________________
१५२
तत्त्वार्थश्लोकवार्तिके
परस्परमेकशो व्यवहिता यतस्तद्व्यवधायकांतर कल्पनायामनवस्था कथंचिदेकद्रव्यतादात्म्येनाव्यवहितत्वात् अन्यथा तदव्यवधानायोगात् । भवितव्यं वा व्यवधानेन तेषां प्रसिद्धसत्त्वानां व्यवधानेनवस्थानात् । येन चैकेन द्रव्येण तेषां कथंचित्तादात्म्यं ततो व्योमेति तस्यैकद्रव्यत्वसिद्धिरिति नासिद्धं व्योम्नो गतत्त्वसाधनं । ततस्तदनंतं सर्वलोकाधिकरणमिति नानवस्था तदाधारान्तरानुपपत्तेः ॥
[सू० ७
व्योमवत्सर्वभावानां स्वप्रतिष्ठानुषंजनं । कर्तुं नैकांततो युक्तं सर्वगत्वानुषंगवत् ॥ २० ॥
निश्चयनयात्सर्वे भावाः स्वप्रतिष्ठा इति युक्तं न पुनः सर्वथा व्योमवत्तेषां सर्वगतत्वामूर्तत्वादिप्रसंगस्यापि दुर्निवारत्वात् । सर्वद्रव्याणां सर्वगतत्वे को दोष इति चेत् प्रतीतिविरोध एवामूर्तत्वादिति वक्ष्यामः । प्रतीत्यतिक्रमे तु कारणाभावात्सर्वमसमंजसं मानमेयं प्रलापमात्रमुपेक्षणीयं स्यादिति यथाप्रतीतिसिद्धमधिकरणमधिगम्यमर्थानाम् ॥
अस्थिरत्वात्पदार्थानां स्थि तिर्नैवास्ति तात्त्विकी । क्षणादूर्ध्वमितीच्छंति केचित्तदपि दुर्घटम् २१ निरन्वयक्षयैकांते संतानाद्यनवस्थितेः । पुण्यपापाद्यनुष्ठानाभावासक्तेर्निरूपणात् ॥ २२ ॥
I
संवृत्या संतानसमुदायसाधर्म्यात् प्रेत्यभावानां पुण्यपापमुक्तिमार्गानुष्ठानस्य चाभ्युपगमात् परमार्थतस्तदभावासक्तिर्नानिष्टेति चेत्, किमिदानीं संवेदनाद्वैतमस्तु परमार्थं सत् निरन्वयविनश्वराणामेकक्षणस्थितीनां नानापदार्थानामनुभवात् । तदपि नेति चेत् तर्हि इष्टं संतानादि सर्वे निरंकुशत्वात् तच्च निरन्वयक्षयैकांते संवृत्त्यापि न स्यात् । तथा च निरूपितं "संतानः समुदायश्च साधर्म्य च निरंकुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिहवे ||" इति । ननु च बीजांकुरादीनामेकत्वाभावेपि संतानः सिद्धस्तिलादीनां समुदायसाधर्म्यं च तद्वत्सर्वत्र तत्सिद्धौ किमेकत्वेनेति चेन्न, सर्वबीजांकुरादीनामेकसंतानत्वापत्तेः, सकलतिलादीनां वा समुदायसाधर्म्यप्रसक्तेः । प्रत्यासत्तेर्विशेषात्केषांचिदेव संतानः समुदायः साधर्म्यं च विशिष्टमिति चेत्, स कोन्योऽन्यत्रैकद्रव्यक्षेत्रभावप्रत्यासत्तेरिति नान्वयनिह्नवो युक्तः । न ह्यव्यभिचारी कार्यकारणभावः संताननियमहेतु:, सुगतेतरचित्तानामेकसंतानत्वप्रसंगादिति समर्थितं प्राक् । नाप्येकसामध्यधीनत्वं समुदायैकत्वनियमनिबंधनं धूमेंधनविकारादिरूपादीनां नानासमुदायानामेकसमुदायत्वानुषंगात् प्रतीतमातुलिंगरूपादिवत् । एतेन समानकालत्वं तन्निमित्तमिति प्रत्युक्तं, एकद्रव्याधिकरणत्वं तु सहभुवामेकसमुदायत्वव्यवस्था हेतुरिति सत्येवान्विते द्रव्ये तिलादिरूपादिसमुदायैकत्वनियमः साधर्म्यं । न पुनर्नानाद्रव्याणां समानहेतुकत्वादिति वार्तामात्रं विसदृशहेतूनामपि बहुलं साधर्म्यदर्शनात् । रजतशुक्तिकादिवत् समानपरिणामसत्त्वात् साधर्म्ये भावप्रत्यासत्तिविशेषादेव साधर्म्य | न च समानपरिणामो नाना परिणामिद्रव्याभावे संभवतीति न तद्वादिनामेकद्रव्यापह्नवः श्रेयान् । प्रेत्यभावः कथमेकत्वाभावे न स्यादितिचेत् तस्य मृत्वा पुनर्भवनलक्षणत्वात् । संतानस्यैव मृत्वा पुनर्भवनं न पुनर्द्रव्यस्येति चेन्न, संतानस्यैकद्रव्याभावे नियमायोगस्य प्रतिपादनात् । कथंचिदेकद्रव्यात्मनो जीवस्य प्रेत्यभावसिद्धेः । पुण्यपापाद्यनुष्ठानं पुनरपि संवाहकर्तृक्रियाफलानुभवितृनानात्वे कृतनाशाकृताभ्यागमप्रसक्तेर्दूरोत्सारितमेव । तत्संतानैक्ये चैकद्रव्यत्वस्य सिद्धेर्न निरन्वयक्षयैकांतस्तद्वादिभिरभ्युपगंतव्यः । ततः सर्वथा संतानाद्युपगमे द्रव्यस्य कालांतरस्थायिनः प्रसिद्धेर्न क्षणादूर्ध्वमस्थितिः पदार्थानाम् ॥
यथा चैकक्षणस्थायी भावो हेतोः समुद्भवेत् । तथानेकक्षणस्थायी किन्न लोके प्रतीयते ॥ २३॥ ननु प्रथमे क्षणे यथार्थानां क्षणद्वयस्थास्नुता तथा द्वितीयेपीति न कदाचिद्विनाशः स्यादन्यथा सैव क्षणस्थितिः प्रतिक्षणं स्वभावात्ततो न कालांतरस्थायी भावो हेतोः समुद्भवन् प्रतीयतेऽन्यत्र विभ्रमादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org