________________
१२८
तत्त्वार्थश्लोकवार्तिके
[सू० ६
येनैवार्थो मया ज्ञातस्तेनैव त्यज्यतेधुना । गृह्येतोपेक्षते चेति तदैक्यं केन नेष्यते ॥ ४४ ॥ भेदैकां पुनर्न स्यात् प्रमाणफलता गतिः । संतानांतरवत्स्वेष्टेप्येकत्रात्मनि संविदोः ॥ ४५ ॥ न ह्येन प्रमितेर्थे परस्य हानादिवेदनं तत्प्रमाणफलं युक्तमतिप्रसंगात् । यस्य यत्र प्रमाणं ज्ञानं तस्यैव तत्र फलज्ञानमित्युपगमे सिद्धं प्रमाणफलयोरेकप्रमात्रात्मकयोरेकत्वं । न चैवं तयोर्भेदप्रतिभासो विरुध्यते विशेषापेक्षया तस्य व्यवस्थानात् ॥
पर्यायार्थार्पणाद्भेदो द्रव्यार्थादभिदास्तु नः । प्रमाणफलयोः साक्षादसाक्षादपि तत्त्वतः ॥ ४६ ॥
साक्षात्प्रमाणफलयोरभेद एवेत्ययुक्तं पर्यायशक्तिभेदमंतरेण करणसाधनस्य भावसाधनस्य च फलस्यानुपपत्तेः । सर्वथैक्ये तयोरेकसाधनत्वापत्तेः करणाद्यनेककारकस्यैकत्रापि कल्पनामात्रादुपपत्तिरिति चेन्न, तत्त्वतः संवेदनस्याकारकत्वानुषक्तेः । न चाकारकं वस्तु कूटस्थवत् तयोरसाक्षाद्भेद एवेत्यप्यसंगतं, तदेको पादानत्वाभावप्रसंगात् । न च तयोर्भिन्नोपादानता युक्ता संतानांतरवदनुसंधानविरोधात् । यदा पुनरव्यवहितं व्यवहितं च फलं प्रमाणाद्द्रव्यार्थादभिन्नं पर्यायार्थाद्भिन्नमिष्यते तदा न कश्चिद्विरोधस्तथाप्रतीतेः ।
तत्प्रमाणान्नयाच्च स्यात्तत्त्वस्याधिगमोपरः । स स्वार्थश्च परार्थश्व ज्ञानशब्दात्मकात्ततः ॥ ४७ ॥ ज्ञानं मत्यादिभेदेन वक्ष्यमाणं प्रपंचतः । शब्दस्तु सप्तधा वृत्तो ज्ञेयो विधिनिषेधगः ॥ ४८ ॥
मत्यादिज्ञानं वक्ष्यमाणं तदात्मकं प्रमाणं स्वार्थं शब्दात्मकं परार्थ, श्रुतविषयैकदेशज्ञानं नयो वक्ष्यमाणः स खार्थः शब्दात्मकः परार्थः कार्त्स्यतो देशतश्च तत्त्वार्थाधिगमः फलात्मा स च प्रमाणान्नयाच्च कथंचिद्भिन्न इति सूक्तं प्रमाणनयपूर्वकः । शब्दो विधिप्रधान एवेत्ययुक्तं, प्रतिषेधस्य शब्दादप्रतिपत्तिप्रसंगात् । तस्य गुणभावेनैव ततः प्रतिपत्तिरित्यप्यसारं, सर्वत्र सर्वदा सर्वथा प्रधानभावेनाप्रतिपन्नस्य गुणभावानुपपत्तेः । खरूपेण मुख्यतः प्रतिपन्नस्य क्वचिद्विशेषणत्वादिदर्शनात् प्रतिषेधप्रधान एव शब्द इत्यप्यनेनापास्तं । क्रमादुभयप्रधान एवं शब्द इत्यपि न साधीयः, तस्यैकैकप्रधानत्वप्रतीतेरप्यबाधितत्वात् । सकृद्विधिनिषेधात्मनोर्थस्यावाचक एवेति च मिथ्या, तस्यावाच्यशब्देनाप्यवाच्यत्वप्रसक्तेः । विध्यात्मनोर्थस्य वाचक एवोभयात्मनो युगपदवाचक एवेत्येकांतोपि न युक्तः, प्रतिषेधात्मनः उभयात्मनश्च सहार्थस्य वाचकत्वावाचकत्वाभ्यां शब्दस्य प्रतीतेः । इत्थमेवेत्यप्यसंगतमन्यथापि संप्रत्ययात् । क्रमाक्रमाभ्यामुभयात्मनोर्थस्य वाचकश्चावाचकश्च नान्यथेत्यपि प्रतीतिविरुद्धं विधिमात्रादिप्रधानतयापि तस्य प्रसिद्धेरिति सप्तधा प्रवृत्तोर्थे शब्दः प्रतिपत्तव्यो विधिप्रतिषेधविकल्पात् ॥
तत्र प्रश्नवशात्कश्चिद्विधौ शब्दः प्रवर्तते । स्यादस्त्येवाखिलं यद्वत्स्वरूपादिचतुष्टयात् ॥ ४९ ॥ स्यान्नास्त्येव विपर्यासादिति कश्चिन्निषेधने । स्याद्वैतमेव तद्वैतादित्यस्तित्वनिषेधयोः ॥ ५० ॥ क्रमेण यौगपद्याद्वा स्यादवक्तव्यमेव तत् । स्यादस्त्यवाच्यमेवेति यथोचितनयार्पणात् ॥ ५१ ॥ स्यान्नास्त्यवाच्यमेवेति तत एव निगद्यते । स्याद्वयावाच्यमेवेति सप्तभंग्य विरोधतः ॥ ५२ ॥
न ह्येकस्मिन् वस्तुनि प्रश्नवशाद्विधिनिषेधयोर्व्यस्तयोः समस्तयोश्च कल्पनयोः सप्तधा वचनमार्गो विरुध्यते, तत्र तथाविधयोस्तयोः प्रतीतिसिद्धत्वादेकांतमंतरेण वस्तुत्वानुपपत्तेरसंभवात् । स्खलक्षणे तयोरप्रतीतेर्विकल्पाकारतया संवेदनान्न प्रतीतिसिद्धमिति चेत्, किं पुनर्व्यस्त समस्ताभ्यां विधिप्रतिषेधाभ्यां शून्यं खलक्षणमुपलक्ष्यते कदाचित् संहृतसकल विकल्पावस्थायामुपलक्ष्यत एव तदनंतरं व्युच्छित्तचित्तदशायामिदमित्यमस्त्यन्यथा नास्तीत्यादिविधिप्रतिषेधधर्म विशेषप्रतीतेः पूर्वं तथाविध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org