________________
४९६ तत्त्वार्थश्लोकवार्तिके
[ सू० २५ तच्च संयताश्रयं द्विविषयमेकांते संयतिकाश्रयं त्रिविषयं प्रकाशे प्रायश्चित्तं गृहीत्वा कुर्वतोऽकुर्वतश्च कुतश्चित्तपश्चरणसाफल्येतरादिगुणदोषप्रसक्तिः प्रसिद्धैव । मिथ्यादुष्कृताभिधानाद्यभिव्यक्तप्रतिक्रिया प्रतिक्रमणं । तदुभयसंसर्गे सति साधनं तदुभयं सर्वस्य प्रतिक्रमणस्यालोचनपूर्वकत्वात् केवलं प्रतिक्रमणमयुक्तमिति चेन्न, तत्र गुरुणाभ्यनुज्ञातेन शिष्येणैवालोचनकरणात् । तदुभयस्मिन् गुरुणैवोभयस्य विधानात् । संसक्तान्नपानोपकरणादीनां विभजनं विवेकः । व्युत्सर्गः कायोत्सर्गादिकरणं । तपोनशनादि, दिवसपक्षमासादिना प्रव्रज्याहापनं छेदः । पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः । पुनर्दीक्षाप्रापणमुपस्थापनं । तदिदं नव विधमपि प्रायश्चित्तं किं कस्मिन् प्रमादाचरिते स्यादिति परमागमादवसेयं, तस्य देशकालाद्यपेक्षस्यान्यथावसातुमशक्यत्वात् ॥ अथ विनयविकल्पप्रतिपादनार्थमाह;
ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ विनय इत्यनुवर्तते, प्रत्येकमभिसंबंधः ज्ञानविनय इत्यादि । तत्र सबहुमानज्ञानग्रहणाभ्यासस्मरणादिर्ज्ञानविनयः । पदार्थश्रद्धाने निःशंकितत्वादिलक्षणोपेतता दर्शनविनयः, सामायिकादौ लोकबिंदुसारपर्यते श्रुतसमुद्रे भगवद्भिः प्रकाशितेऽन्यथा पदार्थकथनासंभवनात् । तद्वतश्चारित्रे समाहितचित्तता चारित्रविनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनांजलिकरणादिरुपचारविनयः, परोक्षेप्वपि कायवामनोभिरंजलिक्रियागुणसंकीर्तनानुस्मरणादिः । ज्ञानलाभाचारविशुद्धिसम्यगाराधनाद्यवलंबनं विनयभावनं । किमर्थं पुनर्ज्ञानादयो विनया इत्यभेदेनोक्ता इत्याह
ज्ञानादयोत्र चत्वारो विनयाः प्रतिपादिताः । कथंचित्तदभेदस्य सिद्धये परमार्थतः ॥१॥ ज्ञानादिभावना सम्यग्ज्ञानादिविनयो हि नः । तस्यांतरंगता न स्यादन्यथान्येव वेदनात् ॥२॥ अथ वैयावृत्त्यप्रतिपत्त्यर्थमाह;आचार्योपाध्यायतपखिशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥ २४ ॥ वैयावृत्त्यमित्यनुवृत्तेः प्रत्येकमभिसंबंधः। व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं । किमर्थं तदुक्तमित्याह;आचार्यप्रभृतीनां यद्दशानां विनिवेदितं । वैयावृत्त्यं भवेदेतदन्वर्थप्रतिपत्तये ॥१॥
आचरंति तस्माद्रतानीत्याचार्यः । उपेत्य तस्मादधीयत इत्युपाध्यायः । महोपवासाद्यनुष्ठायी तपखी । शिक्षाशीलः शैक्षः । रुजादिक्लिष्टशरीरो ग्लानः । गणः स्थविरसंततिः । दीक्षकाचार्यसंस्त्यायः कुलं । चातुर्वर्ण्यश्रमणनिवहः संघः । चिरप्रव्रजितः साधुः । मनोज्ञोऽभिरूपः, संमतो वा लोकस्य विद्वत्त्ववतृत्वमहाकुलत्वादिभिः, असंयतसम्यग्दृष्टिर्वा । तेषां व्याधिपरीषहमिथ्यात्वाद्युपनिपाते तत्प्रतीकारो वैयावृत्त्यं, बाह्यद्रव्यासंभवे खकायेन तदानुकूल्यानुष्ठानं च । तच्च समाध्याधानाविचिकित्साभावप्रवचनवात्सल्याद्यभिव्यक्त्यर्थे । बहूपदेशात् कचिन्नियमेन प्रवृत्तिज्ञापनाय भूयसामुपन्यासः ॥ अथ खाध्यायप्ररूपणार्थमाह;
वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥ २५ ॥ खाध्याय इत्यनुवर्तमानेनाभिसंबंधः । निरवद्यग्रंथार्थोभयप्रतिपादनं वाचना । संशयच्छेदाय निश्चितबलाधानाय वा परानुयोगः पृच्छना । अधिगतार्थस्य मनसाभ्यासोऽनुप्रेक्षा । घोषशुद्धं परिवर्तनमानायः । धर्मकथाद्यनुष्ठानं धर्मोपदेशः । प्रज्ञातिशयप्रशस्ताध्यवसायाद्यर्थ खाध्यायः । कथमयमंतरंगरूप इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org