________________
प्रथमोऽध्यायः ।
१९१
स्मरणस्य हि नानुभवनमात्रं कारणं सर्वस्य सर्वत्र खानुभूतेर्थे स्मरणप्रसंगात् । नापि दृष्टसजातीयदर्शनं तस्मिन् सत्यपि कस्यचित्तदनुपपत्तेर्वासनाप्रबोधः कारणमिति चेत् कुतः स्यात् । दृष्टसजातीयदर्शनादिति चेन्न तद्भावेपि तदभावात् । एतेनार्थत्वादिस्तद्धेतुः प्रत्याख्यातः, सर्वस्य दृष्टस्य हेतोर्व्यभिचारात् । तदविद्यावासनाप्रहाणं तत्कारणमितिचेत्, सैव योग्यता स्मरणावरणक्षयोशमलक्षणा तस्यां • च सत्यां सदुपयोगविशेषा वासना प्रबोध इति नाममात्रं भिद्यते । ततो यत्रार्थेनुभवः प्रवृत्तस्तत्र स्मरणावरणक्षयोपशमे सत्यंतरंगे हेतौ बहिरंगे च दृष्टसजातीयदर्शनादौ स्मरणस्योत्पत्तिर्न पुनस्तदभावेतिप्रसंगादिति नानादिद्रव्यपर्यायेषु स्वयमनुभूतेष्वपि कस्यचित्स्मरणं, नापि प्रत्यभिज्ञानं तन्निबंधनं तस्य यथा स्मरणं तथा प्रत्यभिज्ञानावरणक्षयोपशमं च प्रादुर्भावादुपपन्नं तद्वैचित्र्यं योग्यतायास्तदावरणक्षयोपशमलक्षणाया वैचित्र्यात् ॥
कुतः पुनर्विचित्रा योग्यता स्यादित्युच्यते ;
मलावृतमणेर्व्यक्तिर्यथानेकविधेक्ष्यते । कर्मावृतात्मनस्तद्वद्योग्यता विविधा न किम् ॥ ४९ ॥ स्वावरणविगमस्य वैचित्र्यान्मणेरिवात्मनः खरूपाभिव्यक्तिवैचित्र्यं न हि तद्विरुद्धं । तद्विगमस्तु स्वकारणविशेषवैचित्र्यादुपपद्यते । तद्विगमकारणं पुनर्द्रव्यक्षेत्रकालभवभावलक्षणं यदन्वयव्यतिरेकस्तत्संभावनेति पर्याप्तं प्रपंचेन । सादृश्यैकत्वप्रत्यभिज्ञानयोः सर्वथा निरवद्यत्वात् ॥ नन्वस्त्वेकत्वसादृश्यप्रतीतिर्नार्थगोचरा । संवादाभावतो व्योमकेशपाशप्रतीतिवत् ॥ ५० ॥ सादृश्यप्रत्यभिज्ञैकत्वप्रत्यभिज्ञा च नास्माभिरपहूयते तथा प्रतीतेः केवलं सानर्थविषया संवादाभावादाकाश केशपाशप्रतिभासनवदिति चेत् ——
2
तत्र यो नाम संवादः प्रमाणांतरसंगमः । सोध्यक्षेपि न संभाव्य इति ते क प्रमाणता ॥ ५१ ॥ प्रत्यक्षविषये तावन्नानुमानस्य संगतिः । तस्य स्वलक्षणे वृत्त्यभावादालंबनात्मनि ॥ ५२ ॥ तत्राध्यक्षांतरस्यापि न वृत्तिः क्षणभंगिनि । तथैव सिद्धसंवादस्यानवस्था तथा न किम् ॥५३॥ प्राप्य स्वलक्षणे वृत्तिर्यथाध्यक्षानुमानयोः । प्रत्यक्षस्य तथा किं न संज्ञया संप्रतीयते ॥ ५४ ॥ तयालंवितमन्यच्चेत्प्राप्तमन्यत्स्वलक्षणं । प्रत्यक्षेणानुमानेन किं तदेव भवन्मते ॥ ५५ ॥ गृहीतप्राप्तयोरेवाध्यारोपाच्चेत्तदेव तत् । समानं प्रत्यभिज्ञायां सर्वे पश्यंतु सद्भियः ॥ ५६ ॥ प्रत्यभिज्ञानमानत्वे प्रमाणं नान्यथेत्यपि । तत्र युक्तानुमानस्योत्थानाभावप्रसंगतः ॥ ५७ ॥ तत्र लिंगे तदेवेदमिति ज्ञानं निबंधनम् । लैंगिकस्यानुमानं चेदनवस्था प्रसज्यते ॥ ५८ ॥ लिंगप्रत्यवमर्शेण विना नास्त्येव लैंगिकम् । विभिन्नः सोनुमानाच्चेत्प्रमाणांतरमागतम् ||५९|| न हि लिंगप्रत्यवगमो प्रमाणं ततो व्याप्तिव्यवहारकालभावलिंगसादृश्याव्यवस्थितिप्रसंगात् । तथा चानुमानोदयासंभवस्तत्संभवेतिप्रसंगात् । अप्रमाणात्तदव्यवस्थितौ प्रमाणानर्थक्यप्रसंग इत्युक्तं । ततोनुमानं प्रत्यभिज्ञानं । किं तर्हि प्रमाणांतरं संवादकत्वात् प्रत्यक्षादिवत् । न हि दृश्यप्राप्ययोरेकत्वाध्यारोपेण प्रमाणांतरसंगमलक्षणः संवादः संज्ञायामसिद्धः, प्रत्यक्षादावपि तदसिद्धिप्रसंगात् । एतेनार्थक्रियास्थितिरविसंवादा ( ? ) न प्रत्यभिज्ञाप्रमाणमित्यपि प्रत्युक्तं । तत एव प्रत्यक्षादेरप्रमाणत्वप्रसंगात् । प्रतिपत्तुः परितोषात्संवादस्तत्र प्रमाणतां व्यवस्थापयतीति चेत्, प्रत्यभिज्ञानेपि । न हि ततः प्रवृत्तस्यार्थ - क्रियास्थितौ परितोषो नास्तीति । यदि पुनः बाधकाभावः संवादस्तदभावान्न प्रत्यभिज्ञा प्रमाणमिति मतं तदा न सिद्धो हेतुः संवादाभावादिति । तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org