________________
प्रथमोऽध्यायः !
१८७
स्वतो हि व्यवसायात्मप्रत्यक्षं सकलं मतम् । अभिधानाद्यपेक्षायामन्योन्याश्रयणात्तयोः ॥ २१ ॥ सति ह्यभिधानस्मरणादौ क्वचिद्व्यवसाय: सति च व्यवसाये ह्यभिधानस्मरणादीति कथमन्योन्याश्रयणं न स्यात् । स्वाभिधानविशेषापेक्षा एवार्थनिश्चयैर्व्यवसीयते इति ब्रुवन्नार्थमध्यवस्यस्तदभिधानविशेषस्य स्मरति अननुस्मरन्न योजयति अयोजयन्न व्यवस्यतीत्यकल्पकं जगदर्थयेत् । खवचनविरुद्धं चेदं । 'किं च
स्वाभिधानविशेषस्य निश्चयो यद्यपेक्षते । स्वाभिलाषांतरं नूनमनवस्था तदा न किम् ॥ २२ ॥ गत्वा सुदूरमप्येवमभिधानस्य निश्चये । स्वाभिलापानपेक्षस्य किमु नार्थस्य निश्चयः ॥ २३ ॥ अभिधानविशेषश्चेत् स्वस्मिन्नर्थे च निश्रयम् । कुर्वन् दृष्टः स्वशक्त्यैव लिंगाद्यर्थेपि तादृशः ॥ २४ ॥ शाब्दस्य निश्चयोर्थस्य शब्दापेक्षोस्त्वबाधितः । लिंगजन्माक्षजन्मा च तदपेक्षोभिधीयते ॥ २५ ॥ ततः प्रत्यक्षमास्थेयं मुख्यं वा देशतोपि वा । स्यान्निर्विकल्पकं सिद्धं युक्त्या स्यात्सविकल्पकं२६ सर्वथा निर्विकल्पत्वे स्वार्थव्यवसितिः कुतः । सर्वथा सविकल्पत्वे तस्य स्याच्छब्दकल्पना २७ न केवलं जैनस्य कथंचित्सविकल्पकं प्रत्यक्षं । किं तर्हि सौगतस्यापीत्याह ;सवितर्कविचारा हि पंच विज्ञानधातवः । निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।। २८ ।। इत्येवं स्वयमिष्टत्वान्नैकांतेनाविकल्पकं । प्रत्यक्षं युक्तमास्थातुं परस्यापि विरोधतः ॥ २९ ॥ विधूतकल्पनाजालं योगिप्रत्यक्षमेव चेत् । सर्वथा लक्षणाव्याप्तिदोषः केनास्य वार्यते ॥ ३० ॥ लौकिकी कल्पनापोढा यतोध्यक्षं तदेव चेत् । शास्त्रीया सास्ति तत्रेति नैकांतेनाविकल्पकम् ३१ तदपाये च बुद्धस्य न स्याद्धर्मोपदेशना । कुट्यादेर्या न सा तस्येत्येतत्पूर्वं विनिश्चितं ॥ ३२ ॥ ततः स्यात्कल्पनाखभावशून्यमभ्रांतं प्रत्यक्षमिति न व्याहतं । ये त्वाहुनेंद्रियानिंद्रियानपेक्षं प्रत्यक्षं तस्य तदपेक्षामंतरेणासंभवादिति तान् प्रत्याह; —
नैत
येपि चात्ममनोक्षार्थसन्निकर्षोद्भवं विदुः । प्रत्यक्षं नेश्वराध्यक्षं संग्रहस्तैः कृतो भवेत् ॥ ३३ ॥ नेश्वरस्याक्षजज्ञानं सर्वार्थविषयत्वतः । नाक्षैः सर्वार्थसंबंध ः सहैकस्यास्ति सर्वथा ॥ ३४ ॥ योगजाज्ञायते यत्तु ज्ञानं धर्मविशेषतः । न संनिकर्षजं तस्मादिति न व्यापि लक्षणं ॥ ३५ ॥ ननु च योगजाद्धर्मविशेषात् सर्वार्थैरक्षसन्निकर्षस्ततः सर्वार्थज्ञानमित्यक्षार्थसन्निकर्षजमेव तत् । त्सारं । तत्राक्षार्थसन्निकर्षस्य वैयर्थ्यात् । योगजो हि धर्मविशेषः सर्वार्थाक्षसन्निकर्षमुपजनयति न पुनः साक्षात्सर्वार्थज्ञानमिति खरुचिप्रदर्शनमात्रं, विशेषहेत्वभावादित्युक्तप्रत्ययम् ॥
सौत्रादिवृत्तिरध्यक्षमित्यप्येतेन चिंतितं । तस्या विचार्यमाणाया विरोधश्च प्रमाणतः ॥ ३६ ॥ इंद्रियाण्यर्थमालोचयंति तदालोचितं मनः संकल्पयति तत्संकल्पितमहं कारोभिमन्यते तदभिमतं बुद्धिरध्यवसति तदध्यवसितं पुरुषश्चेतयत इति श्रोत्रादिवृत्तिर्हि न सकृत्सर्वार्थविषया यतस्तत्प्रत्यक्षत्वे योगिप्रत्यक्षसंग्रहः स्यात् । न च प्रमाणतो विचार्यमाणा श्रोत्रादिवृत्तिः सांख्यानां युज्यते । सा हि न तावत्पुरुषपरिणामोनभ्युपगमात् नापि प्रधानस्यानंशस्यामूर्तस्य नित्यस्य सा कादाचित्कत्वात् । न ह्यकादाचित्कस्यानपेक्षस्य कादाचित्कः परिणामो युक्तः सापेक्षस्य तु कुतः कौटस्थ्यं नामापेक्षणार्थकृतातिशयस्यावश्यं भावान्निरतिशयत्वविरोधात् कौटस्थ्यानुपपत्तेः ॥
पुंसः सत्संप्रयोगे यदिंद्रियाणां प्रजायते । तदेव वेदनं युक्तं प्रत्यक्षमिति केचन ॥ ३७ ॥ ते न समर्था निराकर्तुं प्रत्यक्षमतींद्रियं प्रत्यक्षतोनुमानादेर्वा सर्वज्ञत्वप्रसंगतः । न सर्वज्ञः सर्वार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org