________________
१८३
प्रथमोऽध्यायः । संप्रत्ययः साहचर्यादिति चेन्न, मत्यपेक्षया श्रुतादीनामनाद्यताया अपि सद्भावामुख्याद्यतानुपपत्तेस्तदवस्थत्वात् । आद्यशब्दो हि यदाद्यमेव तत्प्रवर्तमानो मुख्यः, यत्पुनराधमनाद्यं च कथंचित्तत्र प्रवर्तमानो गौण इति न्यायात्तस्य गुणभावादाद्यता क्रमार्पणायाम् ॥
बुद्धौ तिर्यगवस्थानान्मुख्यं वाद्यत्वमेतयोः । अवध्यादित्रयापेक्षं कथंचिन्न विरुध्यते ॥२॥ परोक्ष इति वक्तव्यमाद्ये इत्यनेन सामानाधिकरण्यादिति चेत् । अत्रोच्यतेपरोक्षमिति निर्देशो ज्ञानमित्यनुवर्तनात् । ततो मतिश्रुते ज्ञानं परोक्षमिति निर्णयः ॥३॥ द्वयोरेकेन नायुक्ता समानाश्रयता यथा । गोदौ ग्राम इति प्रायः प्रयोगस्योपलक्षणात् ॥४॥ प्रमाणे इति वा द्वित्वे प्रतिज्ञाते प्रमाणयोः । प्रमाणमिति वर्तेत परोक्षमिति संगतौ ॥५॥ किं पुनस्तदनुवर्तनासिद्धमित्याह;ज्ञानानुवर्तनात्तत्र नाज्ञानस्य परोक्षता । प्रमाणस्यानुवृत्तेने परोक्षस्याप्रमाणता ॥६॥ अक्षेभ्यो हि परावृत्तं परोक्षं श्रुतमिष्यते । यथा तथा स्मृतिः संज्ञा चिंता चाभिनिबोधिकम् ७ अवग्रहादिविज्ञानमक्षादात्मा विधानतः । परावृत्ततयानातं प्रत्यक्षमपि देशतः ॥८॥
श्रुतं स्मृत्याद्यवग्रहादि च ज्ञानमेव परोक्षं यस्मादानातं तस्मान्नाज्ञानं शब्दादिपरोक्षमनधिगममात्रं वा प्रतीतिविरोधात् ॥
अस्पष्टं वेदनं केचिदर्थानालंबनं विदुः । मनोराज्यादि विज्ञानं यथैवेत्येव दुर्घटम् ॥ ९॥ स्पष्टस्याप्यवबोधस्य निरालंबनताप्तितः । यथा चंद्रद्वयज्ञानस्येति कार्थस्य निष्ठितः ॥१०॥
परोक्षं ज्ञानमनालंबनमस्पष्टत्वान्मनोराज्यादिज्ञानवत् अतो न प्रमाणमित्येतदपि दुर्घटमेव । प्रत्यक्षमनालंबनं स्पष्टत्वाचंद्रद्वयज्ञानादिति तस्याप्यप्रमाणत्वप्रसंगात् । तथा च क्वेष्टस्य व्यवस्था उपायासत्त्वात् ।।
अनालंबनता व्याप्तिनं स्पष्टत्वस्य ते यथा । अस्पष्टत्वस्य तद्विद्धि लैंगिकस्यार्थवत्त्वतः ॥११॥ तस्यानर्थाश्रयत्वेर्थे स्यात्प्रवर्तकता कुतः । संबंधाचेन्न तस्यापि तथात्वेनुपपत्तितः ॥ १२ ॥ लिंगलिंगिधियोरेवं पारंपर्येण वस्तुनि । प्रतिबंधात्तदाभासशून्ययोरप्यवंचनम् ॥ १३॥ मणिप्रभामणिज्ञाने प्रमाणत्वप्रसंगतः । पारंपोन्मणौ तस्य प्रतिबंधाविशेषतः ॥ १४ ॥
यथैव न स्पष्टत्वस्यानालंबनतया व्याप्तित्वे खसंवेदनेन व्यभिचारात्तथैवास्पष्टत्वस्यानुमानेनानेकांतात् तस्याप्यनालंबनत्वे कुतोर्थे प्रवर्तकत्वं ? संबंधादिति चेन्न, तस्याप्यनुपपत्तेः । यद्धि ज्ञानं यमर्थमालंबते तत्र तस्य कथं संबंधो नामातिप्रसंगात् । तदनेन यदुक्तं “लिंगलिंगिधियोरेवं पारंपर्येण वस्तुनि । प्रतिबंधात्तदाभासशून्ययोरप्यवंचनं” इति तन्निषिद्धं, खविषये परंपरयापीष्टस्य संबंधस्यानुपपत्तेः सत्यपि संबंधे मणिप्रभायां मणिज्ञानस्य प्रमाणत्वप्रसंगाच्च तदविशेषात् ॥
तच्चानुमानमिष्टं चेन्न दृष्टांतः प्रसिद्धति । प्रमाणत्वव्यवस्थानेनुमानस्यार्थलब्धितः ॥ १५ ॥
न हि खयमनुमानं मणिप्रभायां मणिज्ञानमर्थप्राप्तितोनुमानस्य प्रमाणत्वव्यवस्थितौ दृष्टांतो नाम साध्यवैकल्यात्तथा ॥
मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतः । मिथ्याज्ञानविशेषेपि विशेषोर्थक्रियां प्रति ॥ १६ ॥ यथा तथा यथार्थत्वेप्यनुमानं तदोभयोः । नार्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥१७॥ ततो नास्यानुमानतदाभासव्यवस्था ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org