प्रतिनियतफलदानसामर्थ्यं निश्चीयत इत्याह ;
स यथानाम ॥ २२ ॥
यस्मादिति शेषस्तेन ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थसंज्ञानिर्देशात्तदनुभवसंप्रत्ययः । ज्ञानावरणादिकमेव हि तेषां प्रयोजनं नान्यदिति कथमन्वर्थसंज्ञा न स्यात् ? ततः---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org