________________
प्रथमोऽध्यायः।
१८९ तस्मात्प्रवर्तकत्वेन प्रमाणत्वेत्र कस्यचित् । स्मृत्यादीनां प्रमाणत्वं युक्तमुक्तं च कैश्चन ॥१२॥ अक्षज्ञानैरनुस्मृत्य प्रत्यभिज्ञाय चिंतयेत् । आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ॥१३॥
अक्षज्ञानैर्विनिश्चित्य प्रवर्तत इति यथा प्रत्यक्षस्य प्रवर्तकत्वमुक्तं तथा स्मृत्वा प्रवर्तत इति स्मृतेरपि प्रत्यभिज्ञाय प्रवर्तत इति संज्ञाया अपि चिंतयत् तत् प्रवर्तत इति तर्कस्यापि आभिमुख्येन तद्भेदान् •विनिश्चित्य प्रवर्तत इत्यभिनिबोधस्यापि ततस्ततः प्रतिपत्तुः प्रवृत्तेर्यथाभासमाकांक्षानिवृत्तिघटनात् । तत्र प्रत्यक्षमेव प्रवर्तकं प्रमाणं न पुनः स्मृतिरिति मतमुपालभते;. अक्षज्ञानैर्विनिश्चित्य सर्व एव प्रवर्तते । इति ब्रुवन् स्खचित्तादौ प्रवर्तत इति स्मृतेः ॥ १४ ॥ कथम्गृहीतग्रहणात्तत्र न स्मृतेश्चेत्प्रमाणता । धारावाह्यक्षविज्ञानस्यैवं लभ्येत केन सा ॥ १५॥ विशिष्टस्योपयोगस्याभावे सापि न चेन्मता । तदभावे स्मरणेप्यक्षज्ञानवन्मानतास्तु नः॥१६॥ स्मृत्या स्वार्थ परिच्छिद्य प्रवृत्तौ न च बाध्यते । येन प्रेक्षावतां तस्याः प्रवृत्तिर्विनिवार्यते १७ स्मृतिमूलाभिलाषादेर्व्यवहारः प्रवर्तकः । न प्रमाणं यथा तद्वदक्षधीमूलिका स्मृतिः ॥१८॥ इत्याचक्षणिको नामानुमामस्त पृथकामा । प्रत्यक्षं तद्धि तन्मूलमिति चार्वाकतागतिः ॥१९॥ योपि प्रत्यक्षमनुमानं च प्रवर्तकं प्रमाणमिति मन्यमानः स्मृतिमूलस्याभिलाषादेरिव व्यवहारप्रवृत्तेहेंतोः प्रत्यक्षमूलस्सरणस्यापि प्रमाणतां प्रत्याक्षीत सोनुमानमपि प्रत्यक्षात्पृथक्प्रमाणं मामस्त तस्य प्रत्यक्षमूलत्वात् । न ह्यप्रत्यक्षपूर्वकमनुमानमस्ति । अनुमानांतरपूर्वकमस्तीति चेन्न, तस्यापि प्रत्यक्षपूर्वकत्वात् । सुदूरमपि गत्वा तस्याप्रत्यक्षपूर्वकत्वेनवस्थाप्रसंगात् । तत्पूर्वत्वे सिद्धे प्रत्यक्षपूर्वकमनुमानमिति न प्रमाणं स्यात् । ततश्च बाधकत्वप्राप्तिरस्य ।।
स्वार्थप्रकाशकत्वेन प्रमाणमनुमा यदि । स्मृतिरस्तु तथा नाभिलाषादिस्तदभावतः ॥ २०॥
खार्थप्रकाशकत्वं प्रवर्तकत्वं न तु प्रत्यक्षार्थप्रदर्शकत्वं नाप्यर्थाभिमुखगतिहेतुत्वं तच्चानुमानस्यास्तीति प्रमाणत्वे स्मरणस्य तदस्तु तत एव नाभिलाषादेस्तदभावात् । न हि यथा स्मरणं खार्थस्मर्तव्यस्यैव प्रकाशकं तथाभिलाषादिस्तस्य मोहोदयफलत्वात् ॥
समारोपव्यवच्छेदस्समः स्मृत्यनुमानतः । स्वार्थे प्रमाणता तेन नैकत्रापि निवार्यते ॥२१॥
यथा चानुमायाः क्वचित्प्रवृत्तस्य समारोपस्य व्यवच्छेदस्तथा स्मृतेरपीति युक्तमुभयोः प्रमाणत्वमन्यथाप्रमाणत्वापत्तेः । स्मृतिरनुमानत्वेन प्रमाणमिष्टमेव नान्यथेति चेत् ॥
स्मृतिर्न लैंगिकं लिंगज्ञानाभावेपि भावतः । संबंधस्मृतिवन्न स्यादनवस्थानमन्यथा ॥ २२॥ परापरानुमानानां कल्पनस्य प्रसंगतः। विवक्षितानुमानस्याप्यनुमानांतराजनौ ॥ २३ ॥
संबंधस्मृतेर्खनुमानत्वे स्मर्तव्यार्थेन लिंगेन भाव्यं तस्य तेन संबंधस्त्वभ्युपगंतव्यस्तस्य च स्मरणं परं तस्याप्यनुमानत्वे तथेति परापरानुमानानां कल्पनादनवस्था । न ह्यनुमानांतरादनुमानस्य जनने कचिदवस्था नाम सा संबंधस्मृतिरप्रमाणमेवेति चेत् ॥
नाप्रमाणात्मनो स्मृत्या संबंधः सिद्धमृच्छति । प्रमाणानर्थकत्वस्य प्रसंगात्सर्ववस्तुनि ॥२४॥
न ह्यप्रमाणात् प्रमेयस्य सिद्धौ प्रमाणमर्थवन्नाम । न चाप्रमाणात् किंचित्सिद्ध्यति किंचिन्नेत्यर्धजरतीन्यायः श्रेयान् सर्वत्र तद्विशेषाभावात् ॥
स्मृतिस्तदितिविज्ञानमातीते भवेत्कथम् । स्यादर्थवदिति खेष्टं याति बौद्धस्य लक्ष्यते ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org