________________
नवमोऽध्यायः। स्वाध्यायः पंचधा प्रोक्तो वाचनादिअभेदतः । अंतरंगश्रुतज्ञानभावनात्मत्वतस्तु सः ॥१॥ अथ व्युत्सर्गप्रतिनिर्देशार्थमाह;
बाह्याभ्यंतरोपध्योः ॥ २६ ॥ व्युत्सर्ग इत्यनुवृत्तेर्व्यतिरेकनिर्देशः पूर्ववत् । उपधीयते बलाधानार्थमित्युपधिः । अनुपात्तवस्तुत्यागो बाह्योपधिव्युत्सर्गः । क्रोधादिभावनिवृत्तिरभ्यंतरोपधिव्युत्सर्गः । कायत्यागश्च नियतकालो यावज्जीवं वा । परिग्रहनिवृत्तेरवचनमिति चेन्न, तस्य धनहिरण्यवसनादिविषयत्वात् । धर्माभ्यंतरभावादिति चेन्न, प्रासुकनिरवद्याहारादिनिवृत्तितंत्रत्वात् । प्रायश्चित्ताभ्यंतरत्वादिति चेन्न, तस्य प्रतिद्वंद्विभावात् । प्रायश्चित्तस्य हि व्युत्सर्गस्यातिचारः प्रतिद्वंद्वीष्यते निरपेक्षश्चायं ततो नैतद्वचनमनर्थकं । अनेकत्रावचनमनेनैव गतत्वादिति चेन्न, शक्त्यपेक्षत्वात् । तदेवाहस्याबाह्याभ्यंतरोपध्योयुत्सर्गोधिकृतो द्विधा । व्रतधर्मात्मको दानप्रायश्चित्तात्मकोऽपरः ॥१॥ कथंचित्त्यागतां प्राप्तोप्येको निर्दिश्यते नृणां । शक्तिभेदव्यपेक्षायां फलेष्वेकोप्यनेकधा ॥२॥
सावधप्रत्याख्यानशक्त्यपेक्षया हि व्रतापरित्यागः । स चाव्रतास्रवनिरोधफलः । पुण्यास्रवफलं तु दानं खातिसर्गशक्त्यपेक्षं । धर्मात्मकस्तु संवरणशक्त्यपेक्षस्त्यागः प्रायश्चित्तात्मकोतिचारशोधनशक्त्यपेक्षः अभ्यंतरतपोरूपस्तु कायोत्सर्जनशक्त्यपेक्ष इति त्यागसामान्यादेकोप्यनेकः । स च निःसंगनिर्भयजीविताशाव्युदासाद्यर्थे व्युत्सर्गः । कथमुपध्योर्बाह्यताभ्यंतरता च मता यतस्तपोव्युत्सर्गः स्यादित्याहबाह्याभ्यंतरतोपध्योरनुपात्तेतरत्वतः । जीवेन तत्र कायायोर्वेद्यावेद्योतॄणां मता ॥३॥ अथ ध्यानं व्याख्यातुकामः प्राह;
उत्तमसंहननस्यैकाग्रचिंतानिरोधो ध्यानमांतर्मुहूर्तात् ॥ २७ ॥ किमनेन सूत्रेण क्रियत इत्याह;उत्तमेत्यादिसूत्रेण ध्यानं ध्याताभिधीयते । ध्येयं च ध्यानकालश्च सामर्थ्यात्तत्परिक्रिया ॥१॥ तत्र कश्चिदाह-योगश्चित्तवृत्तिनिरोध इति, स एवं पर्यनुयोज्यः किमशेषचित्तवृत्तिरोधस्तुच्छः किं वा स्थिरज्ञानात्मक इति ? नाद्यः पक्षः श्रेयानुत्तरस्तु स्यादित्याह
नाभावोशेषचित्तानां तुच्छः प्रमितिसंगतः । स्थिरज्ञानात्मकश्चित्तानिरोधो नोत्र संगतः ॥ २॥
ननु चाशेषचित्तवृत्तिनिरोधान्न तुच्छोभ्युपगम्यते तस्य ग्राहकप्रमाणाभावादनिश्चितत्वात् । किं तर्हि ? पुंसः खरूपेवस्थानमेव तन्निरोधः स एव हि समाधिरसंप्रज्ञातो योगो ध्यानमिति च गीयते ज्ञानस्यापि तदा समाधिभृतामुच्छेदात् । 'तदा द्रष्टुः खरूपेवस्थानं' इति वचनात् ॥
द्रष्टा ह्यात्माज्ञानवांस्तु न कुंभाद्यस्ति कस्यचित् । धर्ममेघसमाधिश्वेन्न द्रष्टा ज्ञानवान् यतः॥३॥
तथाहि-ज्ञानवानात्मा द्रष्टुत्वात् यस्तु न ज्ञानवान् स न द्रष्टा यथा कुंभादि द्रष्टा वात्मा ततो ज्ञानवान् । प्रधानं ज्ञानवदिति चेन्न, तस्यैव द्रष्टुत्वप्रसंगादद्रष्टुानवत्ताभावात् कुंभादिवत् । अज्ञानवत्त्वे पुरुषस्यानित्यत्वापत्तिरिति चेन्न, प्रधानस्याप्यनित्यत्वानुषक्तेः । तत्परिणामस्य व्यक्तस्यानित्यत्वोपगमाददोष इति चेत् , पुरुषपर्यायस्यापि बोधविशेषादेरनित्यत्वे को दोषः ? तस्य पुरुषात् कथंचिदव्यतिरेके भंगुरत्वप्रसंग इति चेत् , प्रधानाध्यक्तं किमत्यंतव्यतिरिक्तमिष्टं येन ततः कथंचिदव्यतिरेकादनित्यता न भवेत् । व्यक्ताव्यक्तयोरव्यतिरेकैकांतेपि व्यक्तमेवानित्यं परिणामत्वान्न पुनरव्यक्तं परिणामित्वादिति चेत् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org