________________
50
प्रथमोऽध्यायः ।
१०९
तर्हि कल्पितोन्यापोहः विवक्षातो भिन्नस्वभावो वक्तुः खसंवेद्यो न स्याद्भावांतरवत् तस्य तत्खभावत्वे वा संवेद्यत्वसिद्धेः कथं न संवेद्यमाने तत्स्वरूपे शब्दः प्रवर्तते । ननु च वक्तुर्विवक्षायाः खसंविदितं रूपं संवेदनमात्रोपादानं सकलप्रत्यये भावात् कल्पनाकारस्तु पूर्वशब्दवासनोपादानस्तत्र वर्तमानः शब्दः कथं स्वसंवेद्ये रूपे वास्तवे प्रवर्तते नाम यतो वस्तुविषयः स्यादिति चेत्, नैवं । खसंविदितरूपकल्पनाकारयोर्भिन्नोपादानत्वेन संतानभेदप्रसंगात् । तथा च सर्वचित्तचैतानामात्मसंवेदनं प्रत्यक्षमिति व्याहन्यतो स्वसंवेदनाद्भिन्नस्य विकल्पस्य स्वसंविदितत्वविरोधात् रूपादिवत् स्वसंवेदनस्यैवोपादानत्वात् । कल्पनोत्पत्तौ शब्दवासनायाः सहकारित्वान्न खसंविदितखरूपात् कल्पनाकारो भिन्नसंतान इति चेत्, कथमिदानीं ततोसावनन्य एव न स्यादभिन्नोपादानत्वात् । तथापि तस्य ततोन्यत्वे कथमुपादानभेदो भेदकः ? कार्याणां व्यतिरेकासिद्धेः कार्यभेदस्योपादानभेदमंतरेणापि भावात् तस्य तत्साधनतानुपपत्तेः । खसंविदिताकारस्य कल्पिताकारस्य चैकस्य विकल्पज्ञानस्य तथाविधानेकाकारविकल्पोपादानत्वाददोषोयमिति चेत्, नैकस्यानेकाकारस्य वस्तुनः सिद्ध्यनुषंगात् । संविदि कल्पिताकारस्य भ्रांतत्वान्नैकमनेकाकारं विकल्पवेदनमिति चेत् न, भ्रांतेतराकारस्य तदवस्थत्वात् । भ्रांताकारस्यासत्त्वे तदेकं सदसदात्मकमिति कुतो न सत्त्वसिद्धिः । यदि पुनरसदाकारस्या किंचिद्रूपत्वादेकरूपमेव विकल्पवेदनमिति मतिः, तदा तत्र शब्दः प्रवर्तत इति न क्वचित्प्रवर्तत इत्युक्तं स्यात् । तथोपगमे च विवक्षाजन्मानो हि शब्दास्तामेव गमयेयुरिति रिक्ता वाचोयुक्तिः । गमयेयुरिति संभावनायां लिङ्प्रयोगात्तामपि माजीगमन्न गीर्बहिरर्थवत्सर्वथा निर्विषयत्वेन तेषां व्यवस्थापनादित्यप्यात्मघातिनो वचनं स्वयं साधनदूषणवचनानर्थक्यप्रसक्तेः । संवृत्या तद्वचनमर्थवदिति चेत् केनार्थेनेति वक्तव्यं ? तदन्यापोहमात्रेणेति चेत्, विचारोपपन्नेनेतरेण वा ? न तावत्प्रथमपक्षस्तस्य विचार्यमाणस्याकिंचिद्रूपत्वसमर्थनात् । विचारानुपपन्नेन त्वन्यापोहेन सांवृत्तेन वचन - स्यार्थवत्त्वे बहिरर्थेन तथाभूतेन तस्यार्थवत्त्वं किमनिष्टं तथा व्यवहर्तुर्वचनाद्बहिः प्रवृतेरपि घटनात् ॥
अन्यापोहे प्रतीते च कथमर्थे प्रवर्तनम् | शब्दात्सिज्जनस्यास्य सर्वथातिप्रसंगतः ॥ ४५ ॥ न ह्यन्यत्र शब्देन चोद्यतेन्यत्र तन्मूला प्रवृत्तिर्युक्ता गोदोहचोदने बलीवर्दवाहनादौ तत्प्रसंगात् ॥ एकत्वारोपमात्रेण यदि दृश्यविकल्पयोः । प्रवृत्तिः कस्यचिदृश्ये विकल्पेप्यस्त्वभेदतः || ४६ || नैकत्वाध्यवसायोपि दृश्यं स्पृशति जातुचित् । विकल्प्यस्यान्यथा सिद्ध्छेद् दृश्यस्पर्शित्वमंजसा ४७ विकल्प्यदृश्यसामान्यैकत्वेनाध्यवसीयते । यदि दृश्यविशेषे स्यात् कथं वृत्तिस्तदर्थिनाम् ४८ ॥ तस्य चेद् दृश्यसामान्यैकत्वारोपात्क वर्तनम् । सौगतस्य भवेदर्थेनवस्थाप्यनुषंगतः ॥ ४९ ॥ नान्यस्माद्व्यावृत्तिरन्यार्थस्य न च व्यावृत्तोन्य एवेत्युच्यते घटस्याघटव्यावृत्तेः निवर्तमानस्याघटत्वसंगात् । तथा च न तस्या घटव्यावृत्तिर्नाम तस्माद्यैवान्या व्यावृत्तिः स एव व्यावृत्तः शब्दप्रतिपत्तिभेदस्तु संकेतभेदादेव व्यावृत्तिर्व्यावृत्त इति । धर्मधर्मिप्राधान्येन संकेतविशेषे प्रवृत्तेस्तद्वाच्यभेदस्तु न वास्तवोतिप्रसंगात् । तदुक्तं । “अपि चान्योन्यव्यावृत्तिवृत्त्योर्व्यावृत्त इत्यपि । शब्दाश्च निश्चयाश्चैवं संकेतं न निरुंधते” इति दृश्यविकल्पयोर्व्यावृत्त्योरेकत्वारोपाव्यावृत्तिचोदनेपि शब्देन विकल्पेन वा व्यावृत्तेः प्रवृत्तिरर्थे स्यादिति कश्चित् । तस्य विकल्प्येपि कदाचित्प्रवृत्तिरस्तु विशेषाभावात् । न हि दृश्यविकल्प्ययोरेकत्वाध्यवसायाविशेषेपि दृश्य एव प्रवृत्तिर्न तु विकल्पे जातुचिदिति बुद्ध्यामहे । दृश्येर्थ - क्रियार्थिनां प्रवृत्तिस्तस्यार्थक्रियायां समर्थनान्न पुनर्विकल्प्ये तस्य तत्रासमर्थत्वादिति चेन्ना, अर्थक्रियासमर्थेन विकल्पेन सहैकत्वाध्यारोपमापन्नस्य दृश्यस्यार्थक्रियासमर्थत्वै कांताभावात् । खतोर्थक्रियासमर्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org