________________
१९३
प्रथमोऽध्यायः। इत्यन्योन्याश्रितं नास्ति यथाभ्यासबलात्कचित् । स्वतः प्रामाण्यसंसिद्धेरध्यक्षस्वार्थसंविदः७५
तदेकत्वस्य संसिद्धौ प्रत्यभिज्ञा तदाश्रया । प्रमाणं तत्प्रमाणत्वे तया वस्त्वेकता गतिः॥७६॥ इत्यन्योन्याश्रितिर्न स्यात्स्वतः प्रामाण्यसिद्धितः । स्वभ्यासात्प्रत्यभिज्ञायास्ततोन्यत्रानुमानतः ७७
प्रत्यभिज्ञांतरादाद्यप्रत्यभिज्ञार्थसाधने । यानवस्था समा सापि प्रत्यक्षार्थप्रसाधने ॥ ७८ ॥ प्रत्यक्षांतरतः सिद्धा स्वतः सा चेन्निवर्तते । प्रत्यभिज्ञांतरादेतत्तथाभूतानिवर्तताम् ॥ ७९ ॥ ततो नैकत्वं प्रत्यभिज्ञानं सावधं सर्वदोषपरिहारात् ॥ सादृश्यप्रत्यभिज्ञानमेतेनैव विचारितम् । प्रमाणं स्वार्थसंवादादप्रमाणं ततोन्यथा ॥ ८०॥
नन्विदं सादृश्यं पदार्थेभ्यो यदि भिन्नं तदा कुतस्तेषामिति प्रदृश्यते । संबंधत्वाच्चेत् , कः पुनः सादृश्यतद्वतामांतरभूतानामकार्यकारणात्मनां संबंधः ? समवाय इति चेत् , कः पुनरसौ ? न तावत्पदार्थातरमनभ्युपगमात् । अविभ्रमद्भाव इति चेत् सर्वात्मनैकदेशेन वा प्रतिव्यक्ति । सर्वात्मना चेत्सा. दृश्यबहुत्वप्रसंगः । न चैकत्र सादृश्यं तस्यानेकखभावत्वात् । यदि पुनरेकदेशेन सादृश्यं व्यक्तिषु समवेतं तदा सावयवत्वं स्यात् । तथा च तस्य सावयवैः संबंधचिंतायां स एव पर्यनुयोग इत्यनवस्था । यदि पुनरभिन्नं सादृश्यमर्थेभ्योऽभ्युपगम्यते तदापि तस्यैकत्वे तदभिन्नानामर्थानामेकत्वापत्तिरेकस्मादभिन्नानां सर्वथा नानात्वविरोधात् । पदार्थनानात्ववद्वा तस्य नानात्वेभ्योऽनर्थातरस्य सर्वथैकत्व विरोधात् । तथा चोभयोरपि पक्षयोः सादृश्यासंभवः । सादृश्यवतां सर्वथैकत्वे तत्र सादृश्यानवस्थानात् । सादृश्यं सर्वथा नानाचेत् सादृश्यरूपतानुपपत्तेः । सादृश्यमर्थेभ्यो भिन्नाभिन्नमिति युक्तं विरोधादुभयदोषानुषंगाच्च । तदर्थेभ्यो येनात्मना भिन्नं तेनैवाभिन्नं विरुध्यते । परेण भिन्नं तदन्येनाभिन्नमित्यवधारणात्तदुभयदोषप्रसक्तिः । संशयवैयधिकरण्यादयोपि दोषास्तत्र दुर्निवारा एवेति सादृश्यस्य विचारासहत्वात् कल्पनारोपितत्वमेव तद्विषयं च प्रत्यभिज्ञानं खार्थे संवादशून्यं न प्रमाणं नामातिप्रसंगात् । कल्पनारोपितादेव खार्थसंवादाप्रमाणत्वे मनोराज्यादिविकल्पकलापस्य प्रमाणत्वानुषंगात् तादृक्संवादस्य सद्भावादिति कश्चित् तं प्रत्याह;
भेदाभेदविकल्पाभ्यां सादृश्यं येन दृष्यते । वैसादृश्यं कुतस्तस्य पदार्थानां प्रसिध्यतु ॥८१॥ विसदृशानां भावो हि वैसादृश्यं तच्च पदार्थेभ्यो भिन्नमभिन्न भिन्नाभिन्नं वा स्यादतोऽन्यगत्यभावात् । सर्वथा सादृश्यपक्षभावी दोषो दुर्निवार इति कुतस्तत्सिद्धिः । सादृश्यवद्वैसदृशमपि न परमार्थमर्थक्रियाशून्यत्वात् खलक्षणस्यैव सत्त्वस्य परमार्थत्वात् । तस्यार्थक्रियासमर्थत्वादितिचेत् , न वैसदृशसादृश्यत्यक्तं किंचित्खलक्षणं प्रमाणसिद्धमस्तीह यथा व्योमकुशेशयं । प्रत्यक्षसंविदि प्रतिभानं स्पष्टं स्खलक्षणमिति चेत्
समानाकारता स्पष्टा प्रत्यक्ष प्रतिभासते । वर्तमानेषु भावेषु यथा भिन्नस्वभावता ॥ ८२॥ इदानींतनतया प्रतिभासमाना हि भावास्तेषु यथा परस्परं भिन्नरूपं प्रत्यक्षे स्पष्टमवभासते तथा समानमपीति सदृशेतरात्मकं स्खलक्षणसिद्धमन्यथा व्योमारविंदवत्तस्यानवभासनात् । स्पष्टावभासित्वं समानस्य रूपस्य भ्रांतमितिचेत् , भिन्नस्य कथमभ्रांतं । बाधकामावादिति चेत् , सामान्यस्पष्टावभासित्वे किं बाधकमस्ति ? न तावत्प्रत्यक्षं खलक्षणानि पश्यामीति प्रयतमानसस्यापि स्थूलस्थिराकारस्य साधनस्य स्फुटं दर्शनात् । तदुक्तं । “यस्य स्खलक्षणान्येकं स्थूलमक्षणिकं स्फुटम् । यद्वा पश्यति वैशचं तद्विद्धि सदृशस्मृतेः ॥” इति । नाप्यनुमानं लिंगाभावात् । खखभावस्थितलिंगादुत्पन्न भिन्नखलक्षणानुमान
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org