________________
१०८ तत्त्वार्थश्लोकवार्तिके
[सू० ५ कुतो विशेषोवसीयतां ? परस्माद्विशेषणादिति चेदनवस्थानात् । संस्थानविशेषा प्रतिपत्तिरिति कथं तयंग्याकृतिविशेषनिश्चयः । यदि पुनराकृतिविशेषनिश्चयादेतदभिव्यंजकसंस्थानविशेषनिश्चयः स्यादिति मतं तदा परस्पराश्रणं, संस्थानविशेषस्य निश्चये सत्याकृतिविशेषस्य निश्चयस्त न्निश्चये सति संस्थानविशेषनिश्चय इति । स्वत एवाकृतिविशेषस्य निश्चयाददोष इति चेत् न, संस्थानविशेषनिश्चयस्यापि खत एवानुषंगात् । प्रत्ययविशेषादाकृतिविशेषः संस्थानविशेषश्च निश्चीयत इति चेत् , कुतः प्रत्ययविशेषसिद्धिः? . न तावत्स्वसंवेदनतः सिद्धांतविरोधात् । प्रत्ययांतराच्चेदनवस्था । विषयविशेषनिर्णयादिति चेत् , परस्पराश्रयणं, विषयविशेषस्य सिद्धौ प्रत्ययविशेषस्य सिद्धिः तत्सिद्धौ च तत्सिद्धिरिति । न चैवं सर्वत्र विशेषव्यवस्थापह्नवः खसंविदितज्ञानवादिनां प्रत्ययविशेषस्य खार्थव्यवसायात्मनः खतः सिद्धेः सर्वत्र विषयव्यवस्थोपपत्तेः । कथं चायमाकृतीनां गोत्वादीनां परस्परं विशिष्टकृतामपरविशेषेण विरहोपि खयमुपपन्नः । गवादिव्यक्तीनां विशेषणवशादेव तामुपगच्छेत् तथा दृष्टत्वादिति चेत् न, तत्रैव विवादात् । तदविवादे वा व्यक्त्याकृत्यात्मकस्य वस्तुनः पदार्थत्वसिद्धिस्तथा दर्शनस्य सर्वत्र भावात् । योपि मन्यतेन्यापोहमानं शब्दस्यार्थ इति तस्यापियदि गौरित्ययं शब्दो विधत्तेन्यविवर्तनम् । विदधीत तदा गोत्वं तन्नान्यापोहगोचरः॥४२॥
खलक्षणमन्यस्मादपोह्यतेनेनेत्यन्यापोहो विकल्पस्तं यदि गोशब्दो विधत्ते तदा गामेव किं न विदध्यात् । तथा च नान्यापोहशब्दार्थः गोशब्देनागोनिवृत्तेः कल्पनात्मिकायाः खयं विधानात् ॥
अगोनिवृत्तिमप्यन्यनिवृत्तिमुखतो यदि । गोशब्दः कथयेनूनमनवस्था प्रसज्यते ॥ ४३ ॥
न गौरगौरिति गोनिवृत्तिस्तावदेका ततो द्वितीया त्वगोनिवृत्तिस्ततोन्या तन्निवृत्तिस्तृतीया ततोन्यनिवृतिश्चतुर्थी यदि गोशब्देन कथ्यते तन्मुखेन गतिप्रवर्तनात् तदा सापि न गोशब्देन विधिप्राधान्येनाभिधेया द्वितीयनिवृत्तेरपि तथाविधेयत्वप्रसंगात् । गौरेव विधिसिद्धेः खान्यनिवृत्तिद्वारेणाभिधीयत इति चेत् , तर्हि ततोन्या पंचमी निवृत्तिस्ततो निवृत्तिः षष्ठी सा गोशब्दस्यार्थ इत्यनवस्था सुदूरमप्यनुसृत्य तद्विधिद्वारेणाश्रयणात् । निवृत्तिपरंपरायामेव शब्दस्य व्यापारात् शब्दो विवक्षां विधत्ते न पुनर्बहिरर्थमित्यभ्युपगमे कथमन्यापोहकृत्सर्वः शब्दः सर्वथावक्तुरिच्छां विधत्तेसौ बहिरर्थं न जातुचित् । शब्दोन्यापोहकृत्सर्वः यस्य वांध्यविभितम् ॥४४॥
यथैव हि शब्देन बहिरर्थस्य प्रकाशने तत्र प्रमाणांतरा वृत्तिः सर्वात्मना तद्वेदनेनार्थस्य निश्चितत्वान्निश्चिते समारोपाभावात् । तद्व्यवच्छेदेपि प्रमाणांतरस्याप्रवृत्तेर्वस्तुनो धर्मस्य कस्यचिन्निश्चये सर्वधर्मात्मकस्य धर्मिणो निश्चयात्सर्वग्रहापत्तेरन्यथा तदात्मकस्यैकधर्मस्यापि निश्चयानुपपत्तिस्ततो भिन्नस्य धर्मस्य निश्चये धर्मिणि प्रवृत्तिघटनात् तेन तस्य संबंधाभावादनुपकार्योपकारकत्वात् । तदुपकारे वा धर्मोपकारशक्त्यात्मकस्य धर्मिणो धर्मद्वारेण शब्दात् प्रतिपत्तौ सकलग्रहस्य तदवस्थत्वात्तदुपकारशक्तेरपि ततो भेदेनानवस्थानात् । प्रत्यक्षवद्वस्तुविषयस्य शब्दप्रत्ययस्य स्पष्टप्रतिभासप्रसंगाच न शब्दस्य तद्विषयत्वं तथैव वक्तविवक्षायाः शब्देनाभिधाने विशेषाभावात् । न च तत्र प्रमाणांतरा वृत्तिरेवाभ्युपगंतुं युक्ता शब्दात्सामान्यतः प्रतिपन्नायामपि तस्यां विशेषसंश्रयात् प्रमाणांतरवृत्तेरेव निश्चयात् । ततो वक्तुरिच्छायां बहिरर्थवच्छब्दस्य प्रवृत्त्यसंभवेपि तामेव शब्दो विदधातीति कथं न वाध्यविनँभितं, सर्वशब्दानामन्यापोहकारित्वप्रतिज्ञानात् । ननु च विवक्षायाः खरूपे संवेद्यमाने शब्दो न प्रवर्तते एव कल्पितेन्यापोहे तस्य प्रवृत्तेस्ततोन्यापोहकारी सर्वः शब्द इति वचनान्न वांध्य विलसितमिति चेत् , स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org