SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः। ४८५ यस्योदयात्सुखं तत्स्यात्सद्वेधं देहिनां तथा । शुभमायुविधा यस्य फलं शुभभवत्रयं ॥१॥ सप्तत्रिंशद्विकल्पं तु शुभं नाम तथा फलं । उच्चैर्गोत्रं शुभं प्राहुः शुभसंशब्दनार्थकम् ॥२॥ इति कार्यानुमेयं तद्द्विचत्वारिंशदात्मनि । पापास्रवोक्तिसामर्थ्यात्पापबंधो व्यवस्थितः ॥३॥ पापं पुनस्ततः पुण्यादन्यदित्यत्र सून्यते; अतोन्यत् पापम् ॥ २६ ॥ असद्वद्याशुभायुर्नामगोत्राणीत्यर्थः । कुतस्तदवसीयते इत्याह;दुःखादिभ्योऽशुभेभ्यस्तत्फलेभ्यस्त्वनुमीयते । हेतुभ्यो दृश्यमानेभ्यस्तजन्मायभिचारतः॥१॥ एवं संक्षेपतः कर्मबंधो द्वेधावतिष्ठते । पुण्यपापातिरिक्तस्य तस्यात्यंतमसंभवात् ॥ २॥ पुण्यं पुण्यानुबंधीष्टं पापं पापानुबंधि च । किंचित्पापानुबंधि स्यात्किंचित्पुण्यानुबंधि च ॥३॥ यथार्थोर्थानुबंधी स्यान्न्यायाचरणपूर्वकः । तथानर्थोपि चांभोधिसमुत्तारादिरर्थकृत् ॥ ४ ॥ अन्यायाचरणायातस्तद्वदर्थोप्यनर्थकृत् । अनर्थोपीति निर्णीतमुदाहरणमंजसा ॥५॥ तत्र पापानुबंधिनः पुण्यस्य पुण्यानुबंधिनश्च पापस्य कार्य दर्शयति यत्प्रदर्शनसामर्थ्यात् पुण्यानुबंधिनः पुण्यस्य पापानुबंधिनश्च पापस्य फलम् ॥ अवसीयति प्रथमकमुत संपदां पदं समनुभवंति वंद्यपादाः। तदनु च विपदं गरीयसीं दधति परामपि निंद्यवृत्तितां ॥६॥ यदिह तदिहमुत्तरैनसो निजसुकृतस्य फलं वदंति तज्ज्ञाः। तदपरमपि चादिमैनसः सुकृतपरस्य विपर्ययेण वृत्तेः ॥ ७॥ इति अष्टमाध्यायस्य द्वितीयमादिकम् ॥ इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे अष्टमोऽध्यायः ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy