________________
१८६
तत्त्वार्थश्लोकवार्तिके
[सू० १२ विधानाच प्रत्यक्षमेव तत् तथाविधकल्पनापोढुं चेति सिद्धसाधनमेव । न हि सर्वमस्पष्टतर्कणं श्रुतमिति युक्तं स्मृत्यादेः श्रुतत्वप्रसंगात् व्यंजनावग्रहस्य वा । न हि तस्य स्पष्टत्वमस्ति परोक्षत्ववचनविरोधात् अव्यक्तशब्दादिजातग्रहणं व्यंजनावग्रह इति वचनाच मतिपूर्वमस्पष्टतर्कणं श्रुतमित्युपगमे तु सिद्धं स्मृत्यादिमतिज्ञानं व्यंजनावग्रहादि वा श्रुतं दविष्टपादपादिदर्शनं च प्रादेशिकं प्रत्यक्षमिति न किंचिद्विरुध्यते । यदि पुनर्नास्पष्टा प्रतीतिः कल्पना यतस्तदपोहने प्रत्यक्षस्य सिद्धसाधनं । किं तर्हि ? खार्थव्यवसितिः सर्वकल्पनेति मतं तदा प्रत्यक्षलक्षणमसंभाव्यं च तादृशकल्पनापोढस्य कदाचिदसंभवात् व्यवसायात्मकमानसप्रत्यक्षोपगमविरोधश्च । केषांचित्संहृतसकलविकल्पावस्थायां सर्वथा व्यवसायशून्यं प्रत्यक्षं प्रत्यात्मवेद्यं संभवतीति नासंभवि लक्षणमितिचेत् न, असिद्धत्वात् । यस्मात्
संहृत्य सर्वतश्चित्तं स्तिमितेनांतरात्मना । स्थितोपि चक्षुषा रूपं स्वं च स्पष्टं व्यवस्यति ॥१३॥ ततो न प्रत्यक्षं कल्पनापोडं प्रत्यक्षत एव सिद्ध्यति, नाप्यनुमानात् । तथाहि
पुनर्विकल्पयन् किंचिदासीन्मे स्वार्थनिश्चयः । ईदृगित्येव बुध्येत प्रागिद्रियगतावपि ॥१४॥ ततोन्यथास्मृतिर्न स्यात्क्षणिकत्वादिवत् पुनः । अभ्यासादिविशेषस्तु नान्यः स्वार्थविनिश्चयात् १५
अश्वं विकल्पयतः प्राग्न चेंद्रियगतावपीदृशः खार्थनिश्चयो ममासीदिति पश्चात् स्मरणात्तस्याः खार्थव्यवसायात्मकत्वस्य मानान्न निर्विकल्पकत्वानुमानं नाम । न हींद्रियगतेरध्यवसायात्मकत्वे स्मरणं युक्तं क्षणिकत्वादिदर्शनवत् अभ्यासादेर्गोदर्शनस्मृतिरितिचेन्न, तस्य व्यवसायादन्यस्य विचारासहत्वात् ॥
तदकल्पकमर्थस्य सामर्थ्येन समुद्भवात् । अर्थक्षणवदित्येके न विरुद्धस्यैव साधनम् ॥ १६ ॥ जात्याद्यात्मकभावस्य सामर्थेन समुद्भवात् । सविकल्पकमेव स्यात् प्रत्यक्षं स्फुटमंजसा ॥१७
परमार्थेन विशदं सविकल्पकं प्रत्यक्षं न पुनरविकल्पकं वैशद्यारोपात् । ननु कथं तज्जात्याद्यात्मकादर्थादुपजायेताविकल्पान्न हि वस्तु सत्सु जातिद्रव्यगुणकर्मसु शब्दाः संति तदात्मानो वा येन तेषु प्रतिभासमानेषु प्रतिभासेरन् । न च तत्र शब्दाप्रतीतौ कल्पना युक्ता तस्याः शब्दाप्रतीतिलक्षणत्वादशब्दकल्पनानामसंभवात् । ततो न विरुद्धो हेतुरिति चेत् । अत्रोच्यतेयथावभासतो कल्पात् प्रत्यक्षात्प्रभवन्नपि । तत्पृष्ठतो विकल्पः स्यात् तथाथोक्षाच स स्फुटः॥१८
दर्शनादविकल्पाद्विकल्पः प्रजायते न पुनरर्थादिति कुतो विशेषः । न चाभिलापवत्येव प्रतीतिः कल्पना जात्यादिमत्प्रतीतेरपि तथात्वाविरोधात् । संति चार्थेषु जात्यादयोपि तेषु प्रतिभासमानेषु प्रतिभासेरन् । ततो जात्याद्यात्मकार्थदर्शनं सविकल्पं प्रत्यक्षसिद्धमिति विरुद्धमेव साधनम् ॥
न च जात्यादिरूपत्वमर्थस्यासिद्धमंजसा । निर्वाधबोधविध्वस्तसमस्तारेकि तत्त्वतः ॥ १९॥ जात्यादिरूपत्वे हि भावानां निर्बाधो बोधः समस्तमारेकितं हंतीति किं नश्चिंतया । निर्बाधत्वं पुनर्जात्यादिबोधस्यान्यत्र समर्थितं प्रतिपत्तव्यं ततो जात्याद्यात्मकस्वार्थव्यवसितिः कल्पना स्पष्टा प्रत्यक्षे व्यवतिष्ठते ॥
संकेतस्मरणोपाया दृष्टसंकल्पनात्मिका । नैषा व्यवसितिः स्पष्टा ततो युक्ताक्षजन्मनि ॥२०॥ यदेव हि संकेतस्मरणोपायं दृष्टसंकल्पनात्मकं कल्पनं तदेव पूर्वापरपरामर्शशून्ये चाक्षुषे स्पर्शनादिके वा दर्शने विरुध्यते । न चेयं विशदावभासार्थव्यवसितिस्तथा, ततो युक्ता सा प्रत्यक्षे कुतः पुनरियं न संकेतस्मरणोपायेत्युच्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org