________________
प्रथमोऽध्यायः।
वाशंका । प्रतिषेध्यं पुनर्यथास्तित्वस्य नास्तित्वं तथा प्रधानभावतः क्रमार्पितोभयात्मकत्वादिधर्मपंचकमपि तस्य तद्वत्प्रधानभावार्पितास्तित्वादन्यत्वोपपत्तेः । एतेन नास्तित्वं क्रमार्पितं द्वैतं सहार्पितं चावक्तव्योत्तरशेषभंगत्रयं वस्तुतोन्येन धर्मषट्रेन प्रतिषेध्येनाविनाभावि साधितं प्रतिपत्तव्यं । क्रमार्पितोभयादीनां विरुद्धत्वेन संभवान्न तदविनाभावित्वं शक्यसाधनं धर्मिणः साधनस्य वासिद्धेरिति चेत् न, स्वरूपादि• चतुष्टयेन कस्यचिदस्तित्वस्य पररूपादिचतुष्टयेन च नास्तित्वस्य सिद्धौ क्रमतस्तद्वयादस्तित्वनास्तित्वद्वयस्य
सहावक्तव्यस्य सहार्पितखपररूपादिचतुष्टयाभ्यां खरूपचतुष्टयाच्चास्त्यवक्तव्यत्वस्य ताभ्यां पररूपादिचतुष्टयाच्च नास्त्यवक्तव्यत्वस्य क्रमाक्रमार्पिताभ्यां ताभ्यामुभयावक्तव्यत्वस्य च प्रसिद्धेविरोधाभावाच्च धर्मिणः साधनस्य च प्रसिद्धेः । न हि खरूपेस्ति वस्तु न पररूपेस्तीति विरुध्यते, स्वपररूपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुत्वस्य, खरूपोपादानवत् पररूपोपादाने सर्वथा खपरविभागाभावप्रसंगात् । स चायुक्तः, पुरुषाद्वैतादेरपि पररूपादपोढस्य तथाभावोपपत्तेरन्यथा द्वैतरूपतयापि तद्भावसिद्धेरेकानेकात्मवस्तुनो निषेद्धुमशक्तेः पररूपापोहनवत्स्वरूपापोहने तु निरूपाख्यत्वस्य प्रसंगात् । तच्चानुपपन्नं । ग्राह्यग्राहकभावादिशून्यस्यापि संविन्मात्रत्वस्य खरूपोपादानादेव तथा व्यवस्थापनादन्यथा प्रतिषेधात् । तथा सर्व वस्तु खद्रव्येस्ति न परद्रव्ये तस्य स्वपरद्रव्यखीकारतिरस्कारव्यवस्थितिसाध्यत्वात् । खद्रव्यवत् परद्रव्यस्य स्वीकारे द्रव्याद्वैतप्रसक्तेः खपरद्रव्यविभागाभावात् । तच्च विरुद्धं । जीवपुद्गलादिद्रव्याणां भिन्नलक्षणानां प्रसिद्धेः। कथमेकं द्रव्यमनंतपर्यायमविरुद्धमुक्तमिति चेत् , जीवादीनामनंतद्रव्याणामनिराकरणादिति ब्रूमः । सन्मानं हि शुद्धं द्रव्यं तेषामनंतभेदानां व्यापकमेकं तदभावे कथमात्मानं लभते । कथमिदानीं तदेव खद्रव्येस्ति परद्रव्ये नास्तीति सिद्ध्येत् । न हि तस्य खद्रव्यमस्ति पर्यायत्वप्रसंगाद्यतस्तत्रास्तित्वं । नापि द्रव्यांतरं यत्र नास्तित्वमिति चेन्न कथंचित् , न हि सन्मानं खद्रव्येस्ति परद्रव्ये नास्तीति निगद्यते । किं तर्हि, वस्तु । न च तत्संग्रहनयपरिच्छेद्यं वस्तु वस्त्वेकदेशत्वात् पर्यायवत् । ततो यथा जीववस्तु पुद्गलादिवस्तु वा खद्रव्ये जीवत्वेन्वयिनि पुद्गलादित्वे वा पर्याये च स्वभावे ज्ञानादौ रूपादौ वास्ति न परद्रव्ये परखरूपे वा तथा परमं वस्तु सत्त्वमात्रे खद्रव्ये खपर्याये च जीवादिभेदप्रभेदेस्ति न परिकल्पिते सर्वथैकांते कथंचिदिति निरवा तथा खक्षेत्रेस्ति परक्षेत्रे नास्तीत्यपि न विरुध्यते खपरक्षेत्रप्राप्तिपरिहाराभ्यां वस्तुनो वस्तुत्वसिद्धेरन्यथा क्षेत्रसंकरप्रसंगात् । सर्वस्याक्षेत्रत्वापत्तेश्च । न चैतत्साधीयः प्रतीतिविरोधात् । तत्र परमस्य वस्तुनः खात्मैव क्षेत्रं तस्य सर्वद्रव्यपर्यायव्यापित्वात् तव्यतिरिक्तस्य क्षेत्रस्याभावात् तदपरस्य वस्तुनो गगनस्यानेन खात्मैव क्षेत्रमित्युक्तं तस्यानंत्यात् क्षेत्रांतराघटनात् । जीवपुद्गलधर्माधर्मकालवस्तूनां तु निश्चयनयात् खात्मा व्यवहारनयादाकाशं क्षेत्रं ततोप्यपरस्य वस्तुनो जीवादिभेदरूपस्य यथायोगं पृथिव्यादि क्षेत्रं प्रत्येयं । नचैवं स्वरूपात्खद्रव्याद्वा क्षेत्रस्यान्यता न स्यात् तव्यपदेशहेतोः परिणामविशेषस्य ततोन्यत्वेन प्रतीतेरविरोधात् । तथा खकालेस्ति परकाले नास्तीत्यपि न विरुद्धं स्वपरकालग्रहणपरित्यागाभ्यां वस्तुनस्तत्त्वप्रसिद्धरन्यथा कालसांकर्यप्रसंगात् । सर्वदा सर्वस्याभावप्रसंगाच । तत्र परमस्य वस्तुनोनाद्यनंतः कालोपरस्य च जीवादिवस्तुनः सर्वदा विच्छेदाभावात् तत्र तदस्ति न परकालेन्यथा कल्पिते क्षणमात्रादौ जीवविशेषरूपं तु मानुषादिवस्तु खायुः प्रमाणवकालेस्ति न परायुःप्रमाणे पुद्गलविशेषरूपं च पृथिव्यादि तथा परिणामस्थितिनिमित्ते खकालेस्ति न तद्विपरीते तदा तस्यान्यवस्तुविशेषत्वेनभावात् । नन्वेवं युगपदेकत्र वस्तुनि सत्त्वासत्त्वद्वयस्य प्रसिद्धस्तदेव प्रतिषेध्येनाविनाभावि साध्यं न तु केवलमस्तित्वं नास्तित्वादि वा तस्य तथाभूतस्यासंभवादिति चेन्न, नयोपनीतस्य केवलास्तित्वादेरपि भावात् सिद्धे वस्तुन्येकत्रास्तित्वादौ नानाधर्मे वादिप्रतिवादिनोः प्रसिद्धो धर्मस्तदप्रसिद्धेन धर्मेणाविना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org