________________
प्रथमोऽध्यायः ।
११७ विरोधप्रत्ययविशेषत्वं तु केवलं विरोधमात्रं साधयेन्न पुनरनयोर्विरोध इति तत्प्रतिनियम, ततो न विरोधिभ्योत्यंतभिन्नो विरोधोभ्युपगंतव्यः । कथंचिद्विरोध्यात्मकत्वे तु विरोधस्य प्रतिनियमसिद्धिर्न कश्चिदुपालंभ इति सूक्तं विरोधवत्वाश्रयान्नामादीनां भिन्नाभिन्नत्वसाधनं । नामादिभिर्व्यासोऽर्थानामनर्थक इति चेन्न, तस्य प्रकृतव्याकरणार्थत्वादप्रकृताव्याकरणार्थत्वाच्च । भावस्तम्भप्रकरणे हि तस्यैव , व्याकरणं नामस्तंभादीनामव्याकरणं च अप्रकृतानां न नामादिनिक्षेपाभावेर्थस्य घटते, तत्संकरव्यतिक
राभ्यां व्यवहारप्रसंगात् । ननु भावस्तंभस्य मुख्यत्वाध्याकरणं न नामादीनां “गौणमुख्ययोर्मुख्ये संप्रत्यय" इति वचनात् । नैतन्नियतं, गोपालकमानय कटजकमानयेत्यादौ गौणे संप्रत्ययसिद्धेः । न हि तत्र यो गाः पालयति यो वा कटे जातो मुख्यस्तत्र संप्रत्ययोस्ति । किं तर्हि ? यस्यैतन्नाम कृतं तत्रैव गौणे प्रतीतिः। कृत्रिमत्वाद्गौणे संप्रत्ययो न मुख्ये तस्याकृत्रिमत्वात् "कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्यय" इति वचनात् । नैतदेकांतिकं पांसुलपादस्य तत्रैवोभयगतिदर्शनात् । स ह्यप्रकरणज्ञत्वादुभयं प्रत्येति किमहं यो गाः पालयति यो वा कटे जातस्तमानयामि किं वा यस्यैषा संज्ञा तं? इति विकल्पनात् । प्रकरणज्ञस्य कृत्रिमे संप्रत्ययोस्तीति चेत् न, तस्याकृत्रिमेपि संप्रत्ययोपपत्तेस्तथा प्रकरणात् । ननु च जीवशब्दादिभ्यो भावजीवादिष्वेव संप्रत्ययस्तेषामर्थक्रियाकारित्वादितिचेत् न, नामादीनामपि स्वार्थक्रियाकारित्वसिद्धेः । भावार्थक्रियायास्तैरकरणादनर्थक्रियाकारित्वं तेषामिति चेत्, नामाद्यर्थक्रियायास्तर्हि भावेनाकरणात्तस्यानर्थक्रियाकारित्वमस्तु । कांचिदप्यर्थक्रियां न नामादयः कुर्वतीत्ययुक्तं तेषामवस्तुत्वप्रसंगात् । न चैतदुपपन्नं भाववन्नामादीनामबाधितप्रतीत्या वस्तुत्वसिद्धेः । एतेन नामैव वास्तवं न स्थापनादित्रयमिति शब्दाद्वैतवादिमतं, स्थापनैव कल्पनात्मिका न नामादित्रयं वस्तु सर्वस्य कल्पितत्वादिति विभ्रमैकांतवादिमतं, द्रव्यमेव तत्त्वं न भावादित्रयमिति च द्रव्याद्वैतवादिदर्शनं प्रतिव्यूढं । तदन्यतमापाये सकलसंव्यवहारानुपपत्तेश्च युक्तः सर्वपदार्थानां नामादिभिया॑सस्तावता प्रकरणपरिसमाप्तेः ॥
ननु नामादिभियंस्तानामखिलपदार्थानामधिगमः केन कर्तव्यो यतस्तद्व्यवस्था अधिगमजसम्यग्दर्शनव्यवस्था च स्यात् । न चास्तधना कस्यचिद्व्यवस्था सर्वस्य स्वेष्टतत्त्वव्यवस्थानुषंगादिति वदंतं प्रत्याह सूत्रकार;
प्रमाणनयैरधिगमः ॥ ६॥ सर्वार्थानां मुमुक्षुभिः कर्तव्यो न पुनरसाधन एवाधिगम इति वाक्यार्थः ॥ कथमसौ तैः कर्तव्य इत्याह;सूत्रे नामादिनिक्षिप्ततत्त्वार्थाधिगमस्थितः । काय॑तो देशतो वापि स प्रमाणनयैरिह ॥१॥
तनिसर्गादधिगमाद्वेत्यत्र सूत्रे नामादिनिक्षिप्तानां तत्त्वार्थानां योधिगमः सम्यग्दर्शनहेतुत्वेन स्थितः स इह शास्ने प्रस्तावे वा काय॑तः प्रमाणेन कर्तव्यो देशतो नयैरेवेति व्यवस्था । नन्वेवं प्रमाणनयानामधिगमस्तथान्यैः प्रमाणनयैः कार्यस्तदधिगमोप्यपरैरित्यनवस्था, खतस्तेषामधिगमे सर्वार्थानां खतः सोस्त्विति न तेषामधिगमसाधनत्वं । न वानधिगता एव प्रमाणनयाः पदार्थाधिगमोपाया ज्ञापकत्वादतिप्रसंगाचेत्यपरः । सोप्यप्रस्तुतवादी । प्रमाणनयानामभ्यासानभ्यासावस्थयोः खतः परतश्चाधिगमस्य वक्ष्यमाणत्वात् । परतस्तेषामधिगमे कचिदभ्यासात्वतोधिगमसिद्धेरनवस्थापरिहरणात् । खतोधिगमे सर्वार्थानामधिगमस्य तेषामचेतनत्वेनातिप्रसंगात् । चेतनार्थानां कथंचित्प्रमाणनयात्मकत्वेन खतोधिगमस्येष्टत्वाच्च श्रेयान् प्रमाणनयैरधिगमोर्थानां सर्वथा दोषाभावात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org