________________
१८२ तत्त्वार्थश्लोकवार्तिके
[सू० ११ विषयत्वमुपमानजननस्य सादृश्यस्येति कुतः प्रत्यक्षगोचरत्वं ? यतस्तत्सादृश्यस्मृत्यादेरुपमानत्वे अनवस्था न स्यात् । तथापत्त्युत्थापकस्यानन्यथा भवनस्य परिच्छेदकस्मृत्यादयो यद्यर्थापत्तिरूपास्तदा तदुत्थापका परानन्यथा भवनप्रमाणरूपत्वपरिच्छेदिरपरैः स्मृत्यादिभिर्भवितव्यमित्यनवस्था तासामनुमानरूपत्ववत्प्रतिपत्तव्याः । कथमभावप्रमाणरूपत्वे स्मृत्यादीनां सदंशे प्रवर्तकत्वं विरुध्यत इति चेत् , अभावप्रमाणस्यासदंशनियतत्वादिति ब्रूमः । न हि तद्वादिभिस्तस्य सदंशविषयत्वमभ्युपगम्यते । सामर्थ्यादभ्युपगम्यत इति चेत् , प्रत्यक्षादेरसदंशविषयत्वं तथाभ्युपगम्यतां विशेषाभावात् । एवं चाभावप्रमाणवैयर्थ्यमसदंशस्यापि प्रत्यक्षादिसमधिगम्यत्वसिद्धेः । साक्षादपरभावपरिच्छेदित्वान्नाभावप्रमाणस्य वैयर्थ्यमिति चेत् , तर्हि स्मृत्यादीनामभावप्रमाणरूपाणां साक्षादभावविषयत्वात्सदंशे प्रवर्तकत्वं कथं न विरुद्धं । ततो नोपमानादिषु स्मृत्यादीनामंतर्भाव इति प्रमाणांतरत्वसिद्धेः सिद्धा खेष्टसंख्याक्षतिः चतुःपंचषट्प्रमाणाभिधायिनाम् ॥ तद्वक्ष्यमाणकान् सूत्रद्वयसामर्थ्यतः स्थितः । द्वित्वसंख्याविशेषोत्राकलंकैरभ्यधायि यः १७८ प्रत्यक्षं विशदं ज्ञानं त्रिधा श्रुतमविष्णुतम् । परोक्षं प्रत्यभिज्ञादी प्रमाणे इति संग्रहः ॥१७९।। त्रिधा प्रत्यक्षमित्येतत्सूत्रव्याहतमीक्ष्यते । प्रत्यक्षातींद्रियत्वस्य नियमादित्यपेशलम् ॥१८०॥ अत्यक्षस्य स्वसंवित्तिः प्रत्यक्षस्याविरोधतः । वैशद्यांशस्य सद्भावात् व्यवहारप्रसिद्धितः॥१८१ प्रत्यक्षमेकमेवोक्तं मुख्यं पूर्णेतरात्मकम् । अक्षमात्मानमाश्रित्य वर्तमानमतींद्रियम् ॥ १८२॥ पराप्तहतयाख्यातं परोक्षं तु मतिश्रुतम् । शब्दार्थश्रयणादेवं न दोषः कश्चिदीक्ष्यते ॥ १८३॥ प्रत्यक्षं विशदं ज्ञानं निधेति ब्रुवाणेनापि मुख्यमतींद्रियं पूर्ण केवलमपूर्णमवधिज्ञानं मनःपर्ययज्ञानं चेति निवेदितमेव, तस्याक्षमात्मानमाश्रित्य वर्तमानत्वात् । व्यवहारतः पुनरिंद्रियप्रत्यक्षमनिंद्रियप्रत्यक्षमिति वैशद्यांशसद्भावात् । ततो न तस्य सूत्रव्याहतिः । श्रुतं प्रत्यभिज्ञादि च परोक्षमित्येतदपि न सूत्रविरुद्धं, आद्ये परोक्षमित्यनेन तस्य परोक्षप्रतिपादनात् । अवग्रहेहावायधारणानां स्मृतेश्च परोक्षत्ववचनात् तद्विरोध इति चेन्न, प्रत्यभिज्ञादीत्यत्र वृत्तिद्वयेन सर्वसंग्रहात् । कथं प्रत्यभिज्ञाया आदिः पूर्व प्रत्यभिज्ञादीति स्मृतिपर्यंतस्य ज्ञानस्य संग्रहात् प्राधान्येनावग्रहादेरपि परोक्षत्ववचनात् प्रत्यभिज्ञा आदिर्यस्येति वृत्त्या पुनरभिनिबोधपर्यंतसंगृहीतेन काचित्परोक्षव्यक्तिरसंग्रहीता स्यात् । तत एव प्रत्यभिज्ञादीति युक्तं व्यवहारतो मुख्यतः खेष्टस्य परोक्षव्यक्तिसमूहस्य प्रत्यायनात् अन्यथा स्मरणादि परोक्षं तु प्रमाणे इति संग्रह इत्येवं स्पष्टमभिधानं स्यात् । ततः शब्दार्थाश्रयणान्न कश्चिद्दोषोत्रोपलभ्यते ॥
आये परोक्षम् ॥ ११॥ __ अक्षादात्मनः परावृत्तं परोक्षं ततः परैरिंद्रियादिभिरूक्ष्यते सिंच्यतेभिवर्ध्यत इति परोक्षं । किं पुनस्तत् , आद्ये ज्ञाने मतिश्रुते ॥
कुतस्तयोराद्यता प्रत्येयेत्युच्यते,आये परोक्षमित्याह सूत्रपाठक्रमादिह । ज्ञेयाद्यता मतिर्मुख्या श्रुतस्य गुणभावतः ॥१॥
यस्मादाये परोक्षमित्याह सूत्रकारस्तस्मान्मत्यादिसूत्रपाठक्रमादिहाद्यता ज्ञेया । सा च मतेर्मुख्या कथमप्यनाद्यतायास्तत्राभावात् श्रुतस्याद्यता गुणाभावात् निरुपचरिताद्यसामीप्यादाद्यत्वोपचारात् । अवध्याद्यपेक्षयास्तु तस्य मुख्याद्यतेति चेत् न, मनःपर्ययाद्यपेक्षयावधेरप्याद्यत्वसिद्धेर्मत्यवध्योर्ग्रहणप्रसंगात् द्वित्वनिर्देशस्याप्येवमविरोधात् । केवलापेक्षया सर्वेषामाद्यत्वेपि मत्यादीनां मतिश्रुतयोरिह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.