________________
तत्त्वार्थश्लोकवार्तिके
[सू० १३
प्रत्यक्षमर्थवन्न स्यादतीतेर्थे समुद्भवत् । तस्य स्मृतिवदेवं हि तद्वदेव च लैंगिकम् ॥ २६ ॥ नार्थाज्जन्मोपपद्येत प्रत्यक्षस्य स्मृतेरिव । तद्वत्स एव तद्भावादन्यथा न क्षणक्षयः ॥ २७ ॥ अर्थाकारत्वतध्यक्षं यदर्थस्य प्रबोधकं । तत एव स्मृतिः किं न स्वार्थस्य प्रतिबोधका ।। २८ ।। अस्पष्टत्वेन चेन्नानुमानेप्येवं प्रसंगतः । प्राप्यार्थेनार्थवत्ता चेदनुमानायाः स्मृतेर्न किम् २९ ततो न सौगतोऽनुमानस्य प्रमाणतामुपयंस्तामपाकर्तुमीशः सर्वथा विशेषाभावात् ॥
१९०
मनसा जन्यमानत्वात्संस्कारसहकारिणा । सर्वत्रार्थानपेक्षेण स्मृतिर्नार्थवती यदि ॥ ३० ॥ तदा संस्कार एव स्यात्प्रवृत्तिस्तन्निबंधना । तत्रासंभवतोर्थे व्यक्तमीश्वरचेष्टितम् ॥ ३१ ॥ अनर्थविषयत्वेपि स्मृतेः प्रवर्तमानार्थे प्रवर्तते संस्कारे प्रवृत्तेरसंभवादिति स्फुटं राजचेष्टितं यथेष्टं प्रवर्तमानात् ॥
प्रत्यक्षं मानसं ज्ञानं स्मृतेर्यस्याः प्रजायते । सा हि प्रमाणसामग्रीवर्तिनी स्यात् प्रवर्तिका ॥ ३२ प्रमाणत्वाद्यथा लिंगिलिंगसंबंध संस्मृतिः । लिंगिज्ञानफलेत्याह सामग्रीमानवादिनः ॥ ३३ ॥ तदप्यसंगतं लिंगिज्ञानस्यैव प्रसंगतः । प्रत्यक्षत्वक्षतेर्लिंगतत्फलायाः स्मृतेरिव ॥ ३४ ॥ यस्याः स्मृतेः प्रत्यक्षं मानसं जायते सा तदेव प्रमाणं तत्सामग्र्यंतर्भूतत्वतः प्रवर्तिका स्वार्थे यथानुमानफला संबंधस्मृतिरनुमानमेवेति । वचनसंबंधं प्रमाणमनुमानसामग्र्यंतर्भूतमपीति चेत् —
प्रत्यक्षवत्स्मृतेः साक्षात्फले स्वार्थविनिश्चये । किं साधकतमत्वेन प्रामाण्यं नोपगम्यते ||३५|| पारंपर्येण हानादिज्ञानं च फलमीक्ष्यते । तस्यास्तदनुस्मृत्यंतर्याथार्थ्य वृत्तितोर्थिनः ॥ ३६ ॥ ततो न योगोपि स्मृतेरप्रमाणत्वं समर्थयितुमीशः प्रत्यक्षादिप्रमाणत्वं वा, यथोक्तदोषानुषंगात् ॥ प्रत्यभिज्ञाय च स्वार्थ वर्तमानो यतोर्थभाक् । मतं तत्प्रत्यभिज्ञानं प्रमाणं परमन्यथा ॥ ३७ ॥ तद्विधैकत्वसादृश्यगोचरत्वेन निश्चितं । संकीर्णव्यतिकीर्णत्वव्यतिरेकेण तत्त्वतः ॥ ३८ ॥ तेन तु न पुनर्जातमदनांकुरगोचरं । सादृश्यप्रत्यभिज्ञानं प्रमाणं नैकतात्मनि ॥ ३९ ॥ एकत्वगोचरं न स्यादेकत्वे मानमंजसा । न सादृश्ये यथा तस्मिंस्तादृशेयमिति ग्रहः ॥ ४० ॥ न ह्येवं सादृश्यैकत्वप्रत्यभिज्ञानयोः संकरव्यतिकरव्यतिरेको लौकिकपरीक्षकयोरसिद्धोऽन्यत्र विभ्रमात् । ततो युक्तं खविषये नियमेन प्रवर्तकयोः प्रमाणत्वं प्रत्यक्षादिवत् ॥
तदित्यतीतविज्ञानं दृश्यमानेन नैकतां । वेत्ति नेदमिति ज्ञानमतीतेनेति केचन ॥ ४१ ॥ तत्सिद्धसाधनं ज्ञानद्वितयं ह्येतदिष्यते । मानदृष्टेर्थपर्याये दृश्यमाने च भेदतः ॥ ४२ ॥ द्रव्येण तद्बलोद्भूतज्ञानमेकत्वसाधनम् । दृष्टेक्ष्यमाणपर्यायव्यापिन्यन्यत्ततो मतम् ॥ ४३ ॥ न हि सांप्रतिकातीतपर्याययोर्दर्शनस्मरणे एव तत्प्रत्यभिज्ञानं यतो दोषावकाशः स्यात् । किं तर्हि ? तद्व्यापिन्येकत्र द्रव्ये संकलनज्ञानं । नन्वेवं तदनादिपर्यायव्यापि द्रव्यविषयं प्रसज्येत नियामकाभावादिति चेन्न, नियामकस्य सद्भावात् ॥
क्षयोपशमतस्तच्च नियतं स्यात्कुतश्चन । अनादिपर्ययव्यापि द्रव्यसंवित्तितोस्ति नः ॥ ४४ ॥ तया यावत्स्वतीतेषु पर्यायेष्वस्ति संस्मृतिः । केन तद्यापिनि द्रव्ये प्रत्यभिज्ञास्य वार्यते ॥ ४५ ॥ बालकोहं य एवासं स एव च कुमारकः । युवानो मध्यमो वृद्धोऽधुनास्मीति प्रतीतितः ॥४६ स्मृतिः किन्नानुभूतेषु स्वयं भेदेष्वशेषतः । प्रत्यभिज्ञानहेतुः स्यादिति चोद्यं न युक्तिमत् ४७ तादृक्षयोग्यताहानेः तद्भावे त्वस्ति सांगिनां । व्यभिचारी हि तन्नान्यो हेतुः सर्वः समीक्ष्यते ४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org