________________
४८४ तत्त्वार्थश्लोकवार्तिके
[सू० २५ परमाणव एव लिंगशब्दात्मनामात्मसान्न कुर्वते, तेषां सर्वथा बुद्ध्यगोचरत्वात् । नापि परमाणव एवेंद्रियभाविना लिंगादिग्रहणकरणादिना नियुज्यंते, न च शरीरभावेनानुभवाख्यभोगायतनत्वं प्रतिपद्यते अतिप्रसंगात् । परमाणूनामपि खकारणविशेषात्तथोत्पत्तेस्तद्भावाविरोध इति चेन्न; अत्यासन्नासंसृष्टरूपतयोत्पत्तरेव स्कंधतयोत्पत्तेः, अन्यथैकत्वपरिणामविरोधादुक्तदोषस्य निवारयितुमशक्तेरिति विचारितं प्राक् । ततः सूक्तं कर्मणः प्रदेशाः स्कंधत्वेन परिणामविशेषान्नाम्नः प्रत्यया न विरुध्यते तत्त्वतः । प्रमाणेनाधिगतेरिति । सर्वात्मप्रदेशेष्विति किमर्थमितिचेदुच्यते
सर्वेष्वात्मप्रदेशेषु न कियत्सुचिदेव ते । तत्फलस्य तथा वित्ते नीरे क्षीरप्रदेशवत् ॥ ३॥
यथैव हि सर्वत्र कलशोदके क्षीरमिश्रे क्षीररसविशेषस्य फलस्योपलब्धेः सर्वेषु तदुदकप्रदेशेषु क्षीरसंश्लेषः सिद्धस्तथा सर्वेष्वात्मप्रदेशेषु कर्मफलस्याज्ञानादेरुपलंभात् कर्मप्रदेशसंश्लेषः सिद्ध्यतीति सूक्तमिदं सर्वात्मप्रदेशेष्विति वचनमेकप्रदेशाध्यपोहार्थमिति । सूक्ष्मेत्यादि निर्देशेन किं कृतमित्याह
सूक्ष्मशब्देन च योग्यस्वभावग्रहणाय ते । पुद्गलाः प्रतिपाद्यते स्थूलानां तदसंभवात् ॥ ४॥ सूक्ष्मग्रहणं ग्रहणयोग्यखभावप्रतिपादनार्थमिति वचनात् ॥ एकक्षेत्रावगाहाभिधानं क्षेत्रांतरस्य तत् । निवृत्त्यर्थं स्थिताः स्यात्तु क्रियांतरनिवृत्तये ॥ ५ ॥
एकक्षेत्रावगाहवचनं क्षेत्रांतरनिवृत्त्यर्थ, स्थिता इति वचनं क्रियांतरनिवृत्त्यर्थमिति प्रतिपादनात् । एकक्षेत्रावगाहः कोसाविति चोच्यते
अत्यंतनिविडावस्थावगाहोर्थात् प्रतीयते । तेन तेवस्थितास्तत्र गोमये धूमराशिवत् ॥ ६ ॥ ततः सूक्ष्माश्च ते एकक्षेत्रावगाहस्थिताश्चेति खपदार्थवृत्तिः प्रत्येया, ते च कर्मणः प्रदेशाः ॥ भूयः प्रदेशमेकत्र प्रदेशे द्रव्यमीक्ष्यते । परमाणौ यथा माभृत् कुलं नैवेति केचन ॥७॥ तेषामल्पप्रदेशस्थैर्धनैः कर्पासपिंडकैः । अन्यैकांतिकता हेतोभूयोदेशैरसंशयम् ॥ ८ ॥ योगविशेषादिति वचनं निमित्तनिर्देशार्थ । कथमित्याह;योगः पूर्वोदितस्तस्य विशेषात् कारणात्तथा । स्थितास्तेत्र विना हेतोर्नियतावस्थितिक्षतेः॥९॥ सर्वेषु भवेषु सर्वत इत्यनेन कालोपादानं कृतम् ॥ सर्वेष्वसर्वेष्वेते कचिदेव भवेन तु । सर्वतो वचनादेव प्रतिपत्तव्यमंजसा ॥ १० ॥ इति प्रदेशैर्यो बंधः कर्मस्कंधादिभिर्मतः । स नुः प्रदेशबंधः स्यादेष बंधो विलक्षणः ॥११॥ सोयं कारणभेदेन कार्यभेदेन चास्थितः । स्वभावस्य च भेदेन कर्मबंधश्चतुर्विधः ॥ १२ ॥ बद्धस्पृष्टादिभेदेनावस्थितादिमिदापि च । द्रव्यादिभेदतो नामादिप्रभेदेन वा तथा ॥ १३ ॥ विना प्रकृतिबंधान स्युर्ज्ञानावरणादयः। कार्यभेदात्स्वयं सिद्धाः स्थितिबंधाद्विना स्थिराः १४ न चानुभवबंधेन विनानुभवनं नृणां । प्रदेशबंधतः कृत्स्नै कैन व्याप्यवृत्तये ॥ १५ ॥ एवं कार्यविशेषेभ्यो विशेषो बंधनिष्ठितः । प्रत्येयोनेकधा युक्तेरागमाच्च तथाविधात् ॥१६॥ पुण्यास्रवोक्तिसामर्थ्यात् पुण्यवंधोऽवगम्यते । सवेद्यादीनि चत्वारि तत्पुण्यमिह सूत्रितं ॥१७॥
सदेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ शुभग्रहणमायुरादीनां विशेषणं । शुभायुस्त्रिविधं, शुभं नाम सप्तत्रिंशद्विकल्पं, उच्चैर्गोत्रं च शुभं । कुतः सद्वेद्यादि प्रसिद्धमित्युच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org