________________
"
प्रथमोऽध्यायः ।
१२७
प्रमाणं
योग्यतामात्रात्स्वरूपमधिगच्छति । यथा तथार्थमित्यस्तु प्रतीत्यनतिलंघनात् ॥ ३५ ॥ स्वरूपेपि च सारूप्यान्नाधिगत्युपवर्णनम् । युक्तं तस्य द्विनिष्ठत्वात् कल्पितस्याप्यसंभवात् ||३६|| कल्पने वानवस्थानात् कुतः संवित्तिसंभवः । स्वार्थेन घटयत्येनां प्रमाणे खावृतिक्षयात् ॥ ३७ ॥ नायं दोषस्ततो नैव सारूप्यस्य प्रमाणता । नाभिन्नोधिगमस्तस्मादेकांतेनेति निश्वयः ॥ ३८ ॥
स्वरूपे प्रतिनियमव्यवस्थापकत्वं संवेदनस्य सारूप्यापायेपि ब्रुवाणः कथमर्थे सारूप्यं ततः साधयेत् । निराकारस्य बोधस्य केनचिदर्थेन प्रत्यासत्तिविकर्षाभावात् सर्वैकवेदनापत्तिरित्ययुक्तं, स्वरूपसंवेदनस्यापि तथा प्रसंगात्। ननु च संवेदनमसंवेदनाद्भिन्नं खकारणात्तदुत्पन्नं स्वरूपप्रकाशकं युक्तमेव अन्यथा तस्यासंवेदनत्वप्रसक्तेरिति चेत्, तर्ह्यर्थसंवेदनमप्यनर्थसंवेदनाद्भिन्नं खहेतोरुपजातमर्थप्रकाशकमस्तु तस्यान्यथानर्थसंवेदनत्वापत्तिरिति समानं । सर्वस्यार्थस्य प्रकाशकं कस्मान्नेति चेत्, खसंवेदनमपि पररूपस्य कस्मान्न प्रकाशकं ? स्वरूपप्रकाशने योग्यतासद्भावात् । पररूपप्रकाशने तु तदभावादिति चेत्, प्रतिनियतार्थप्रकाशने सर्वार्थप्रकाशनाभावात् समः परिहारः । प्रतीत्यनतिलंघनस्याप्यविशेषात् संवृत्त्या सारूप्येपि संवेदनस्य सारूप्यादधिगतिरित्ययुक्तं, तस्य द्विष्ठत्वादेकत्रासंभवात् । ग्राह्यस्य स्वरूपस्य ग्राहकात् खरूपाद्भेदकल्पनया तस्य तेन सारूप्यकल्पनाददोष इति चेत् । तदपि ग्राह्यं ग्राहकं च स्वरूपं । यदि स्वसंविदितं तदान्यग्राह्यग्राहकस्वरूपकल्पने प्रत्येकमनवस्था । तदखसंविदितं चेत् कथं संवेदनस्वरूपमिति यत्किंचिदेतत् । न चायं दोषः समानः संवित्तिं खार्थेन घटयति सति प्रमाणे वावरणक्षयात् क्षयोपशमाद्वा तथास्खभावत्वात् प्रमाणस्य । तन्न सारूप्यमस्य प्रमाणमधिगतिः फलमेकांततोनर्थातरं तत इति निश्चितम् ॥
भिन्न एवेति चायुक्तं खयमज्ञानताशितः । प्रमाणस्य घटस्यैव परत्वात् स्वार्थनिश्चयात् ॥ ३९ ॥ यत्स्वार्थाधिगमादत्यंतं भिन्नं तदज्ञानमेव यथा घटादि । तथा च कस्यचित्प्रमाणं न वाज्ञानस्य प्रमाणता युक्ता ॥
चक्षुरादि प्रमाणं चेदचेतनमपीष्यते । न साधकतमत्वस्याभावात्तस्याचितः सदा ॥ ४० ॥ चितस्तु भावनेत्रादेः प्रमाणत्वं न वार्यते । तत्साधकतमत्वस्य कथंचिदुपपत्तितः ॥ ४१ ॥ साधकतमत्वं प्रमाणत्वेन व्याप्तं तदर्थपरिच्छित्तौ चक्षुरादेरुपलभ्यमानं प्रमाणत्वं साधयतीति यदी - प्यते तदा तद्रव्यचक्षुरादि भावचक्षुरादि वा ? न तावद्रव्यनेत्रादि तस्य साधकतमत्वासिद्धेः । न हि तत्साधकतमं स्वार्थपरिच्छित्तावचेतनत्वाद्विषयवत् । यत्तु साधकतमं तच्चेतनं दृष्टं यथा विशेषणज्ञानं विशेप्यपरिच्छित्तौ । न च चेतनं पौगलिकं द्रव्यनयनादीति न साधकतमं यतः प्रमाणं सिद्ध्येत् । छिदौ परश्वादिना साधकतमेन व्यभिचार इति चेन्न, स्वार्थपरिच्छित्तौ साधकतमत्वाभावस्य साध्यत्वात् । न हि सर्वत्र साधकतमत्वं प्रमाणत्वेन व्याप्तं परश्वादेरपि प्रमाणत्वप्रसंगात् । भावनेत्रादिचेतनं प्रमाणमिति तु नानिष्टं तस्य कथंचित्साधकतमत्वोपपत्तेः, आत्मोपयोगस्य स्वार्थप्रमितौ साधकतमत्वात्तस्य भावेंद्रियत्वोपगमात् ॥
हानादिवेदनं भिन्नं फलमिष्टं प्रमाणतः । तदभिन्नं पुनः स्वार्थाज्ञानव्यावर्तनं समम् ॥ ४२ ॥ स्याद्वादाश्रयणे युक्तमेतदप्यन्यथा न तु । हानादिवेदनस्यापि प्रमाणादिभिदेक्षणात् ॥ ४३ ॥ हानोपादानानपेक्ष्यं ज्ञानं व्यवहितं फलं प्रमाणस्याज्ञानव्यावृत्तिरव्यवहितमित्यपि स्याद्वादाश्रयणे युक्तमन्यथा तदयोगात्, हानादिज्ञानस्यापि प्रमाणात् कथंचिदव्यवधानोपलब्धेः सर्वथा व्यवहितत्वासिद्धेः । तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org