________________
दशमोऽध्यायः ।
५११
वप्रसंगोग्नेरौष्ण्यवत् तदभावेऽभाववदिति चेन्न, गत्यंतर निवृत्त्यर्थत्वात् तदूर्ध्वगतिस्वभावस्य ऊर्ध्वज्वलनवद्वा तद्भावे नाभावः । वेगवद्द्रव्याभिघातादनलस्योर्ध्वज्वलनाभावेपि तिर्यग्ज्वलनसद्भावादर्शनात् ।
नन्वेवं मुक्तस्य लोकात्परतः कुतो नोर्ध्वगतिरित्याह ;
धर्मास्तिकायाभावात् ॥ ८ ॥
कः पुनर्धर्मास्तिकाय इत्याह;
उक्तो धर्मास्तिकायोत्र गत्युपग्रहकारणं । तस्याभावान्न लोकाग्रात्परतो गतिरात्मनः ॥ १ ॥ एवं निःशेषमिथ्याभिमानो मुक्तौ निवर्तते । युक्त्यागमबलात्तस्याः स्वरूपं प्रति निर्णयात् ॥२॥ अथ किमेते मुक्ताः समानाः सर्वे किं वा भेदेनापि निर्देश्या इत्याशंकायामिदमाह; - क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनांतरसंख्याल्पबहुत्वतः साध्याः ॥ ९ ॥
केन रूपेण सिद्धाः क्षेत्रादिभिर्भेदैर्निर्देष्टव्या इत्याह ;
सिद्धाः क्षेत्रादिभिर्भेदैः साध्याः सूत्रोपपादिभिः । सामान्यतो विशेषाच्च भावाभेदेपि सन्नयैः ॥ १ क्षेत्रं स्वात्मप्रदेशाः स्युः सिद्ध्यतां निश्चयान्नयात् । व्यवहारनयाद्वयोम सकलाः कर्मभूमयः ॥२ मनुष्य भूमिरप्यत्र हरणापेक्षया मता । हृत्वा परेण नीतानां सिद्धेः सूत्रानिवारणात् ॥ ३ ॥ तेषामेकक्षणः कालः प्रत्युत्पन्ननयात्मनः । भूतप्रज्ञापनादेव स्यात्सामान्यविशेषतः ॥ ४ ॥ उत्सर्पिण्यवसर्पिण्योर्जाताः सिद्ध्यंति केचन । चतुर्थकाले पर्यंतभागे काले तृतीयके ॥ ५ ॥ सर्वदा हरणापेक्षा क्षेत्रापेक्षा हि कालभृत् । सर्वक्षेत्रेषु तत्सिद्धौ न विरुद्धा कथंचन ॥ ६ ॥ सिद्धिः सिद्धिगतौ पुंसां स्यान्मनुष्यगतावपि । अवेदत्वेन सा वेदवितयाद्वास्ति भावतः ॥ ७ ॥ पुल्लिंगेनैव तु साक्षाद्रव्यतोन्या तथागम- । व्याघाताद्युक्तिबाधाच्च ख्यादिनिर्वाणवादिनां ॥ ८ ॥ साक्षान्निर्ग्रथलिंगेन पारंपर्यात्ततोन्यतः । साक्षात्सग्रंथलिंगेन सिद्धौ निर्ग्रथता वृथा ॥ ९ ॥ सति तीर्थकरे सिद्धिरसत्यपि च कस्यचित् । भवेदव्यपदेशेन चरित्रेण विनिश्चयात् ॥ १० ॥ तथैवैकचतुः पंचविकल्पेन प्रकल्पते । परोपदेशशून्यत्वात्सिद्धी प्रत्येकबुद्धता ॥ ११ ॥ परोपदेशतः सिद्धो बोधितः प्रतिपादितः । ज्ञानेनैकेन वा सिद्धिर्द्वाभ्यां त्रिभिरपीष्यते ॥ १२ ॥ चतुर्भिः स्वामिमुख्यस्यापेक्षायां नान्यथा पुनः । अवगाहनमुत्कृष्टं सपादशतपंचकं ।। १३ ।। चापानामर्धसंयुक्तमरत्नित्रयमप्यथ । मध्यमं बहुधा सिद्धिस्त्रिप्रकारेऽवगाहने ॥ १४ ॥ स्वदेशे नभोव्यापिलक्षणे संप्रवर्तते । अनंतरं जघन्येन द्वौ क्षणौ सिद्ध्यतां नृणां ।। १५ ।। उत्कर्षेण पुनस्तत्स्यादेतेषां समयाष्टकं । अंतरं समयोस्त्येको जघन्येन प्रकर्षतः ॥ १६ ॥ षण्मासाः सिद्ध्यतां नाना मध्यमं प्रति गम्यतां । एकस्मिन् समये सिद्धयेदेको जीवो जघन्यतः १७ अष्टोत्तरशतं जीवाः प्रकर्षेणेति विश्रुतं । नाल्पेन बहवः सिद्धाः सिद्धक्षेत्रव्यपेक्षया ॥ १८ ॥ व्यवहारव्यपेक्षायां तेषामल्पबहुत्ववित् । तत्राल्पे हरणात्सिद्धा जन्मसिद्ध समूहतः ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org