________________
१२६
तत्त्वार्थश्लोकवार्तिके
[सू० ६
स्वार्थव्यवसाय एव स्वस्यार्थस्य च व्यवसाय इत्ययोद्धारकल्पनया नयव्यवहारात् । ततो नासंभवः । स्वार्थविनिश्चयस्य खसंवेदनेर्थव्यवसायात्सत्त्वादव्याप्तिरिति चेन्न, ज्ञानस्वरूपस्यैवार्थत्वात् तस्यार्यमाणत्वादन्यथा बहिरर्थस्याप्यनर्थत्वप्रसंगात् । ननु स्वरूपस्य बाह्यस्य चार्थत्वेऽर्थव्यवसाय इत्यस्तु, नार्थः स्वग्रहणेन । सत्यं । केवलं खस्मै योग्योर्थः खात्मा परात्मा तदुभयं वा स्वार्थ इत्यपि व्याख्याने तद्ग्रहणस्य सार्थकत्वान्न दोषः । स्वरूपलक्षणेर्थे व्यवसायस्याप्रमाणेपि भावादतिव्याप्तिरितिचेत् न, तत्र सर्ववेदनस्य प्रमाणत्वो- ' पगमात् । न च प्रमाणत्वाप्रमाणत्वयोरेकत्र विरोधः, संवादासंवाददर्शनात्तथा व्यवस्थानात् । सर्वत्र प्रमाणेतरत्वयोस्तावन्मात्रायत्तत्वादिति वक्ष्यते । चक्षुर्दर्शनादौ किंचिदिति खार्थविनिश्चयस्य भावादतिव्याप्तिरित्यपि न शंकनीयं, आकारग्रहणात् । न हि तत्र स्वार्थाकारस्य विनिश्चयोस्ति निराकारस्य सन्मात्रस्य तेनालोचनात् । विपर्ययज्ञाने कस्यचित्कदाचित् क्वचित्स्वार्थाकारनिश्चयस्य भावादपि नातिव्याप्तिर्विग्रहणात् । विशेषेण देशकालनरांतरापेक्षबाधकाभावरूपेण निश्चयो हि विनिश्चयः, स च विपर्ययज्ञाने नास्तीति निरवद्यः खार्थाकारविनिश्चयोधिगमः कार्यतः प्रमाणस्य देशतो नयानामभिन्नफलत्वेन कथंचिप्रत्येयः प्रमाणनयतत्फलविद्भिः । एवं च प्रमाणनयैरधिगम इत्यत्र सूत्रे प्रमाणनयानां यत्करणत्वेन वचनं सूत्रकारस्य तद्धनां यात्येव तेभ्योधिगमस्य फलस्य कथंचिद्भेदसिद्धेः ॥ सारूप्यस्य प्रमाणस्य स्वभावोधिगमः फलम् । तद्भेदः कल्पनामात्रादिति केचित्प्रपेदिरे ॥ ३० ॥ संवेदनस्यार्थेन सारूप्यं प्रमाणं तत्र ग्राहकतया व्याप्रियमाणत्वात् पुत्रस्य पित्रा सारूप्यवत् । पितृस्वरूपो हि पुत्रः पितृरूपं गृह्णातीति लोकोभिमन्यते न च तत्त्वतस्तस्य ग्राहको नीरुपत्वप्रसंगात् । तद्वदर्थसरूपसंवेदनमर्थं गृह्णातीति व्यवहरतीति तत् तस्य ग्राहकत्वात् प्रमाणमर्थाधिगतिः फलं तस्य तदर्थत्वात् । न च संवेदनादर्थसारूप्यमन्यदेव स्वसंवेद्यत्वादधिगतिवत् । न ह्यधिगतिः संवेदनादन्या तस्यानधिगमप्रसंगात् । ततस्तदेव प्रमाणं फलं न पुनः प्रमाणात्तत्फलं भिन्नमन्यत्र कल्पनामात्रादिति केचित् ॥ तन्न युक्तं निरंशायाः संवित्तेर्द्वयरूपतां । प्रतिकल्पयतां हेतुविशेषासंभवित्वतः ॥ ३१ ॥ न हि निरंशां संवित्तिं खयमुपेत्य प्रमाणफलद्वयरूपतां तत्त्वप्रविभागेन कल्पयतो युक्तिवादिनस्तथाकल्पने हेतु विशेषस्यासंभवित्वात् ॥
"
विना हेतुविशेषेण नान्यव्यावृत्तिमात्रतः । कल्पितोर्थोर्थसंसिद्ध्यै सर्वथातिप्रसंगतः ॥ ३२ ॥ न हि निमित्तविशेषाद्विना कल्पितं सारूप्यमन्यद्वा किंचिदर्थं साधयति, मनोराज्यादेरपि तथानुषंगात् । नाप्यसारूप्यव्यावृत्तितः सारूप्यं अनधिगतिव्यावृत्तितोधिगतिः संवेदनेनंशेपि वस्तुतो व्यवहियत इति युक्तं, दरिद्रेप्यराज्यव्यावृत्त्या राज्यं अनिंद्रत्वव्यावृत्त्या इंद्रत्वमित्यादिव्यवहारानुषंगात् । यदि पुनस्तत्र राज्यादेरभावात्तद्व्यावृत्तिरसिद्धा तदा संवेदनस्य सारूप्यादिशून्यत्वात् कथमसारूप्यादिव्यावृत्तिः ? यतस्तन्निबंधनं सारूप्यकल्पनं तस्यात्र स्यात् । ततो न साकारो बोधः प्रमाणम् ॥
प्रतिकर्मव्यवस्थानस्यान्यथानुपपत्तितः । साकारस्य च बोधस्य प्रमाणत्वापवर्णनम् ॥ ३३ ॥ क्षणक्षयादिरूपस्य व्यवस्थापकता न किम् । तेन तस्य स्वरूपत्वाद्विशेषांतरहा नितः ॥ ३४ ॥ यथैव हि नीलवेदनं नीलस्याकारं बिभर्ति तथा क्षणक्षयादेरपि तदभिन्नत्वाद्विशेषांतरस्य चाभावात् । ततो नीलाकारत्वान्नील वेदनस्य नीलव्यवस्थापकत्वे क्षणक्षयादिव्यवस्थापकतापत्तिरन्यथा तदाकारेण व्यभिचारात् न तदाकारत्वात्तद्व्यवस्थापकत्वं साध्यते । किं तर्हि तद्व्यवस्थापकत्वात्तदाकारत्वमिति चेन्न, स्वरूपव्यवस्थापकत्वेनानेकांतात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org