________________
9
प्रथमोऽध्यायः ।
१२५
नार्थे तत्तदावरण विच्छेदविशिष्टस्यात्मन एवेंद्रियादिबहिरंगकारणापेक्षस्य यथासंभवं व्यवसायजनकत्वेने - ष्टत्वात् तद्व्यतिरेकेण दर्शनस्याप्रतीतिकत्वाच्चेति निवेदयिष्यते प्रत्यक्षप्रकरणे । ततो नाध्यवसायात्मा प्रत्येयोधिगमोर्थानां सर्वथानुपपन्नत्वात् । पुरुषस्य स्वव्यवसाय एवाधिगमो नार्थव्यवसायस्तद्व्यतिरेकेणार्थस्याभावादिति केचिद्वेदांतवादिनः, तेपि न तात्त्विकाः । पुरुषाद्भिन्नस्याजीवार्थस्य जीवादिसूत्रे साधितत्वात् तयवसायस्यापि घटनात् । अर्थस्यैव व्यवसायो न स्वस्य स्वात्मनि क्रियाविरोधादित्यपरः । सोपि यत्किंचनभाषी, खात्मन्येव क्रियायाः प्रतीतेः । खात्मा हि क्रियायाः स्वरूपं यदि तदा कथं तत्र तद्विरोधः सर्वस्य वस्तुनः स्वरूपे विरोधानुषक्तेर्निः खरूपत्वप्रसंगात् । क्रियावदात्मा खात्मा चेत्, तत्र तद्विरोधे क्रियाया निराश्रयत्वं सर्वद्रव्यस्य च निष्क्रियत्वमुपढौकेत । न चैवं । कर्मस्थायाः क्रियायाः कर्मणि कर्तृस्थायाः कर्तरि प्रतीयमानत्वात् । यदि पुनः ज्ञानक्रियायाः कर्तृसमवायिन्याः स्वात्मनि कर्मतया विरोधस्ततोन्यत्रैव कर्मत्वदर्शनादिति मतं, तदा ज्ञानेनार्थमहं जानामीत्यत्र ज्ञानस्य करणतयापि विरोधः स्यात् क्रियातोन्यस्य करणत्वदर्शनात् । ज्ञानक्रियायाः करणज्ञानस्य चान्यत्वादविरोध इति चेत्, किं पुनः करणज्ञानं का वा ज्ञानक्रिया ? विशेषणज्ञानं करणं विशेष्यज्ञानं तत्फलत्वात् ज्ञानक्रियेति चेत्, स्यादेवं यदि विशेषणज्ञानेन विशेष्यं जानामीति प्रतीतिरुत्पद्येत । न च कस्यचि - दुत्पद्यते । विशेषणज्ञानेन विशेषणं विशेष्यज्ञानेन च विशेष्यं जानामीत्यनुभवात् । करणत्वेन ज्ञानक्रियायाः प्रतीयमानत्वादविरोधे कर्मत्वेनाप्यत एवाविरोधोस्तु विशेषाभावात् । चक्षुरादिकरणं ज्ञानक्रियातो भिन्नमेवेति चेन्न, ज्ञानेनार्थं जानामीत्यपि प्रतीतेः । ज्ञायतेऽनेनेति ज्ञानं चक्षुराद्येव ज्ञानक्रियायां साधकतमं करणमिति चेत् न, तस्य साधकतमत्वनिराकरणात् । तत्र ज्ञानस्यैव साधकतमत्वोपपत्तेः । ननु यदेवार्थस्य ज्ञानक्रियायां ज्ञानं करणं सैव ज्ञानक्रिया, तत्र कथं क्रियाकरणव्यवहारः प्रतीतिकः स्याद्विरोधादिति चेन्न, कथंचिद्भेदात् । प्रमातुरात्मनो हि वस्तुपरिच्छित्तौ साधकतमत्वेन व्याप्तं रूपं करणं, निर्व्यापारं तु क्रियोच्यते, खातंत्र्येण पुनर्व्याप्रियमाणः कर्तात्मेति निर्णीतप्रायं । तेन ज्ञानात्मक एवात्मा ज्ञानात्मनार्थं जानातीति कर्तृकरणक्रियाविकल्पः प्रतीतिसिद्ध एव । तद्वत्तत्र कर्मव्यवहारोपि ज्ञानात्मा आत्मात्मानमात्मना जानातीति घटते । सर्वथा कर्तृकरणकर्मक्रियानामभेदानभ्युपगमात्, तासां कर्तृत्वादिशक्तिनिमित्तत्वात् कथंचिदभेदसिद्धेः । ततो ज्ञानं येनात्मनार्थं जानाति तेनैव खमिति वदतां खात्मनि क्रियाविरोध एव, परिच्छेद्यस्य रूपस्य सर्वथा परिच्छेद कखरूपादभिन्नस्योपगतेश्च । कथंचित्तद्भेदवादिनां तु नायं दोषः । ननु च येनात्मना ज्ञानमात्मानं व्यवस्यति येन चार्थ तौ यदि ततोनन्यौ तदा तावेव न. ज्ञानं तस्य तत्र प्रवेशात् खरूपवत् ज्ञानमेव वा तयोस्तत्रानुप्रवेशात् । तथाच न खार्थव्यवसायः । यदि पुनस्तौ ततोन्यौ, तदा स्वसंवेद्यौ खाश्रयज्ञानवेद्यौ वा ? प्रथमपक्षे खसंविदितज्ञानत्रयप्रसंगः तत्र च प्रत्येकं स्वार्थव्यवसायात्मकत्वे स एव पर्यनुयोगोऽनवस्था च । द्वितीयपक्षेपि स्वार्थ व्यवसाय हेतुभूतयोः स्वस्वभावयोर्ज्ञानं यदि व्यवसायात्मकं तदा स एव दोषोऽन्यथा प्रमाणत्वाघटनात् । ततो न स्वार्थव्यवसायः संभवतीत्येकांतवादिनामुपालंभः स्याद्वादिनां न, यथाप्रतीति तदभ्युपगमात् स्वार्थव्यवसायखभावद्वयात् कथंचिदभिन्नस्यैकस्य ज्ञानस्य प्रतिपत्तेः । सर्वथा ततस्तस्य भेदाभेदयोरसंभवात्, तत्पक्षभाविदूषणस्य निर्विषयत्वाद्दूषणाभासतोपपत्तेः । परिकल्पितयोर्भेदाभेदैकांतयोस्तद्दूषणस्य प्रवृत्तौ सर्वत्र प्रवृत्ति - प्रसंगात् कस्यचिदिष्टतत्त्वव्यवस्थानुपपत्तेः । संवेदनमात्रमपि हि स्वरूपं संवेदयमानं येनात्मना संवेदयते तस्य हेतोर्भेदाभेदैकांत कल्पनायां यथोपवर्णितदूषणमवतरति किं पुनरन्यत्र । यदि पुनः संवेदनं संवेदनमेव, तस्य स्वरूपे वेद्यवेदकभावात् संवृत्या तत्स्वरूपं संवेदयत इति वचनं तदा खार्थव्यवसायः ।
7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org