________________
१६० तत्त्वार्थश्लोकवार्तिके
[सू०८ ननु निर्देशादिसूत्रेधिकरणवचनादिह क्षेत्रस्य वचनं पुनरुक्तं तयोरेकत्वादिति शंकामपनुदन्नाह;सामीप्यादिपरित्यागाध्यापकस्य परिग्रहात् । शरीरे जीव इत्यधिकरणं क्षेत्रमन्यथा ॥ ४० ॥
शरीरे जीव इत्यधिकरणं व्यापकाधाररूपमुक्तं, सामीप्याद्यात्मकाधाररूपं तु क्षेत्रमिहोच्यते ततोन्यथैवेति न पुनरुक्तता क्षेत्रानुयोगस्य ॥ त्रिकालविषयार्थोपश्लेषणं स्पर्शनं मतम् । क्षेत्रादन्यत्वभाग्वर्तमानार्थश्लेषलक्षणात् ॥ ४१॥ ।
त्रिकालविषयोपश्लेषणं स्पर्शनं, वर्तमानार्थोपश्लेषणात् क्षेत्रादन्यदेव कथंचिदवसेयं । सर्वस्यार्थस्य वर्तमानरूपत्वात्स्पर्शनमसदेवेति चेन्न, तस्य द्रव्यतोऽनादिपर्यतरूपत्वेन त्रिकालविषयोपपत्तेः । नन्विदमयुक्तं वर्तते वस्तु त्रिकालविषयरूपमनाद्यनंतं चेति । तद्धि यद्यतीतरूपं कथमनंतं ? विरोधात् । तथा यद्यनागतं कथमनादि ? ततो न त्रिकालवर्तीति ।
द्रव्यतोऽनादिपर्यते सिद्धे वस्तुन्यबाधिते । स्पर्शनस्य प्रतिक्षेपस्त्रिकालस्य न युज्यते ॥ ४२ ॥
न हि येनात्मनातीतमनागतं वा तेनानंतमनादि वा वस्तु ब्रूमहे, यतो विरोधः स्यात् । नापि स तदात्मा वस्तुनो भिन्न एव, येन तस्यातीतत्वेऽनागतत्वे च वस्तुनोऽनंतत्वमनादित्वं च कथंचिन्न सिध्येत् । ततोऽनाद्यनंतवस्तुनः कथंचित्रिकालविषयत्वं न प्रतिक्षेपार्हम विरुद्धत्वादिति श्लेषांशस्तल्लक्षणः स्पर्शनोपदेशः ॥
स्थितिमत्सु पदार्थेषु योवधि दर्शयत्यसौ। कालः प्रचक्ष्यते मुख्यस्तदन्यः स्वस्थितेः परः॥४३॥
न हि स्थितिरेव प्रचक्ष्यमाणः कालः स्थितिमत्सु पदार्थेष्ववधिदर्शनहेतुः कालत्वात् स्थानक्रियैव व्यवहारकालो नातोऽन्यो मुख्य इति चेन्न, तदभावे तदनुपपत्तेः । तथाहि;
न क्रियामात्रकं कालो व्यवहारप्रयोजनः । मुख्यकालादृते सिद्ध्येद्वर्तनालक्षणात्कचित् ॥४४॥
न हि व्यावहारिकोपि कालः क्रियामात्रं समकालस्थितिरिति कालविशेषणायाः स्थितेरभावप्रसंगात् । परमः सूक्ष्मः कालो हि समयः सकलतादृशक्रियाविशेषणतामात्मसात् कुर्वस्ततोऽन्य एव व्यवहारकालस्यावलिकादेर्मूलमुन्नीयते । स च मुख्यकालं वर्तनालक्षणमाक्षिपति तस्मादृते क्वचित्तदघटनात् । न हि किंचिद्गौणं मुख्याहते दृष्टं येनातस्तस्यासाधनं ॥
परत्वमपरत्वं च समदिग्नतयोः सतोः । समानगुणयोः सिद्धं तादृक्कालनिबंधनं ॥ ४५ ॥ परापरादिकालस्य तत्त्वहेत्वंतरान्न हि । यतोऽनवस्थितिस्तत्राप्यन्यहेतुप्रकल्पनात् ॥ ४६ ॥ स्वतस्तत्त्वतथात्वे च सर्वार्थानां न तद्भवेत् । व्याप्यसिद्धेर्मनीषादिरमूर्तत्वादिधर्मवत् ॥४७॥ यथाप्रतीतिभावानां स्वभावस्य व्यवस्थितौ । काले परापरादित्वं स्वतोस्त्वन्यत्र तत्कृतम् ४८ कान्यथा व्यवतिष्ठते धर्माधर्मनभांस्यपि । गत्यादिहेतुतापत्तेर्जीवपुद्गलयोः स्वतः ।। ४९ ॥
शरीरवाङ्मनःप्राणापानादीनपि पुद्गलाः । प्राणिनामुपकुर्युने स्वतस्तेषां हि देहिनः ॥ ५० ॥ जीवा वा चेतना न स्युः कायाः संतु स्वकास्तथा । निंबादिमधुरस्तिक्तो गुडादिः कालविद्विषाम् ५१
एकत्रार्हे हि दृष्टस्य स्वभावस्य कुतश्चन । कल्पना तद्विजातीये स्वेष्टतत्त्वविधातिनी ॥ ५२ ॥ तस्माजीवादिभावानां स्वतो वृत्तिमतां सदा । कालः साधारणो हेतुर्वर्तनालक्षणः स्वतः ॥५३
न हि जीवादीनां वृत्तिरसाधारणादेव कारणादिति युक्तं, साधारणकारणाद्विना कस्यचित्कार्यस्यासंभवात् करणज्ञानवत् । तत्र हि मनःप्रभृति साधारणं कारणं चक्षुराद्यसाधारणमन्यतरापाये तदनुपपत्तेः । तद्वत्सकलवृत्तिमतां वृत्तौ कालः साधारणं निमित्तश्योपादानमसाधारणमिति युक्तं पश्यामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org