________________
तत्त्वार्थश्लोकवार्तिके
[ सू० ४५ अथ चतुर्थ शुक्लं को ध्यायतीत्याह;ततः स्वयं समुच्छिन्नप्रदेशस्पंदनं स्थिरः । ध्वस्तनिःशेषयोगेभ्यो ध्यानं ध्यातांतसंवरः॥१३॥ संपूर्णनिर्जरश्वांत्ये क्षणे क्षीणभवस्थितिः । मुख्यं सिद्धत्वमध्यास्ते प्रसिद्धाष्टगुणोदयं ॥ १४ ॥ अथामनस्कस्य केवलिनः कथमेकाग्रचिंतानिरोधलक्षणं ध्यानं संभाव्यते इत्यारेकायामिदमाह;संक्लेशांगतयैकत्र चिंता चिंतांतरच्युता । पापं ध्यानं यथा प्रोक्तं व्यवहारनयाश्रयात् ॥ १५॥ विशुद्ध्यंगतया चैवं धर्म्य शुक्लं च किंचन । समनस्कस्य तादृक्षं नामनस्कस्य मुख्यतः ॥१६॥ उद्भूतकेवलस्यास्य सकृत्सर्वार्थवेदिनः । ऐकायभावतः केचिदुपचाराद्वदति तत् ॥ १७ ॥ चिंतानिरोधसद्भावो ध्यानात्सोपि निबंधनं । तत्र ध्यानोपचारस्य योगे लेश्योपचारवत् ॥ १८ सर्वचिंतानिरोधस्तु यो मुख्यो निश्चितानयात् । सोस्ति केवलिनः स्थैयमेकाग्रं च परं सदा ॥१९ मुख्यं ध्यानमतस्तस्य साक्षानिर्वाणकारणं । छद्मदृश्योपचारात्स्यात्तदन्यास्तित्वकारणात् ।। २० यथैकवस्तुनि स्थैर्य ज्ञानस्यैकाय्यमिष्यते । तथा विश्वपदार्थेषु सकृत्तत्केन वार्यते ॥ २१॥ मोहानुद्रेकतो ज्ञातुर्यथा व्याक्षेपसंक्षयः । मोहिनोस्ति तथा वीतमोहस्यासौ सदा न किम्॥२२ यथैकत्र प्रधानेर्थे वृत्तिर्वा तस्य मोहिनः । तथा केवलिनः किं न द्रव्येऽनंतविवर्तके ॥२३॥ इति निश्चयतो ध्यानं प्रतिषेध्यं न धीमता । प्रधानं विश्वतत्त्वार्थवेदिनां प्रस्फुटात्मनां ॥२४॥ सयोगकेवली ध्यानी यदि धर्मोपदेशना । कथं ततः प्रवर्तेतेत्येके तत्राभिधीयते ॥ २५ ॥ अंतर्मुहूर्तकालं वा ध्यानस्सानेकवत्सरं । नैकाथ्यं केवलिध्यानं प्रसिद्धं तत्त्वदेशिनाम् ॥ २६॥ तत एव च ते सिद्धाः कृतकृत्या जिनाधिपाः । स्तूयंते सिद्धसाधात्सदेहत्वेपि धीधनैः ॥२७ अयोगित्वसमुद्भूतेः पूर्वमंतर्मुहूर्तमा । तृतीयं ध्यानमाख्यातं वाक्प्रवृत्त्या विवर्जितं ॥ २८ ॥ वाक्कायवृत्तिसद्भावे यथा ध्यानी न मादृशः । तथार्हन्निति तस्यास्तूपचाराद्ध्यानदेशना ॥२९ तदेतद्व्यवहारनिश्चयनयनिरूपणनिपुणैः प्रमाणांतःकरणप्रवणैः सर्वमालोच्यं परमगहनत्वाच्छद्मस्थास्मादृशजनानामिति निवेदयन्नुपसंहरति;
कचिञ्चिता ध्यानं नियतविषयं पुंसि कथितं कचित्तस्याः कालाद्विलयनमिदं सर्वविषयं । कचित्किचिन्मुख्यं गुणमपि वदंति प्रतिनयं ततश्चित्यं सद्भिः परमगहनं जिनपतिमतं ॥३०॥
इति नवमाध्यायस्य प्रथममाह्निकम् ।
सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षपकोपशमकोपशांतमोह
क्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ किमर्थमिदमप्रस्तुतमुच्यते ? तपसा निर्जरा चेति प्रकृते तपसि बायेभ्यंतरे च ध्यानपर्यंते व्याख्याते सर्वसम्यग्दृष्टीनां यथासंभवं बाह्यरूपेणाभ्यंतररूपेण च तपसा समाननिर्जरात्वप्रसक्तौ तद्विशेषप्रतिपादनार्थं प्रस्तुतमेवेदं युक्तमभिधातुं । कुतः पुनः सम्यग्दृष्ट्यादयोऽसंख्येयगुणनिर्जरा क्रमाद्भवंतीत्याह
सम्यग्दृष्ट्यादयः संत्यसंख्येयगुणनिर्जराः । क्रमादत्र तथा शुद्धरसंख्येयगुणत्वतः ॥१॥
प्रथमं सम्यक्त्वादिप्रतिलंभे अध्यवसायविशुद्धिप्रकर्षादसंख्येयगुणनिर्जरत्वं दशानां । प्रथमं हि भव्यस्योपशमसम्यक्त्वं तदादयो वेदकसम्यक्त्वक्षायिकसम्यग्दर्शनश्रावकत्वादयः सूत्रोक्तास्तत्र प्रतिलब्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org