________________
१८४
तत्त्वार्थश्लोकवार्तिके
[सू० १२
दृष्टं यदेव तत्प्राप्तमित्येकत्वाविरोधतः । प्रत्यक्षं कस्यचित् तच्चेन्न स्याद्धांतं विरोधतः ॥ १८ ॥ प्रत्यक्षमभ्रांतमिति खयमुपयन् कथं भ्रांतं ज्ञानं प्रत्यक्षं सन्निदर्शनं ब्रूयात् ? ॥
अप्रमाणत्वपक्षेप तस्य दृष्टांतता क्षतिः । प्रमाणांतरतायां तु संख्या न व्यवतिष्ठते ॥ १९ ॥ ततः सालंबनं सिद्धमनुमानं प्रमात्वतः । प्रत्यक्षवद्विपर्यासो वान्यथा स्याद्दुरात्मनाम् ॥ २० ॥ कथं सालंबनत्वेन व्याप्तं प्रमाणत्वमिति चेत् —
अर्थस्यासंभवे भावात्प्रत्यक्षेपि प्रमाणताम् । तदव्याप्तं प्रमाणत्वमर्थवत्त्वेन मन्यताम् ॥ २१ ॥ प्राप्यार्थापेक्षयेष्टं चेत्तथाध्यक्षेपि तेस्तु तत् । तथा वाध्यक्षमप्यर्थानालंबनमुपस्थितम् ॥ २२ ॥ प्रत्यक्षं यद्यवस्त्वालंबनं स्यात्तदा नार्थं प्रापयेदितिचेत्
अनुमानमवस्त्वेव सामान्यमवलंबते । प्रापयत्यर्थमित्येतत्सचेतानाप्य मोक्षते ॥ २३ ॥ तस्माद्वस्त्वेव सामान्यविशेषात्मकमंजसा । विषयीकुरुतेध्यक्षं यथा तद्वच्च लैंगिकम् ॥ २४ ॥ सर्व हि वस्तु सामान्यविशेषात्मकं सिद्धं तद्व्यवस्थापयत्प्रत्यक्षं यथा तदेव विषयीकुरुते तयानुमानमपि विशेषाभावात् । तथा सति
स्मृत्यादिश्रुतपर्यंतमस्पष्टमपि तत्त्वतः । स्वार्थालंबनमित्यर्थशून्यं तन्निभमेव नः || २५ ॥ यदार्थालंबनं परोक्षं तत्प्रमाणमितरत्प्रमाणाभासमिति प्रमाणस्यानुवर्तनात्सिद्धं ॥
प्रत्यक्षमन्यत् ॥ १२ ॥
दे
ननु च प्रत्यक्षाण्यन्यानीति वक्तव्यमवध्यादीनां त्रयाणां प्रत्यक्षविधानादिति न शंकनीयं । यस्मात् - मि प्रत्यक्षमन्यदित्याह परोक्षादुदितात्परं । अवध्यादित्रयं ज्ञानं प्रमाणं चानुवृत्तिः ॥ १ ॥
उक्तात्परोक्षादवशिष्टमन्यत्प्रत्यक्षमवधिज्ञानं मनः पर्ययज्ञानं केवलज्ञानमिति संबध्यते ज्ञानमित्यनुवर्तनात् । प्रमाणमिति च तस्यानुवृत्तेः । ततो न प्रत्यक्षाण्यन्यानीति वक्तव्यं विशेषानाश्रयात् सामान्याश्रयणादेवेष्टविशेषसिद्धेर्ग्रथगौरवपरिहाराच्च ॥
ज्ञानग्रहणसंबंधात्केवलावधिदर्शने । व्युदस्येते प्रमाणाभिसंबंधादप्रमाणता || २ ॥ सम्यगित्यधिकाराच्च विभंगज्ञानवर्जनं । प्रत्यक्षमिति शब्दाच्च परापेक्षान्निवर्तनम् ॥ ३ ॥ न क्षमात्मानमेवाश्रितं परमिंद्रयमनिंद्रियं वापेक्षते यतः प्रत्यक्षशब्दादेव परापेक्षान्निवृत्तिर्न भवेत् । तेनेंद्रियानिंद्रियानपेक्षमतीतव्यभिचारं साकारग्रहणमित्येतत्सूत्रोपात्तमुक्तं भवति । ततः ।
प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमंजसा । द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥ ४॥ सूत्रकारा इति ज्ञेयमाकलंकावबोधने । प्रधानगुणभावेन लक्षणस्याभिधानतः ॥ ५ ॥ यदा प्रधानभावेन द्रव्यार्थात्मवेदनं प्रत्यक्षलक्षणं तदा स्पष्टमित्यनेन मतिश्रुतमिंद्रियानिंद्रियापेक्षं व्युदस्यते, तस्य साकल्येनास्पष्टत्वात् । यदा तु गुणभावेन तदा प्रादेशिकप्रत्यक्षवर्जनं तदपाक्रियते, व्यवहाराश्रयणात् । साकारमिति वचनान्निराकारदर्शनव्युदासः । अंजसेति विशेषणाद्विभंगज्ञानमिंद्रियानिंद्रियप्रत्यक्षाभासमुत्सारितं । तच्चैवंविधं द्रव्यादिगोचरमेव नान्यदिति विषयविशेषवचनाद्दर्शितं । ततः सूत्रवार्तिकाविरोधः सिद्धो भवति । न चैवं योगिनां प्रत्यक्षमसंगृहीतं यथा परेषां तदुक्तं ॥ लक्षणं सममेतावान् विशेषोऽशेषगोचरं । अक्रमं करणातीतमकलंकं महीयसाम् || ६ ||
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org