________________
प्रथमोऽध्यायः ।
१२९ वासनोपजनितविकल्पबुद्धौ प्रवृत्तेः । केवलं तान् धर्मविशेषांस्तत्र प्रतिभासमानानपि कुतश्चिद्विभ्रमहेतोः खलक्षणेप्यारोपयंस्तदपि तद्धर्मात्मकं व्यवहारी मन्यते । वस्तुतस्तद्धर्माणामसंभवात् । संभवे वा प्रत्यक्षे प्रतिभासप्रसंगादेकत्रापि नानाबुद्धीनां निवारयितुमशक्तेरिति केचित् । तेपि पर्यनुयोज्याः । कुतः ? सकलधर्मविकलं स्खलक्षणमभिमतदशायां प्रतिभासमानं विनिश्चितमिति । प्रत्यक्षत एवेति चेन्न, तस्या, निश्चायकत्वात् । निश्चयजनकत्वान्निश्चायकमेव तदिति चेत् , तस्तित्वादिधर्मनिश्चयजननात्तन्निश्चयोपि प्रत्यक्षोस्तु तस्य तन्निश्चायकत्वोपपत्तेः अन्यथा स्खलक्षणनिश्चायकत्वस्य विरोधात् । यदि पुनरस्तित्वादिधर्मवासनावशात्तद्धर्मनिश्चयस्योत्पत्तेर्न प्रत्यक्षं तन्निश्चयस्य जनकमिति मतं तदा खलक्षणं शुद्धं प्रतिभातमिति निश्चयस्यापि स्खलक्षणवासनाबलादुदयान्न तत्तस्य जनकं स्यात् । खलक्षणेनुभवनाभावे निश्चयायोगो न पुनरस्तित्वादिधर्मेष्विति स्वरुचिप्रकाशमानं श्रुतिमात्रात्तद्धर्मनिश्चयस्योत्पत्तौ स्खलक्षणनिर्णयस्यापि तत एवोत्पत्तिरस्तु । तथा च न वस्तुतः खलक्षणस्य सिद्धिस्तद्धर्मवत् खलक्षणस्य तन्निश्चयजननासमर्थादपि प्रत्यक्षासिद्धौ तद्धर्माणामपि तथाविधादेवाध्यक्षात् सिद्धिः स्यात् । प्रत्यक्षे खलक्षणमेव प्रतिभाति न तु कियंतो धर्मा इत्ययुक्तं, सत्त्वादिधर्माक्रांतस्यैव वस्तुनः प्रतिभासनात् । प्रत्यक्षादुत्तरकालमनिश्चिताः कथं प्रतिभासंते नाम तद्धर्मा इति चेत् , खलक्षणं कथं ? स्खलक्षणत्वेन सामान्येन रूपेण निश्चितमेव तत् प्रत्यक्षपृष्टभाविना निश्चयेनेति चेत् , तद्धर्माः कथं सामान्येनानिश्चिताः समानाकारस्यावस्तुत्वात् । तेन निश्चिता न ते वास्तवाः स्युरितिचेत् स्खलक्षणं कथं तेन निश्चीयमानं वस्तु सत् । तथा तदवस्त्वेवेतिचेत् यथा न निश्चीयते तथा वस्तु तदित्यायातं । तच्चानुपपन्नं । पुरुषाद्यद्वैतवत् खलक्षणमेव वस्तु सत् खार्थक्रियानिमित्तत्वान्नात्माद्यद्वैतमित्यपि न सत्यं, सत्त्वादिधर्माणामभावे तस्य तन्निमित्तत्वासिद्धेः खर)गादिवत् सर्वत्र सर्वथैकांतेप्यक्रियानिमित्तत्वस्य निराकृतत्वाच्च । बहिरंतर्वानेकांतात्मन्येव तस्य समर्थनात् क्षणिकखलक्षणस्य तन्निमित्तत्वमंगीकृत्याशक्यनिश्चयस्यापि धर्माणां तत्प्रतिक्षेपे तान्यप्यंगीकृत्य स्खलक्षणे तत्प्रतिक्षेपस्य कर्तुं सुशकत्वात् । तथाहि-सत्त्वादयो धर्मा एवार्थक्रियाकारिणः संहृतसकलविकल्पावस्थायामुपलक्ष्यंते न खलक्षणं तस्य खवासनाप्रबोधाद्विकल्पबुद्धौ प्रतिभासनात् । केवलं तत्रावभासमानमपि तद्धर्मेध्यारोपयन् कुतश्चिद्विभ्रमादर्थक्रियानिमित्तमिव जनोनुमन्यते परमार्थतस्तस्यासंभवात् । संभवेवाध्यक्षेऽवभासानुषंगात् चित्रसंविदां सकृदपनेतुमशक्तेः । खलक्षणस्य वस्तुतोसत्त्वे कस्यायत्ताः सत्त्वादयो धर्मा इति चेत् तेषां परमार्थतोसत्त्वे कस्य खलक्षणमाश्रय इति समः पर्यनुयोगः । खरूपस्यैवेति चेत् तर्हि धर्माः स्वरूपायत्ता एव संतु खलक्षणमनिर्देश्यं वस्य परस्य वाश्रयत्वेनान्यथा वा निर्देष्टुमशक्यत्वादिति चेत् तत एव धर्मास्तथा भवंतु विरोधाभावात् । स्याद्वादिनां शुद्धद्रव्यस्येवार्थपर्यायाणामनिर्दिश्यत्वोपगमात् । यथा च व्यंजनपर्यायाणां सदृशपरिणामलक्षणानां निर्देश्यत्वं तैरिष्टं तथा द्रव्यस्याप्यशुद्धस्येति नैकांततः किंचिदनिर्देश्यं निर्देश्यं वा कुतः । समानेतरपरिणामा धर्मा इति चेत् स्खलक्षणानि कुतः? तथा खकारणादुत्पत्तेरिति चेत् तुल्यमितरत्र । खलक्षणान्येककार्यकरणाकरणाभ्यां समानेतररूपाणीत्ययुक्तं, केषांचिदेककार्यकारिणामपि विसदृशत्वेक्षणात् कथमन्यथेंद्रियविषयमनस्काराणां गडूच्यादीनां च ज्ञानादेज्वरोपशमनादेश्चैककार्यस्य करणं भेदे खभावत एवोदाहरणार्ह । चित्रकाष्ठकर्माद्यनेककार्यकारिणामपि मनुष्याणां समानत्वदर्शनात् समान इति प्रतीतेरन्यथानुपपत्तेः । समानासमानकार्यकरणाद्भावानां तथाभाव इति चेत् कुतस्तत्कायोणां तथा भावः ? समानेतरखकार्यकरणादिति चेत् , स एव पर्यनुयोगोनवस्था च । तथोत्पत्तिरिति चेत् सर्वभावानां तत एव तथाभावोस्तु । समानेतरकारणत्वाचेषां तथाभाव इत्यप्यनेनापास्तं, समानेतरपरि
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.