________________
१९२ तत्त्वार्थश्लोकवार्तिके
[सू०१३ संवादो बाधवैधुर्यनिश्चयश्चेत्स विद्यते । सर्वत्र प्रत्यभिज्ञाने प्रत्यक्षादाविवांजसा ॥ ६० ॥ प्रत्यक्षं बाधकं तावन्न संज्ञानस्य जातुचित् । तद्भिन्नगोचरत्वेन परलोकमतेरिव ॥ ६१ ॥ यत्र प्रवर्तते ज्ञानं स्वयं तत्रैव साधकम् । बाधकं वा परस्य स्थानान्यत्रातिप्रसंगतः ॥ ६२ ॥ अदृश्यानुपलब्धिश्च बाधिका तस्य न प्रमा । दृश्या दृष्टिस्तु सर्वत्रासिद्धा तद्गोचरे सदा ॥६३॥ तदेवं न प्रत्यक्षस्वभावानुपलब्धिर्वा बाधिका ॥ यत्सत्तत्सर्व क्षणिकं सर्वथैव विलक्षणं । ततोऽन्यत्र प्रतीघातात्सत्त्वस्यार्थक्रियाक्षतेः ॥ ६४ ॥ अर्थक्रियाक्षतिस्तत्र क्रमवृत्तिविरोधतः । तद्विरोधस्ततोनंशः स्यान्नापेक्षाविघाततः ॥६५॥ इतीयं व्यापका दृष्टिर्नित्यत्वं हंति वस्तुनः । सादृश्यं च ततः संज्ञा बाधिकेत्यपि दुर्घटम् ६६
सत्त्वमिदमर्थक्रियया व्याप्तं सा च क्रमाक्रमाभ्यां तौ वा क्षणिकात्सदृशाच्च निवर्तमानौ स्वव्याप्यामर्थक्रियां निवर्तयतः । सा निवर्तमाना खव्याप्यं सत्त्वं निवर्तयतीति व्यापकानुपलब्धिनित्यस्यासत्त्वं सर्वथा सादृश्यं च साधयंती नित्यत्वसादृश्यविषयस्य प्रत्यभिज्ञानस्य बाधिकास्तीति केचित् । तदेतदपि दुर्घटम् । कुतः
क्षणप्रध्वंसिनः संतः सर्वथैव विलक्षणाः । इति व्याप्तेरसिद्धत्वाद्विप्रकृष्टार्थशंकिनाम् ॥६७॥ नित्यानां विप्रकृष्टानामभावे भावनिश्चयात् । कुतश्चियाप्तिसंसिद्धिराश्रयेत यदा तदा ॥६८॥ नेदं नैरात्मकं जीवच्छरीरमिति साधयेत् । प्राणादिमत्त्वतोस्यैवं व्यतिरेकप्रसिद्धितः ॥ ६९॥
यथा विप्रकृष्टानां नित्याद्यर्थानामभावे सत्त्वस्य हेतोः सहाधनिश्चयस्तद्व्याप्तिसिद्धिनिबंधनं तथा विप्रकृष्टस्यात्मनः पाषाणादिस्वभावे प्राणादिमत्त्वस्य हेतोरभावनिश्चयोपि तद्व्याप्तिसिद्धेर्निबंधनं किं न भवेत् ? यतो व्यतिरेक्यपि हेतुर्न स्यात् । न च सत्त्वादस्य विशेषं पश्यामः सर्वथा गमकत्वागमकत्वयोरिति प्राणादिमत्त्वााप्तसिद्धिमुपयतां सत्त्वादेरपि तदसिद्धिर्बलादादापतत्येव । ततो न क्षणिकत्वं सर्वथा विलक्षणत्वं वार्थानां सिद्ध्यति विरुद्धत्वाच्च हेतोः । तथाहि
क्षणिकेपि विरुद्यते भावेनंशे क्रमाक्रमौ । स्वार्थक्रिया च सत्त्वं च ततोनेकांतवृत्ति तत् ॥७० सर्वथा क्षणिके न क्रमाक्रमौ परमार्थतः संभवतस्तदसंभवे ज्ञानमात्रमपि स्वकीयार्थक्रियां कुतो यवतिष्ठते ? यतः सत्त्वं ततो विनिवर्तमानं कथंचित्क्षणिकेनेकांतात्मनि स्थितिमासाद्य तद्विरुद्धं न भवेदित्युक्तोत्तरप्रायं । तथा च किं कुर्यादित्याह;निहंति सर्वथैकांतं साधयेत्परिणामिनं । भवेत्तत्र न भावे तत्प्रत्यभिज्ञा कथंचन ॥ ७१॥
द्रव्यपर्यायात्मनि नित्यात्मके वस्तुनि जात्यंतरपरिणामिन्येव द्रव्यतः प्रत्यभिज्ञा सदृशपरिणामतो संभवति सर्वथा विरोधाभावान्न पुनर्नित्यायेकांते विरोधसिद्धेः । तथाहिनित्यैकांते न सा तावत्पौर्वापर्यवियोगतः । नाशकांतेपि चैकत्वसादृश्याघटनात्तथा ॥७२॥ नित्यानित्यात्मके त्वर्थे कथंचिदुपलक्ष्यते । जात्यंतरे विरुध्येत प्रत्यभिज्ञा न सर्वथा ॥७३॥
ततो न प्रत्यभिज्ञायाः किंचिद्बाधकमस्तीति बाधाविरहलक्षणस्य संवादस्य सिद्धेरप्रमाणत्वसाधनमयुक्तं । ननु चैकत्वे प्रत्यभिज्ञा तत्सिद्धौ प्रमाणं संवादात्तत्प्रमाणत्वसिद्धौ ततस्तद्विषयस्यैकत्वस्य सिद्धिरित्यन्योन्याश्रयः । प्रत्यभिज्ञांतरात्प्रथमप्रत्यभिज्ञाविषयस्य साधने तद्विषयस्यापि प्रत्यभिज्ञांतरात्साधनमित्यनवस्थानमिति चेन्न, प्रत्यक्षस्यापि नीलादौ प्रमाणत्वसाधने समानत्वात् । इतरथा हि
नीलसंवेदनस्यार्थे नीले सिद्धे प्रमाणता । तत्र तस्यां च सिद्धायां नीलोर्थस्तेन सिद्ध्यति ॥७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org