________________
D
नवमोऽध्यायः ।
४८९
लाविवाहयजनगेहादिपरिवर्जनोपलक्षितदीन वृत्तिविगमा प्रासुकाहारगवेषप्रणिधाना आगमविधिना निरवद्याशनपरिप्राप्तप्राणयात्राफलात्तत्प्रतिबद्धा हि चरणसंपत् गुणसंपदिव साधुजन सेवानिबंधका लाभालाभयोः सुरसविरसयोश्च समसंतोषवद्भिर्भिक्षेति भाष्यते, यथा सलीलसालंकारवर युवतिभिरुपनीयमानघासो गौर्न तदंगगतसौंदर्यनिरीक्षणपरः तृणमेवाति यथा वा तृणलवं नानादेशस्थं यथालाभमभ्यवहर न योजनासंपदमवेक्षते, तथा भिक्षुरपि भिक्षापरिवेषकजनमृदुललित रूपवेषविलासविलोकननिरुत्सुकः शुष्कद्रवाहारयोजनाविशेषं वानपेक्षमाणः यथागतमश्नातीति गौरिव गोर्वा चारो गोचर इति च व्यपदिश्यते तथा गवेषणेति च । यथा शकटं रत्नभारपरिपूर्ण येन केनचित् स्नेहेनाक्षलेपं कृत्वाभिलषितं देशांतरं वणिग्जनो नयति तथा मुनिर्गुणरत्नभरितां तनुशकटिमनवद्यभिक्षयायुरक्षम्रक्षणेनाभिप्रेतसमाधिपत्तनं प्रापयतीति अक्षम्रक्षणमिति च नाम निरूढं । यथा भांडागारे समुत्थितमनलमशुचिना शुचिना वा वारिणा शमयति गृही यतिरपीति उदराग्निप्रशमनमिति च निरुच्यते, दातृजनबाधया विना कुशलो मुनिः भ्रमरवदाहरतीति भ्रमराहार इत्यपि परिभाष्यते, येन केनचित्प्रकारेण श्वभ्रपूरणवदुदरगर्तमनगारः पूरयति खादुनेतरेण वाहारेणेति श्वभ्रपूरणमिति च निरुच्यते । प्रतिष्ठापनशुद्धिपरः संयतः नखरोमसिंघाणकनिष्ठीवनशुक्रोच्चारप्रस्रवणशोधने देहपरित्यागे च विदितदेशकालो जंतूपरोधमंतरेण प्रयतते । संयतेन शयनासनशुद्धिपरेण स्त्रीवधिकचौरपानशौंडशाकुनिकादिपापजनवासाः वाद्याः शृंगारविकारभूषणोज्ज्वलवेशवेश्याक्रीडाभिरामगीतनृत्यवादित्राकुलशालादयः परिहर्तव्याः, अकृत्रिमाः गिरिगुहांतरकोटरादयः कृत्रिमाश्च शून्यागारादयो मुक्तमोचितावासाः अनात्मोद्देशनिर्वर्तिताः निरारंभाः सेव्याः । वाक्यशुद्धिः पृथिवीकायकारंभादिप्रेरणरहिता परुषनिष्ठुरादिपरपीडाकरणप्रयोगनिरुत्सुका व्रत - शीलदेशनादिप्रधानफला हितमितमधुरमनोहरा संगतयोग्या तदधिष्ठाना हि सर्वसंपद इति, शुद्ध्यष्टकमुपदिष्टं भगवद्भिः संयमप्रतिपादनार्थं । ततो निरवद्यः संयमः स्यात् । तपो वक्ष्यमाणभेदं । परिग्रहनिवृत्तिस्त्यागः । अभ्यंतरतपोविशेषोत्सर्गग्रहणात् सिद्धिरिति चेन्न तस्यान्यार्थत्वात् । शौचवचनात्सिद्धिरिति चेन्न, तत्रासत्यपि गर्धोत्पत्तेः, दानं वा स्वयोग्यं त्यागः । ममेदमित्यभिसंधिनिवृत्तिराकिंचन्यं । अनुभूतांगनास्मरणकथाश्रवणस्त्रीसंसक्तशयनासनादिवर्जनात् ब्रह्मचर्य, स्वातंत्र्यार्थ गुरौ ब्रह्मणि चर्यमिति वा । अन्वर्थसंज्ञाप्रतिपादनार्थत्वाद्वा पौनरुत्यं गुत्याद्यतर्भूतानामपि संवरधारणसामर्थ्याद्धर्म इति संज्ञाया अन्वर्थताप्रतिपत्तेरन्यथानुपपत्तेरित्यर्थगतं । तद्भावनाप्रकारत्वाद्वा सप्तप्रकारप्रतिक्रमणवत्, सप्तप्रकारं हि प्रतिक्रमणमीर्यापथिकरात्रिंदिवीय पाक्षिकचातुर्मासिकसांवत्सरिकोत्तमस्थानलक्षणत्वात् । तच्च गुप्यादिप्रतिस्थापनार्थं यथा भाव्यते तथोत्तमक्षमादिदशविधधर्मोपि । ततस्तत्रांतर्भूतस्यापि पृथग्वचनं नाद्यं । उत्तमविशेषणं दृष्टप्रयोजनपरिवर्जनार्थं । सर्वेषां स्वगुणप्रतिपक्षदोषाभावात्संवर हेतुत्वं । कथमित्याह
"
दृष्टार्यापेक्षाणि क्षमादीन्युत्तमानि तु । स्याद्धर्मः समितिभ्योऽन्यः क्रोधादिप्रतिपक्षतः ॥ १ ॥ क्रोधादिप्रतिपक्षत्वमित्येव धर्मः, उत्तमायाः क्षमायाः क्रोधप्रतिपक्षत्वात् मार्दवार्जवशौचानां मानमायालोभविपक्षत्वात् सत्यादीनामनृता संयमातपोऽत्यागममत्वाब्रह्मप्रतिकूलत्वाच्च । स हि धर्म उत्तमक्षमादीन्येव समितिभ्योन्यः सूत्रितः । नन्वत्र व्यक्तिवचनभेदाद्वैलक्षण्यमिति चेन्न, सर्वेषां धर्मभावाव्यतिरेकस्यैकत्वादाविष्टलिंगत्वाच्च । कस्य पुनः संवरस्य हेतुर्धर्म इत्याह
तन्निमित्तास्रवध्वंसी यथायोगं स देशतः । संवरस्य भवेद्धेतुरसंयतदृगादिषु ॥ २ ॥ क्रोधादिनिमित्तकास्रवध्वसीन्युत्तमक्षमादीनि निश्चितानीति तत्स्वभावो धर्मस्तन्निमित्तताप्रध्वंसी कथ्यते ।
६२
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org