________________
प्रथमोऽध्यायः । तेनेच्छामात्रतंत्रं यत्संज्ञाकर्म तदिष्यते । नामाचार्यैर्न जात्यादिनिमित्तापनविग्रहम् ॥ ५३ ॥ सिद्धे हि जात्यादिनिमित्तांतरे विवक्षात्मनः शब्दस्य निमित्तात् संव्यवहारिणां निमित्तांतरानपेक्षं संज्ञाकर्म नामेत्याहुराचार्यास्ततो जात्यादिनिमित्तं संज्ञाकरणमनादियोग्यतापेक्षं न नाम । केनचित् खेच्छया संव्यवहारार्थ प्रवर्तितत्वात् , परापरवृद्धप्रसिद्धेस्तथैवाव्यवच्छेदात् , बाधकाभावात् ॥
का पुनरियं स्थापनेत्याह;वस्तुनः कृतसंज्ञस्य प्रतिष्ठा स्थापना मता । सद्भावेतरभेदेन द्विधा तत्त्वाधिरोपतः ॥५४ ॥
स्थाप्यत इति स्थापना प्रतिकृतिः सा चाहितनामकस्येंद्रादेर्वास्तवस्य तत्त्वाध्यारोपात् प्रतिष्ठा सोऽयमित्यभिसंबंधेनान्यस्य व्यवस्थापना स्थापनामानं स्थापनेति वचनात् । तत्राध्यारोप्यमानेन भावेंद्रादिना समाना प्रतिमा सद्भावस्थापना मुख्यदर्शिनः स्वयं तस्यास्तद्बुद्धिसंभवात् । कथंचित्सादृश्यसद्भावात् । मुख्याकारशून्या वस्तुमात्रा पुनरसद्भावस्थापना परोपदेशादेव तत्र सोऽयमिति संप्रत्ययात् ॥
सादरानुग्रहाकांक्षाहेतुत्वात्प्रतिभिद्यते । नाम्नस्तस्य तथाभावाभावादत्राविवादतः ॥ ५५ ॥ स्थापनायामेवादरोनुग्रहाकांक्षा च लोकस्य न पुनर्नाम्नीत्यत्र न हि कस्यचिद्विवादोस्ति येन ततः सा न प्रतिभिद्यते । नाम्नि कस्यचिदादरदर्शनान्न ततस्तद्भेद इति चेन्न, खदेवतायामतिभक्तितस्तन्नामकेर्थे तदध्यारोपस्याशुवृत्तेस्तत्स्थापनायामेवादरावतारात् । तदनेन नाम्नि कस्यचिदनुग्रहाकांक्षाशंका व्युदस्ता, केवलमाहितनामके वस्तुनि कस्यचित्कादाचित्की स्थापना कस्यचित्तु कालांतरस्थायिनी नियता । भूयस्तथा संप्रत्ययहेतुरिति विशेषः ॥
नन्वनाहितनाम्नोपि कस्यचिदर्शनेजसा । पुनस्तत्सदृशे चित्रकर्मादौ दृश्यते स्वतः ॥५६॥ सोऽयमित्यवसायस्य प्रादुभोवः कथंचन । स्थापना सा च तस्येति कृतसंज्ञस्य सा कुतः॥५७॥ नैतत्सन्नाम सामान्यसद्भावात्तत्र तत्त्वतः । कान्यथा सोयमित्यादिव्यवहारः प्रवर्तताम् ॥५८॥ नन्वेवं सति नाम्नि स्थापनानुपपत्तेस्तस्यास्तेन व्याप्तिः कथं न तादात्म्यमिति चेन्न, विरुद्धधर्माध्यासात् ॥ तथाहिसिद्धं भावमपेक्ष्यैव स्थापनायाः प्रवृत्तितः । तदपेक्षां विना नाम भावाद्भिन्नं ततः स्थितम् ५९ किं खरूपप्रकारं द्रव्यमित्याह;यत्स्वतोभिमुखं वस्तु भविष्यत्पर्ययं प्रति । तद्व्यं द्विविधं ज्ञेयमागमेतरभेदतः ॥६०॥
न ह्यवस्त्वेव द्रव्यमबाधितप्रतीतिसिद्धं वा, नाप्यनागतपरिणामविशेष प्रति ग्रहीताभिमुख्यं न भवति पूर्वापरखभावत्यागोपादानस्थानलक्षणत्वाद्वस्तुनः सर्वथा तद्विपरीतस्य प्रतीतिविरुद्धत्वात् । तच्च द्विविधमागमनोआगमभेदात् प्रतिपत्तव्यम् ।।
आत्मा तत्प्रभृतज्ञायी यो नामानुपयुक्तधीः । सोत्रागमः समाम्नातः स्याद्रव्यं लक्षणान्वयात्६१
अनुपयुक्तः प्राभृतज्ञायी आत्मागमः । कथं द्रव्यमिति नाशंकनीयं द्रव्यलक्षणान्वयात् । जीवादिप्राभृतज्ञस्यात्मनोनुपयुक्तस्योपयुक्तं तत्प्राभृतज्ञानाख्यमनागतपरिणामविशेष प्रति गृहीताभिमुख्यखभावत्वसिद्धेः ॥
नो आगमः पुनस्त्रेधा ज्ञशरीरादिभेदतः । त्रिकालगोचरं ज्ञातुः शरीरं तत्र च त्रिधा ॥२॥ भावि नोआगमद्रव्यमेष्यत् पर्यायमेव तत् । तथा तद्व्यतिरिक्तं च कर्मनोकर्मभेदभृत् ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org