________________
अष्टमोऽध्यायः।
४८१ वचनं समानस्थितिप्रतिपत्त्यर्थ । उक्तपरिमाणं सागरोपमकोटीकोट्य इति । द्वित्वे बहुत्वानुपपत्तिरिति
चेन्न, राजपुरुषवत्तत्सिद्धेः । कोटीनां कोट्यः कोटीकोट्य इति । पराभिधानं जघन्यस्थितिनिवृत्त्यर्थ । संज्ञिपंचेंद्रियपर्याप्तकस्य परा स्थितिः, अन्येषामागमात्संप्रत्ययः । तद्यथा एकेंद्रियस्य पर्याप्तकस्यैकसागरोपमा सप्तभागास्त्रयः, द्वींद्रियस्य पंचविंशतिः सागरोपमाणां सप्तभागास्त्रयः, त्रींद्रियस्य पंचाशत्सागरोपमाणां, चतुरिंद्रियस्य सागरोपमशतस्य, असंज्ञिपंचेंद्रियस्य सागरोपमसहस्रस्य, अपर्याप्तसंज्ञिपंचेंद्रियस्यांतःसागरो. पमकोटीकोट्यः । एकद्वित्रिचतुःपंचेंद्रियासंज्ञिनां त एव भागाः पल्योपमासंख्येयभागोना इति परमागमप्रवाहः ।। कुतः परा स्थितिराख्यातप्रकृतीनामित्याह;
आदितस्तिमृणां कर्मप्रकृतीनां परा स्थितिः । अंतरायस्य च प्रोक्ता तत्फलस्य प्रकर्षतः ॥१॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्तदन्यथा । तदभावे प्रमाणस्याभावात्सा केन बाध्यते ॥ २ ॥ अथ मोहनीयस्य परां स्थितिमुपदर्शयन्नाह;
सप्ततिर्मोहनीयस्य ॥ १५॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमपि परा स्थितिः संज्ञिपंचेंद्रियस्य पर्याप्तकस्य, एकद्वित्रिचतुरिंद्रियाणामेकपंचविंशतिपंचाशच्छतसागरोपमानि यथासंख्यं, तेषामेवापर्याप्तकानामेकेंद्रियादीनां पल्योपमासंख्येयभागोना, सैव पर्याप्तासंज्ञिपंचेंद्रियस्य सागरोपमसहस्रं, तस्यैवापर्याप्तकस्य सागरोपमसहस्रं पल्योपमसंख्येयभागोनं, संज्ञिनोपर्याप्तकस्यांतःसागरोपमकोटीकोट्य इति परमागमार्थः ॥ अथ नामगोत्रयोः का परा स्थितिरित्याह;
विंशतिर्नामगोत्रयोः ॥ १६ ॥ सागरोपमकोटीकोट्यः परा स्थितिरित्यनुवर्तते । इयमपि परा संज्ञिनः पर्याप्तकस्यैकेंद्रियस्य एकसागरोपमः सप्तभागौ द्वौ, द्वींद्रियस्य पंचविंशतेः सागरोपमाणां, त्रींद्रियस्य पंचाशतः, चतुरिंद्रियस्य शतस्य, असंज्ञिनः पंचेंद्रियस्य सहस्रस्य, संज्ञिनोपर्याप्तकस्यांतःसागरोपमकोटीकोट्यः, एकेंद्रियादेः सैव स्थितिः पल्योपमासंख्येयभागोना । कथं बाधवर्जितमेतत्सूत्रद्वयमित्याह
सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः । इति सूत्रद्वयं बाधवर्जमेतेन वर्णितम् ॥१॥ ततोऽन्यथा स्थितिहकप्रमाणाभावे नैवेत्यर्थः ।। अथायुषः कोत्कृष्टा स्थितिरित्याह;
त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः सागरोपमग्रहणात् कोटीकोटिनिवृत्तिः, परा स्थितिरित्यनुवर्तते । इयमपि परा स्थितिः संज्ञिनः पर्याप्तकस्य । इतरेषां यथागमं । तद्यथा-असंज्ञिनः पंचेंद्रियस्य पर्याप्तस्य पल्योपमासंख्येयभागः, शेषाणामुत्कृष्टा पूर्वकोटी । इयमपि तथैव बाधवर्जितेत्याह;तथायुषस्त्रयस्त्रिंशत्सागरोपमसंख्यया । परमस्थितिनिर्णीतिरिति साकल्यतः स्मृता ॥१॥ कर्मणामष्टानामपि परा स्थितिरिति शेषः ॥ अथ वेदनीयस्य काऽपरा स्थितिरित्याह;
अपरा द्वादश मुहूर्ता वेदनीयस्य ॥१८॥ सूक्ष्मसांपराये इति वाक्यशेषः । एतदेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org