________________
0
प्रथमोऽध्यायः ।
तदस्तीति कुतोऽवगम्यत इति चेत् ;
एतच्चास्ति सुनिर्णीतासंभवद्बाधकत्वतः । स्वसंवित्तिवदित्युक्त व्यासतोन्यत्र गम्यताम् ॥ ७ ॥ धर्म्यत्रासिद्ध इति चेन्नोभयसिद्धस्य प्रत्यक्षस्य धर्मित्वात् । तद्धि केषांचिदशेषगोचरं क्रमं करणातीतमिति साध्यतेऽकलंकत्वान्यथानुपपत्तेः । न चाकलंकत्वमसिद्धं तस्य पूर्वं साधनात् । प्रतिनियतगोचरत्वं विज्ञानस्य प्रतिनियतावरण विगमनिबंधनं भानुप्रकाशवत् निःशेषावरणपरिक्षयात् निःशेषगोचरं सिद्ध्यत्येव । ततः एवाक्रमं तत्क्रमस्य कलंकविगमक्रमकृतत्वात् । युगपत्तद्विगमे कुतो ज्ञानस्य क्रमः स्यात् । करणक्रमादिति चेन्न, तस्य करणातीतत्वात् । देशतो हि ज्ञानमविशदं चाक्षमनोपेक्षं सिद्धं न पुनः सकलविषयं परिस्फुटं सकृदुपजायमानमिति । न चैवंविधं ज्ञानं प्रत्यक्षं संभवद्बाधकं, प्रत्यक्षादेरतद्विषयस्य तद्बाधकत्वविरोधात् । तत एव न संदिग्धासंभवद्वाधकं निश्चितासंभवद्बाधकत्वात् । न हि तादृशं प्रत्यक्षं किंचित्संभवद्बाधकमपरमसंभवद्बाधकं सिद्धं येनेदं संप्रति संदेहविषयतामनुभवेत् । कथं वात्यंतमसंदिग्धासंभवद्बाधकं नाम : नियतदेशकालपुरुषापेक्षया निश्चितासंभवद्बाधकत्वेपि देशांतराद्यपेक्षया संदिग्धासंभवद्बाधकत्वमिति चेन्न सुष्ठु तथाभावस्य सिद्धेः । यथाभूतं हि प्रत्यक्षादि प्रमाणमत्रत्येदानींतनपुरुषाणामुत्पद्यमानबाधकं केवलस्य तथाभूतमेवान्यदेशकालपुरुषाणामपीति कुतस्तद्वाघनं संदेहः । यदि पुनरन्यादृशं प्रत्यक्षमन्यद्वा तद्वाधकमभ्युपगम्यते तदा केवले को मत्सरः, केवलेनैव केवलबाधनसंभवात् । ततः प्रसिद्धात्सु निर्णीतासंभवद्बाधकत्वात्स्वसंवेदनवन्महीयसां प्रत्यक्षमकलंकमस्तीति प्रतीयते प्रपंचतोऽन्यत्र तत्समर्थनात् ॥
२४
"
प्रत्यक्षं कल्पनापोढमभ्रांतमिति केचन । तेषामस्पष्टरूपा स्यात् प्रतीतिः कल्पनाथवा ॥ ८ ॥ स्वार्थव्यवसितिर्नान्या गतिरस्ति विचारतः । अभिलापवती वित्तिस्तद्योग्या वापि सा यतः ९ अस्पष्टा प्रतीतिः कल्पना, निश्चितिर्वा कल्पना इति परिस्फुटं कल्पना लक्षणमनुक्त्वा अभिलापवती प्रतीतिः कल्पनेत्यादि तल्लक्षणमाचक्षाणो न प्रेक्षावान् ग्रंथगौरवापरिहारात् । न हि काचित्कल्पना स्पष्टास्ति विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासता इति वचनात् । खमवती प्रतीतिरस्तीति चेन्न, तस्याः सौगतैरिंद्रियजत्वेनाभ्युपगमात् खप्नातिकेंद्रियव्यापारान्वयव्यतिरेकानुविधानात् मानसत्वे तस्या तदनुपपत्तेः । मरीचिकासु तोयप्रतीतिः स्पष्टेति चेन्न, तस्याः स्वयमस्पष्टत्वेपि मरीचिकादर्शनस्पष्टत्वाध्यारोपात्तथावभासनात् । ततो नाव्यापीदं लक्षणं । नाप्यतिव्यापि क्वचिदकल्पनायाः स्पष्टत्वाभावात् । दूरात्पादपादिदर्शने कल्पनारहितेप्यस्पष्टत्वप्रतीतेरतिव्यापीदं लक्षणमिति चेन्न, तस्य विकल्पास्पष्टत्वेनैकत्वारोपादस्पष्टतोपलब्धेः । खयमस्पष्टत्वे निर्विकल्पकत्वविरोधात् । ततो निरवद्यमिदं कल्पनालक्षणं । एतेन निश्चयः कल्पनेत्यपि निरवद्यं विचारितं, लक्षणांतरेणाप्येवंविधायाः प्रतीतेः कल्पनात्वविधानागत्यंतराभावात् ॥
Jain Education International
१८५
तत्राद्यकल्पनापोढे प्रत्यक्षे सिद्धसाधनम् । स्पष्टे तस्मिन्नवैशद्यव्यवच्छेदस्य साधनात् ॥ १० ॥ अस्पष्टप्रतिभासायाः प्रतीतेरनपोहने । प्रत्यक्षस्यानुमानादेर्भेदः केनावबुध्यते ॥ ११ ॥ स्वार्थव्यवसितिस्तु स्यात्कल्पना यदि संमता । तदा लक्षणमेतत्स्यादसंभाव्येव सर्वथा ॥ १२ ॥ दविष्टपादपादिदर्शनस्यास्पष्टस्यापि प्रत्यक्षतोपगमात्कथं अस्पष्टप्रतीति लक्षणया कल्पनयापोढुं प्रत्यक्षमिति वचने सिद्धसाधनमिति कश्चित् । श्रुतमेतन्न प्रत्यक्षं श्रुतमस्पष्टतर्कणं इति वचनात् ततो न दोष इत्यपरः । पादपादिसंस्थानमात्रे दवीयस्यापि स्पष्टत्वावस्थितेः । श्रुतत्वाभावादक्षव्यापारान्वयव्यतिरेकानु
For Private & Personal Use Only
www.jainelibrary.org