________________
अष्टमोऽध्यायः।
४८३ सामर्थ्यानामभेदेन ज्ञायेतान्वर्थनामता । नुर्ज्ञानावरणादीनां कर्मणामन्यथा स्मृतेः॥१॥ तथा चानुभवप्राप्तरात्मनः कर्मभिर्मवेत् । एषोनुभवबंधोस्यान्यास्रवस्य विशेषतः ॥२॥ किं पुनरस्मादनुभवाद्दत्तफलानि कर्माण्यात्मन्यवतिष्ठते किं वा निर्जीयते इत्याह;
ततश्च निर्जरा ॥ २३ ॥ पूर्वोपार्जितकर्मपरित्यागो निर्जरा । सा द्विप्रकारा विपाकजेतरा च । निमित्तांतरस्य समुच्चयार्थश्चशब्दः । तच्च निमित्तांतरं तपोविज्ञेयं, तपसा निर्जरा चेति वक्ष्यमाणत्वात् । संवरात्परत्र पाठ इति चेन्न, अनुभवानुवादपरिहारार्थत्वात् । पृथग्निर्जरावचनमनर्थकं बंधेतर्भावादिति चेन्न, अर्थापरिज्ञानात् । फलदानसमर्थ्य हि अनुभवबंधस्ततोनुभूतानां गृहीतवीर्याणां पुद्गलानां निवृत्तिनिर्जरा । सा कथं तत्रांतर्भवेत् ? तस्य तद्धेतुत्वनिर्देशात्तद्भेदोपपत्तेः । लघ्वर्थमिहैव तपसा चेति वक्तव्यमिति चेन्न, संवरानुग्रहतंत्रत्वात् । तपसा निर्जरा च भवति संवरश्चेति । धर्मेन्तर्भावात्संवरहेतुत्वमिति चेन्न, पृथग्रहणस्य प्राधान्यस्थापनार्थत्वात् । एतदेवाह
ततश्च निर्जरेत्येतत्संक्षेपार्थमिहोदितं । निर्जराप्रस्तुतेरग्रेप्येतद्भेदप्रसिद्धये ॥१॥ यथाकालं विपाकेन निर्जरा कर्मणामियं । वक्ष्यमाणा पुनर्जीवस्योपक्रम निबंधना ॥२॥ प्रागनुक्ता समुच्चार्या चशब्देनात्र सा पुनः । तपसा निर्जरा चेति नियमो न निरुच्यते ॥३॥ फलं दत्त्वा निवर्तते द्रव्यकर्माणि देहिनः । तेनाहतत्वतः स्वाद्याद्याहारद्रव्यवत्स्वयं ॥४॥ भावकर्माणि नश्यति तन्निवृत्यविशेषतः। तत्कायेत्वाद्यथाम्यादिनाशे धूमादिवृत्तयः ॥५॥ ततः फलोपभोगेपि कर्मणां न क्षयो नृणां । पादपादिवदित्येतद्वचोपास्तं कुनीतिकं ॥६॥ पारतंत्र्यमकुर्वाणाः पुंसो ये कर्मपुद्गलाः । कर्मत्वेन विशिष्टास्ते संतोप्यत्रांबरादिवत् ॥ ७॥ तदेवमनुभवबंधं प्रतिपाद्याधुना प्रदेशबंधमवगमयितुमनाः प्राहनामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वा
त्मप्रदेशेष्वनंतानंतप्रदेशाः ॥ २४ ॥ नाम्नः प्रत्यया नामप्रत्ययाः इत्युत्तरपदप्रधाना वृत्तिः । नामासां प्रत्यय इति चेन्न, समयविरोधात् । अन्यपदार्थायां हि वृत्तौ नामप्रत्ययो यासां प्रकृतीनामिति सर्वकर्मप्रकृतीनां नामहेतुकत्वं प्रसक्तं, तच्च समयेन विरुध्यते । तत्र तासां तद्धेतुकत्वेनानभिधानात् प्रतिनियतप्रदोषाद्यास्रवनिमित्तत्वप्रकाशनात् । के पुनस्ते नाम्नः प्रत्ययाः कुतो वेत्यावेदयन्नाह;नामान्वर्थ पदाख्यातं प्रत्ययास्तस्य हेतवः । प्रदेशाः कर्मणोऽनंतानंतमानविशेषिताः ॥१॥ स्कंधात्मना विरुध्यते न प्रमाणेन तत्त्वतः। स्कंधाभावेक्षविज्ञानाभावात् सवो गृहागते ॥२॥
अनंतानंतप्रदेशवचनं प्रमाणांतरव्यपोहाथै । कर्मणोनंतानंताः प्रदेशाः परमाणुरूपाः कथं स्कंधात्मना परिणमंते पर्वतात्मना सूक्ष्मसलिकणवद्विरोधात् । ततो न ते नानो ज्ञानाभावादेरनुभवफलस्य हेतव इति न शंकनीयं; स्कंधाभावेक्षविज्ञानाभावात् सर्वपदार्थाग्रहणस्यानुषक्तेः सकलानुमेयार्थानामपि लिंगार्थग्रहणासंभवात् । तृतीयस्थानसंक्रांतानामपि शब्दगम्यानां प्रकाशकशब्दग्रहणविरोधात् । खसंवेदनादात्मग्रहणान्न सर्वग्रहणमिति चेन्न, शरीरादिस्कंधाभावे मनोनिमित्तकस्य स्वसंवेदनस्यानुपपत्तेः । मुक्तस्वसंविदितविज्ञानात् सर्वार्थग्रह्णसिद्धेर्न सर्वार्थग्रहण इति चेन्न, लिंगशब्दाद्यग्रहणे तद्व्यवस्थानुपपत्तेः । न हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org