________________
११०
तत्त्वार्थश्लोकवार्तिके
[सू० ५
दृश्यमिति चेत् तदेकत्वाध्यारोपाद्विकल्प्यमपि खतो न तत्समर्थमिति चेत् तदैक्यारोपाद् दृश्यमपि तदनयोरेकत्वेनाध्यवसितयोरविशेषात् सर्वथा क्वचित्प्रवृत्तौ कथमन्यत्रापि प्रवृत्तिर्विनिवार्यते । न चानयोरेकत्वाध्यवसायः संभवति दृश्यस्याध्यवसायाविषयत्वात् अन्यथा विकल्प्यस्य वस्तुसंस्पर्शित्वप्रसंगात् । न च परमार्थतो दृश्यमविषयीकुर्वन् विकल्पो विकल्प्येन सहैकतयाध्यवस्यति नामातिप्रसंगात् । ननु च दृश्यं विकल्पस्यालंबनं मा भूदध्यवसेयं तु भवतीति युक्तं तद्विकल्प्येन सहैकतयाध्यवसायत्वमिति चेत्, तर्हि न विशेषरूपं तेनैक्येनाध्यवसीयते सामान्याकारस्यैवाध्यवसेयत्वात् । दृश्यसामान्येन सह विकल्प्यमेकत्वेनाध्यवसीयत इति चेत्, कथं दृश्यविशेषे तदर्थिनां प्रवृत्तिः स्यात् । दृश्यविशेषस्य दृश्यसामान्येन सहैकत्वारोपात्तत्र प्रवृत्तिरिति चेत्, क्केदानीं सौगतस्य प्रवृत्तिरनवस्थानात् । सुदूरमप्यनुसृत्य विशेषेध्यवसायासंभवात् । ततोर्थप्रवृत्तिमिच्छता शब्दात्तस्य नान्यापोहमात्रं विषयोभ्युपेयो जातिमात्रादिवत् । सर्वथा निर्विषयः शब्दोस्त्वित्य संगतं वृत्त्यापि तस्य निर्विषयत्वे साधनादिवचनव्यवहारविरोधात् ॥
5
किं पुनरेवं शब्दस्य विषय इत्याह ; -
जातिव्यक्त्यात्मकं वस्तु ततोस्तु ज्ञानगोचरः । प्रसिद्धं बहिरंतश्च शाब्दव्यवहृतीक्षणात् ॥५०॥ यद्यत्र व्यवहृतिमुपजनयति तत्तद्विषयं यथा प्रत्यक्षादि । जातिव्यतयात्मके वस्तुनि व्यवहृतिमुपजनयत्तद्विषयं । तथा च शब्द इत्यत्र नासिद्धं साधनं बहिरंतश्च व्यवहृतेः सामान्यविशेषात्मनि वस्तुनि समीक्षणात् । तथा च यत्रैव शब्दात् प्रतिपत्तिस्तत्रैव प्रवृत्तिः तस्यैव प्राप्तिः प्रत्यक्षादेरिवेति सर्वे सुस्थं । सत्ताशब्दाद्रव्यत्वादिशब्दाद्वा कथं सामान्यविशेषात्मनि वस्तुनि प्रतिपत्तिरिति चेत्, सद्विशेषोपहितस्य सत्सामान्यस्य द्रव्यादिविशेषोपहितस्य च द्रव्यत्वादिसामान्यस्य तेन प्रतिपादनात् । तदनेनाभावशब्दादद्रव्यत्वादित्वाद्वा तत्र प्रतिपत्तिरुक्ता भावांतरखभावत्वादभावस्य गुणादिखभावत्वाच्चाद्रव्यत्वादेः भावोपहतस्याभावस्याभावशब्देन गुणाद्युपहितस्य चाद्रव्यत्वादेरद्रव्यत्वादिशब्देन प्रकाशनाद्वा । न च भावोपहितत्वमभावस्यासिद्धं सर्वदा घटस्याभावः पटस्याभाव इत्यादि भावोपाधेरेवाभावस्य प्रतीतेः । स्वातंत्र्येण सकृदप्यवेदनात् । तथैवाद्रव्यं गुणादिरजीवो धर्मादिरिति गुणाद्यपाधेरद्रव्यत्वादेः सुप्रतीतत्वात् न तस्य तदुपहितत्वमसिद्धं तथा प्रतीतेरबाधत्वात् । एतेन सत्सामान्यस्य विशेषोपहितत्वं द्रव्यत्वादिसामान्यस्य च द्रव्यत्वादिविशेषोपहितत्वमसिद्धं ब्रुवाणः प्रत्याख्यातः, सतां विशेषाणां भावः सत्ता द्रव्यादीनां भावो द्रव्यादित्वमिति सत्तादिसामान्यस्य स्वविशेषाश्रयस्यैव प्रत्ययाभिधानव्यवहारगोचरत्वात् । द्रव्यं सुवर्ण वानयेत्युक्ते तन्मात्रस्यानयनादर्शनात् खविशेषात्मन एव सदादिसामान्यस्य तगोचरत्वं प्रतीतिसिद्धं । सदादिविशेषमानयेति वचने तस्य सत्त्वादिसामान्यात्मकस्य व्यवहारगोचरत्ववत् । ततः सूक्तं सामान्यविशेषात्मनो वस्तुनः शब्दगोचरत्वं । तथा शब्दव्यवहारस्य निर्बाधमवभासनात् । कथमेवं पंचतयी शब्दानां वृत्तिर्जात्यादिशब्दानामभावादिति न शंकनीयं, यस्मात्;--
तत्र स्याद्वादिनः प्राहुः कृत्वायोद्धारकल्पनाम् । जातेः प्रधानभावेन कांश्चिच्छन्दान् प्रबोधकान् ५१ व्यक्तेः प्रख्यापकांश्चान्यान् गुणद्रव्यक्रियात्मनः । लोकसंव्यवहारार्थमपरान् पारिभाषिकान् ५२ न हि गौरव इत्यादिशब्दाज्जातेः प्रधानभावेन गुणीभूतव्यक्तिस्वभावायाः प्रकाशने गुणक्रियाद्रव्य - शब्दाद्वा यथोदिताद्व्यक्तेर्गुणाद्यात्मिकायाः प्राधान्येन गुणीभूतजात्यात्मनः प्रतिपादने स्याद्वादिनां कश्चिद्विरोधो येन सामान्यविशेषात्मक वस्तुविषयशब्दमाचक्षाणानां पंचतयी शब्दप्रवृत्तिर्न सिद्ध्येत् ॥
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org