________________
अथ नवमोऽध्यायः ॥ ९ ॥
आस्रवनिरोधः संवरः ॥ १ ॥
कर्मागमनिमित्ताप्रादुर्भूतिरास्रवनिरोधः, तन्निरोधे सति तत्पूर्वकर्मादानाभावः संवरः । तथा निर्देशः कर्तव्य इति चेन्न, कार्ये कारणोपचारात् । निरुध्यतेऽनेन निरोध इति वा, निरोधशब्दस्य करणसाधनत्वात् आस्रवनिरोधः संवर इत्युच्यते न पुनः कर्मादानाभावः । स इति योगविभागो वा आस्रवस्य निरोधः ततः संवर इति । एतदेवाह -
अथास्रवनिरोधः स्यात्संवरोऽपूर्वकर्मणां । कारणस्य निरोधे हि बंधकार्यस्य नोदयः ॥ १ ॥ आस्रवः कारणं बंधस्य कुतः सिद्ध इति चेत्
आस्रवः कारणं बंधे सिद्धस्तद्भावभावतः । तन्निरोधे विरुध्येत नात्मा संवृतरूपभृत् ॥ २ ॥ न हि निरोधो निरूपितो अभावस्तस्य भावांतरस्वभावत्वसमर्थनात्, तेनात्मैव निरुद्धास्रवः संवृतस्वभावभृत् संवरः सिद्धः सर्वथाविरोधाद्भावाभावाभ्यां भवतोऽभवतश्च । बंधस्यास्रवकारणत्ववत् बंधस्यैव निरोधः संवर इति कश्चित्, तदयुक्तमित्याहः -
संवरः पूर्वबंधस्य निरोध इति भाषितं । न युक्तमास्रवे सत्यप्येतद्वाधानुषंगतः ॥ ३ ॥
न हि सत्यप्यास्रवे संवरः संभवति सर्वस्य तत्प्रसंगात् । न चापूर्वकर्मबंधस्य निरोधे सत्यास्रवनिरोध एवेति नियमोस्ति, क्षीणकषायसयोगकेवलिनोर पूर्वबंध निरोधेपि कर्मास्रवसिद्धेः । प्रकृत्यादिसकलबंधनिरोधस्तु न नास्रवनिरोधमंतरेण भवतीति तन्निरोध एव बंधनिरोधस्ततो युक्तमेतदास्रवनिरोधः कर्मणामात्मनः संवर इति । मिथ्यादर्शनादिप्रत्ययधर्मसंवरणं संवरः । स द्वेधा, द्रव्यभावभेदात् । संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः, तन्निरोधे तत्पूर्वककर्मपुद्गलादानविच्छेदो द्रव्यसंवरः । तद्विभावनार्थं गुणस्थानविभागवचनं । मिथ्यादृष्टिसासादनसम्यग्दृष्टि सम्यग्मिथ्यादृष्यसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्तसंयतापूर्वकरणानिवृत्तिबादरसां पराय सूक्ष्मसांपरायोपशम कक्षपकोप शांतक्षीणकषाय वीतरागछद्मस्थ सयोगायोगिकेवलिभेदाद्गुणस्थानविकल्पः । तत्र मिथ्यादर्शनोदयवशीकृतो मिथ्यात्वोदयेऽसम्यग्मिथ्यादृष्टिः, तदुदयाभावेऽनंतानुबंधिकषायोदय विधेयीकृतः सासादनसम्यग्दृष्टिः, सम्यस्मिथ्यादृष्टिः, सम्यक्त्वोपेतश्चारित्रमोहोदयापादिताविरतिरसंयतसम्यग्दृष्टिः, विषयविरतिपरिणतः संयतासंयतः, परिप्राप्तसंयमः प्रमादवान् प्रमत्तसंयतः प्रमादविरहितोऽप्रमत्तसंयतः, अपूर्वकरणपरिणामः उपशमकः क्षपकश्चोपचारात् अनिवृत्तिपरिणामवशात् स्थूलभावेनोपशमकः क्षपकश्वानिवृत्तिबादरसांपरायः, सूक्ष्मभावेनोपशमात् क्षपणाच्च सूक्ष्मसांपरायः, सर्वस्योपशमात्क्षपणाच्चोपशांतकषायः क्षीणकषायश्च, घातिकर्मक्षयादाविर्भूतज्ञानाद्यतिशयः केवली । स द्विविधो योगभावाभावभेदात् । तत्र मिथ्यात्वप्रत्ययस्य कर्मणस्तदभावे संवरो ज्ञेयः । असंयमस्त्रिविधोऽनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् तत्प्रत्ययस्य तदभावे संवरः, प्रमादोपनीतस्य तदभावे निरोधः, कषायास्रवस्य तन्निरोधे निरासः, केवलयोगनिमित्तं सद्वेद्यं तदभावे तस्य निरोध इति सकलसंवरो अयोगकेवलिनः । सयोगकेवल्यंतेषु गुणस्थानेषु देशसंवरः प्रतिपत्तव्यः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org