________________
नवभोऽध्यायः। ध्यवसायविशुद्धिप्रकर्षाद्दशानामपि क्रमादसंख्येयगुणनिर्जरत्वमुपपद्यते । क्षपक इत्यसाधुरन्वाख्यानाभावादिति चेन्न, चशब्देन मित्संज्ञोपलब्धेः । क्षै जै पै क्षये इत्यस्य कृतात्वस्य णौ पुकि कृते जनी-जृष्कसु-रञ्जोऽमन्ताश्चेति चशब्देन मित्संज्ञोपलब्धेईखत्वात् साधुरेव क्षपकशब्द इत्यर्थः ।। अथ तपोभाजां संयतानां परस्परं गुणविशेषाद्देदेपि नैगमनयान्नैर्ऋथ्यसाम्यमादर्शयन्नाह;
पुलाकवकुशकुशीलनिग्रंथस्त्रातका निग्रंथाः ॥ ४६ ॥ अपरिपूर्णव्रता उत्तरगुणहीनाः पुलाकाः, ईषद्विशुद्धिपुलाकसादृश्यात् । अखंडितव्रताः शरीरसंस्कारर्द्धिसुखयशोविभूतिप्रवणा वकुशाः, छेदशवलयुक्तत्वात् । बकुशशब्दो हि शबलपर्यायवाचीह । कुशीला द्विविधाः प्रतिसेवनाकषायोदयभेदात् । कथंचिदुत्तरगुणविराधनं प्रतिसेवना ग्रीष्मे जंघाप्रक्षालनवत् , संज्वलनमात्रोदयः कषायोदयस्तेन योगात् मूलोत्तरगुणभृतोपि प्रतिसेवनाकुशीलाः कषायकुशीलाश्चोच्यते । उदके दंडराजिवत्संनिरस्तकर्माणोंऽतर्मुहूर्तकेवलज्ञानदर्शनप्रापिणो निग्रंथाः । प्रक्षीणघातिकर्माणः केवलिनः स्नातकाः, स्नातं वेदसमाप्ताविति खार्थिके के निष्पन्नः शब्दः । कुत एते निग्रंथाः पंचापि मता इत्याह;
पुलाकाद्या मताः पंच निग्रंथा व्यवहारतः । निश्चयाच्चापि नैपँथ्यसामान्यस्याविरोधतः ॥१॥ वस्त्रादिग्रंथसंपन्नास्ततोन्ये नेति गम्यते । बाह्यग्रंथस्य सद्भावे ह्यंतर्ग्रथो न नश्यति ॥२॥ ये वस्त्रादिग्रहेप्याहुनिग्रंथत्वं यथोदितं । मूर्छानुभूतितस्तेषां रूयाद्यादानेपि किं न तत् ॥ ३॥ विषयग्रहणं कार्य मूछो स्यात्तस्य कारणं । न च कारणविध्वंसे जातु कार्यस्य संभवः ॥४॥ विषयः कारणं मूी तत्कार्यमिति यो वदेत् । तस्य मूर्छादयोऽसत्त्वे विषयस्य न सिद्ध्यति ॥५॥ तस्मान्मोहोदयान्मूछो स्वार्थ तस्स ग्रहस्ततः । स यस्यास्ति स्वयं तस्य न नेग्रंथ्यं कदाचन ॥६
कश्चिदाह-प्रकृष्टाप्रकृष्टगुणानां निर्ग्रथत्वाभावश्चारित्रभेदात् गृहस्थवदिति तं प्रत्याह-न च, दृष्टत्वाब्राह्मणशब्दवत् । न हि जात्याचाराध्ययनादिभेदाद्भिन्नेषु ब्राह्मणत्वं विरुध्यते, संग्रहव्यवहारापेक्षत्वात् निश्चयनयादेव समग्रगुणेषु तव्यपदेशसिद्धेः । किं च, दृष्टिरूपसामान्यात् सर्वेषां निग्रंथता न विरुध्यते । भगवते वृत्तावतिप्रसंग इति चेन्न, रूपाभावात् । निग्रंथरूपं हि यथाजातरूपमसंस्कृतं भूषावेशायुधविरहितं गृहस्थेषु न संभवतीति । ( अन्यस्मिन् सरूपेतिप्रसंग इति चेन्न, दृष्ट्वभावात् )॥
तेषां पुलाकादीनां भूयोपि विशेषप्रतिपत्त्यर्थमिदमाह;संयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः॥४७॥
.................................................. .......................................... ................................................॥
इति नवमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे नवमोऽध्यायः समाप्तः ॥९॥
........................
..................................
१ अत्र संयमश्रुतेत्यादिनवमाध्यायांतसूत्रस्य दशमाध्यायस्यादिसूत्रद्वयस्य व्याख्यानं गतं तत्पुस्तकांतराल्लिखनीयं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org