________________
तत्त्वार्थ श्लोकवार्तिके
[सू० ६
११८
ननु च प्रमाणं नयाश्चेति द्वंद्ववृत्तौ नयस्य पूर्वनिपातः स्यादल्पाच्तरत्वान्न प्रमाणस्य बह्वच्तस्त्वादित्या -
क्षेपे प्राह;
प्रमाणं च नयाश्चेति द्वंद्वे पूर्वनिपातनम् । कृतं प्रमाणशब्दस्याभ्यर्हितत्वेन बह्वचः ॥ २ ॥ न ह्यल्पाच्तरादभ्यर्हितं पूर्वं निपततीति कस्यचिदप्रसिद्धं लक्षणहेत्वोरित्यत्र हेतुशब्दादल्पाच्तरादपि लक्षणपदस्य बह्वचोऽभ्यर्हितस्य पूर्वप्रयोगदर्शनात् ॥
कथं पुनः प्रमाणमभ्यर्हितं नयादित्याह ; -
1
प्रमाणं सकलादेशि नयादभ्यर्हितं मतम् । विकलादेशिनस्तस्य वाचकोपि तथोच्यते ॥ ३ ॥ कथमभ्यर्हितत्वानभ्यर्हितत्वाभ्यां सकला देशित्वविकलादेशित्वे व्याप्तिसिद्धे यतः प्रमाणनययोस्ते सिद्ध्यत इति चेत्, प्रकृष्टापकृष्टविशुद्धिलक्षणत्वादभ्यर्हितत्वानभ्यर्हितत्वयोस्तद्व्यापकत्वमिति ब्रूमः । न हि प्रकृष्टां विशुद्धिमंतरेण प्रमाणमनेकधर्मधर्मिखभावं सकलमर्थमादिशति, नयस्यापि सकलादेशित्वप्रसंगात् । नापि विशुद्ध्यपकर्षमंतरेण नयो धर्ममात्रं वा विकलमादिशति प्रमाणस्याविकलादेशित्वप्रसंगात् ॥
स्वार्थनिश्चायकत्वेन प्रमाणं नय इत्यसत् । खार्थैकदेशनिर्णीतिलक्षणो हि नयः स्मृतः ॥ ४ ॥ नयः प्रमाणमेव स्वार्थव्यवसायकत्वादिष्टप्रमाणवद् विपर्ययो वा ततो न प्रमाणनययोर्भेदोस्ति येनाभ्यर्हितेतरता चिंत्या इति कश्चित् । तदसत् । नयस्य स्वार्थैकदेशलक्षणत्वेन स्वार्थनिश्चायकत्वासिद्धेः । स्वार्थीशस्यापि वस्तुत्वे तत्परिच्छेदे छेदलक्षणत्वात्प्रमाणस्य स न चेद्वस्तु तद्विषयो मिथ्याज्ञानमेव स्यात्तस्यावस्तुविषयत्वलक्षणत्वादिति चोद्यमसदेव । कुतः ?
नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ ५ ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रबहुत्वं वा स्यात्तच्चेत्कास्तु समुद्रवित् ॥ ६ ॥ यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसंगात् समुद्र बहुत्वापत्तिर्वा तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रत्वे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् क्वचिदपि समुद्रव्यवहारायोगात् समुद्रांशः स एवोच्यते । तथा स्वार्थैकदेशो नयस्य न वस्तु खार्थैकदेशांतराणामवस्तुत्वप्रसंगात्, वस्तु बहुत्वानुषक्तेर्वा । नाप्यवस्तु शेषांशानामप्यवस्तुत्वेन क्वचिदपि वस्तुव्यवस्थानुपपत्तेः । किं तर्हि ? । वस्त्वंश एवासौ तादृक्प्रतीतेर्बाधकाभावात् ॥
नांशेभ्योर्थातरं कश्चित्तत्त्वतोंशीत्ययुक्तिकम् । तस्यैकच स्थविष्ठस्य स्फुटं दृष्टेस्तदंशवत् ॥ ७ ॥ नांतर्बहिर्वाशेभ्यो भिन्नोंशी कश्चित्तत्त्वतोस्ति यो हि प्रत्यक्षबुद्धावात्मानं न समर्पयति प्रत्यक्षतां च स्वीकरोति । सोयममूल्यदानक्रयीत्ययुक्तिकमेव, स्थविष्ठस्यैकस्य स्फुटं साक्षात्करणात् तद्व्यतिरेकेणांशानामेवाप्रतिभासनात् । तथा इमे परमाणवो नात्मनः प्रत्यक्षबुद्धौ खरूपं समर्पयंति प्रत्यक्षतां च स्वीकर्तुमुत्सहंत इत्यमूल्यदानक्रयिणः ॥
कल्पनारोपितोंशी चेत् स न स्यात् कल्पनांतरे । तस्य नार्थक्रियाशक्तिर्न स्पष्टज्ञानवेद्यता ||८|| शक्यते हि कल्पनाः प्रतिसंख्यानेन निवारयितुं नेंद्रियबुद्धय इति स्वयमभ्युपेत्य कल्पनांतरे सत्यप्यनिवर्तमानं स्थवीयान्सं एकमवयविनं कल्पनारोपितं ब्रुवन् कथमवयवेवयविवचनः ? यदि पुनरवयविकल्पनायाः कल्पनांतरस्य वाशुवृत्तेर्विच्छेदानुपलक्षणात् सहभावाभिमानो लोकस्य । ततो न कल्पनांतरे सति कल्पनात्मनोप्यवयविनोस्तित्वमिति मतिः तदा कथमिंगियबुद्धीनां कचित्सहभावस्तात्त्विकः सिद्ध्येत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org