________________
प्रथमोऽध्यायः ।
१५९
समवायिसाधारणैकरूपत्वात् सामान्यादिमत्तु द्रव्यमिति प्रतिनियतव्यपदेशनिमित्तं समवाय इत्यप्यनेनापास्तं । केनचिदंशेन क्वचिन्नियमहेतुः समवाय इति चेन्न, तस्य सावयवत्वप्रसक्तेः खसिद्धांत विरोधात् । निरंश एव समवायस्तथा शक्तिविशेषान्नियमहेतुरित्ययुक्तं, अनुमानविरोधात् ॥
समवायो न संख्यादि तद्वतां घटने प्रभुः । निरंशत्वाद्यथैवैकः परमाणुः सकृत्तव ॥ ३० ॥ न हि निरंशः सकृदेकः परमाणुः संख्यादि भवतां परस्परमिष्टव्यपदेशनघटने समर्थः सिद्धः तद्वत्समवायोपि विशेषाभावात् । शक्तिविशेषयोगात् समवायस्तत्र परिवृढ इति चेत्, परमाणुस्तथास्तु । सर्वगतत्वात्स तत्र समर्थ इति चेन्न, निरंशस्य तदयोगात् परमाणुवत् । ननु निरंशोपि समवायो यदा यत्र ययोः समवायिनोर्विशेषणं तदा तत्र तयोः प्रतिनियतव्यपदेशहेतुर्विशेषणविशेष्यभावात् प्रतिनियामकात् स्वयं तस्य प्रतिनियतत्वादिति चेन्न, असिद्धत्वात् ॥
युगपन्न विशेष्यंते तेनैव समवायिनः । भिन्नदेशादवृत्तित्वादन्यथातिप्रसंगतः ॥ ३१ ॥ न खादिभिरनेकांतस्तेषां सांशत्वनिश्चयात् । निरंशत्वे प्रमाभावाद्व्यापित्वस्य विरोधतः ||२३|| विशेषणविशेष्यत्वं संबंधः समवायिभिः । समवायस्य सिद्ध्येत द्वौ वः प्रतिनियामकः ॥३३॥ न हि भेदैकांते समवायसमवायिनां विशेषणविशेष्यभावः प्रतिनियतः संभवति यतः समवायस्य क्वचिन्नियमहेतुत्वे प्रतिनियामकः स्यात् ॥
सन्नप्ययं ततस्तावन्नाभिन्नः स्वमतक्षतेः । भिन्नयेत्स स्वसंबंधिसंबंधोन्योस्य कल्पनात् ॥ ३४ ॥ सोपि तद्भिन्नरूपश्वेदनवस्थोपवर्णिता । तादात्म्यपरिणामस्य समवायस्य तु स्थितिः ।। ३५ ।। सुदूरमपि गत्वा विशेषणविशेष्यभावस्य स्वसंबंधिभ्यां कथंचिदनन्यत्वोपगमे समवायस्य खसम - वायिभ्यामन्यत्वसिद्धेः सिद्धः कथंचित्तादात्म्यपरिणामः समवाय इति संख्या तद्वतः कथंचिदन्या ॥
गणनामात्ररूपेयं संख्योक्तातः कथंचन । भिन्ना विधानतो भेदगणनालक्षणादिह || ३६ || निर्देशादिसूत्रे विधानस्य वचनादिह संख्योपदेशो न युक्तः पुनरुक्तत्वाद्विधानस्य संख्यारूपत्वादिति न चोद्यं, तस्य ततः कथंचिद्भेदप्रसिद्धेः । संख्या हि गणनामात्ररूपा व्यापिनी, विधानं तु प्रकारगणनारूपं ततः प्रतिविशिष्टमेवेति युक्तः संख्योपदेशस्तत्त्वार्थाधिगमे हेतुः ॥
निवासलक्षणं क्षेत्रं पदार्थानां न वास्तवम् । स्वस्वभावव्यवस्थानादित्येके तदपेशलम् ॥ ३७ ॥ राज्ञः सति कुरुक्षेत्रे तन्निवासस्य दर्शनात् । तस्मिन्नसति चादृष्टे वास्तवस्याप्रबाधनात् ॥ ३८ ॥ नन्वेवं राज्ञः कुरुक्षेत्रं कारणमेव तत्र निवसनखभावस्य तस्य तेन जन्यमानत्वादिति चेत् किमनिष्टं, कारणविशेषस्य क्षेत्रत्वोपगमात् कारणमात्रस्य क्षेत्रत्वेतिप्रसंगः
प्रमाणगोचरस्यास्य नावस्तुत्वं स्वतत्त्ववत् । नानुमागोचरस्यापि वस्तुत्वं न व्यवस्थितम् ॥३९॥ न वास्तवं क्षेत्रमापेक्षिकत्वात् स्थौल्यादिवदित्ययुक्तं, तस्य प्रमाणगोचरत्वात् स्वतत्त्ववत् । न ह्यापेक्षिकमप्रमाणगोचरः सुखनीलेतरादेः प्रमाणविषयत्वसिद्धेः । संविन्मात्रवादिनस्तस्यापि तदविषयत्वमिति चेन्न तस्या निरस्तत्वात् । ननु च क्षेत्रत्वं कस्य प्रमाणस्य विषयः स्यात् ? न तावत्प्रत्यक्षस्य तत्र तस्यानवभासनात् । न हि प्रत्यक्षभूभागमात्रप्रतिभासमाने कारणविशेषरूपे क्षेत्रत्वमाभासते कार्यदर्शनात्त्वनुमीयमानं कथं वास्तवमनुमानस्यावस्तुविषयत्वादिति कश्चित् सोप्ययुक्तवादी । वस्तुविषयत्वादनुमितेरन्यथा प्रमाणतानुपपत्तेरिति वक्ष्यमाणत्वात् ॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org