________________
१८८ तत्त्वार्थश्लोकवार्तिके
[सू० १३ साक्षात्कारिज्ञानं नास्तीति कुतश्चित्प्रमाणान्निश्चेतुं समर्थ इति प्रतिपादितप्राय । न च तदभावान्निश्चये करणजमेव प्रत्ययमिति नियमः सिद्ध्येत् ॥ तत्वार्थव्यवसायात्मविधा प्रत्यक्षमंजसा । ज्ञानं विशदमन्यत्तु परोक्षमिति संग्रहः ॥ ३८ ॥
मतिः स्मृतिः संज्ञा चिंताभिनिबोध इत्यनांतरम् ॥ १३ ॥ किमर्थमिदमुच्यते । मतिभेदानां मतिग्रहणेन ग्रहणादन्यथातिप्रसंगात् ॥ मत्यादिष्ववबोधेषु स्मृत्यादीनामसंग्रहः । इत्याशंक्याह मत्यादिसूत्रं मत्यात्मनां विदे ॥१॥ मतिरेव स्मृतिः संज्ञा चिंता वाभिनिबोधकम् । नार्थीतरं मतिज्ञानावृतिच्छेदप्रसूतितः॥२॥ यथैव वीर्यातरायमतिज्ञानावरणक्षयोपशमान्मतिरवग्रहादिरूपा सूते तथा स्मृत्यादिरपि ततो मत्यात्मकत्वमस्य वेदितव्यम् ॥
इति शब्दात् किं गृह्यते इत्याह;इति शब्दात्प्रकारार्थाद्वद्धिर्मेधा च गृह्यते । प्रज्ञा च प्रतिभाभावः संभवोपमिती तथा ॥३॥ ननु च कथं मत्यादीनामनांतरत्वं व्यपदेशलक्षणविषयप्रतिभासभेदादिति चेत्कथंचिद्यपदेशादिभेदेप्येतदभिन्नता । न विरोधमधिष्ठातुमीष्टे प्रातीतिकत्वतः ॥ ४॥ न हि व्यपदेशादिभेदेपि प्रत्यक्षव्यक्तीनां प्रमाणांतरत्वं परेषां, नाप्यनुमानादिव्यक्तीनामनुमानादिता खेष्टप्रमाणसंख्या नियमव्याघातात् प्रत्यक्षतानुमानादित्वेन वा । व्यपदेशादिभेदाभावान्न दोष इति चेत् मतिज्ञानत्वेन सामान्यतस्तदभावादविरोधोस्तु । प्रातीतिकी ह्येतेषामभिन्नता कथंचिदिति न प्रतिक्षेपमर्हति । कः कस्य प्रकारः स्यादित्युच्यते;
बुद्धिमतेः प्रकारः स्यादर्थग्रहणशक्तिका । मेधा स्मृतेः तथा शब्दस्मृतिशक्तिर्मनखिनाम्॥५॥ ऊहापोहात्मिका प्रज्ञा चिंतायाः प्रतिभोपमा । सादृश्योपाधिके भावे सादृश्ये तद्विशेषणे॥६॥ प्रवर्तमाना केषांचिद् दृष्टा सादृश्यसंविदः । संज्ञायाः संभवाद्यस्तु लैंगिकस्य तथागतेः॥७॥
मतिसामान्यात्मिकापि बुद्धिरिंद्रियानिद्रियनिमित्ता सन्निकृष्टार्थग्रहणशक्तिकावग्रहादिमतिविशेषस्य प्रकारः । यथोक्तशब्दस्मरणशक्तिका तु मेधा स्मृतेः । सा हि केषांचिदेव मनखिनां जायमाना विशिष्टा च स्मरणसामान्यात् । ऊहापोहात्मिका प्रज्ञा चिंतायाः प्रकारः प्रतिभोपमा च सादृश्योपाधिके वस्तुनि केषांचिद्वस्तूपाधिके वा सादृश्ये प्रवर्तमाना संज्ञायाः सादृश्यप्रत्यभिज्ञानरूपायाः प्रकारः, संभवार्थापत्त्यभावोपमास्तु लैंगिकस्य प्रकारस्तथा प्रतीतेः ।।
प्रत्येकमितिशब्दस्य ततः संगतिरिष्यते । समाप्तौ चेति शब्दोयं सूत्रेस्मिन्न विरुध्यते ॥८॥
मतिरिति स्मृतिरिति संज्ञेति चिंतेत्यभिनिबोध इति प्रकारो न तदर्थातरमेव मतिज्ञानमेकमिति ज्ञेयं । मत्यादिभेदं मतिज्ञानं मतिपरिसमाप्तं तद्भेदानामन्येषामत्रैवांतर्भावादिति व्याख्येयं गत्यंतरासंभवात् तथा विरोधाभावाच्च । स्मृतिरप्रमाणमेव सा कथं प्रमाणेतर्भवतीति चेन्न, तदप्रमाणत्वे सर्वशून्यतापत्तेः । तथाहिस्मृतेः प्रमाणतापाये संज्ञाया न प्रमाणता । तदप्रमाणतायां तु चिंता न व्यवतिष्ठते ॥९॥ तदप्रतिष्ठितौ कात्र मानं नाम प्रवर्तते । तदप्रवर्तनेध्यक्षप्रामाण्यं नावतिष्ठते ॥१०॥ ततः प्रमाणशून्यत्वात्प्रमेयस्यापि शून्यता। सापि मानाद्विना नेति किमप्यस्तीति साकुलम् ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org