________________
प्रथमोऽध्यायः ।
११५
यते येन नार्मेंद्रादिविशेषाणां तद्वतो भेदो न स्यात् । नन्वेवं नामादीनां परस्परपरिहारेण स्थितत्वादेकत्रार्थेवस्थानं न स्यात् विरोधात् शीतोष्णस्पर्शवत्, सत्त्वासत्त्ववद्वेति चेन्न असिद्धत्वाद्विरोधस्य नामादीनामेकत्र दर्शनाद् विरोधस्यादर्शनसाध्यत्वात् । परमैश्वर्यमनुभवत्कश्चिदात्मा हि भावेंद्रः सांप्रतिकेंद्रवपर्यायाविष्टत्वात् । स एवानागतमिंद्रत्वपर्यायं प्रति गृहीताभिमुख्यत्वाद्रव्येंद्रः, स एवेंद्रांतरत्वेन • व्यवस्थाप्यमानः स्थापनेंद्र:, स एवेंद्रांतर नान्नाभिधीयमानो नामेंद्र इत्येकत्रात्मनि दृश्यमानानां कथमिह विरोधो नाम अतिप्रसंगात् । तत एव न नामादीनां संकरो व्यतिकरो वा स्वरूपेणैव प्रतीतेः । तदनेन नामादीनामेकत्राभावसाधने विरोधादिसाधनस्यासिद्धिरुक्ता । येनात्मना नाम तेनैव स्थापनादीनामेकत्रैकदा विरोध एवेति चेत् न, तथानभ्युपगमात् ॥
·
एकत्रार्थे विरोधश्चेन्नामादीनां सहोच्यते । नैकत्वासिद्धितोर्थस्य बहिरंतश्च सर्वथा ॥ ८३ ॥ न हि बहिरंतर्वा सर्वथैकस्वभावं भावमनुभवामो नानैकस्वभावस्य तस्य प्रतीतेर्बाधकाभावात् । न च तथाभूतेर्थे, येन स्वभावेन नामव्यवहारस्तेनैव स्थापनादिव्यवहरणं तस्य प्रतिनियतस्वभाव निबंधनतयाभूतेरिति कथं विरोधः सिद्ध्येत् । किं च । नामादिभ्यो विरोधोनन्योऽन्यो वा स्यादुभयरूपो वा ? प्रथमद्वितीयपक्षयोर्नासौ विरोधक इत्याह ;
नामादेरविभिन्नश्चेद्विरोधो न विरोधकः । नामाद्यात्मवदन्यश्चेत्कः कस्यास्तु विरोधकः ॥ ८४ ॥ न तावदात्मभूतो विरोधो नामादीनां विरोधकः स्यादात्मभूतत्वान्नामादिखात्मवत् विपर्ययो वा । नाप्यनात्मभूतोऽनात्मभूतत्वाद्विरोधकोर्थांतरवत् विपर्ययो वा ॥
भिन्नाभिन्नो विरोधश्चेत्किं न नामादयस्तथा । कुतश्चित्तद्वतः संति कथंचिद्भिदभिद्भुतः ॥८५॥ विरोधो विरोधिभ्यः कथंचिद्भिन्नोऽभिन्नश्चाविरुद्धो न पुनर्नामादयस्तद्वतोर्थादिति ब्रुवाणो न प्रेक्षावान् ॥ एकस्य भावतोऽक्षीणकारणस्य यदुद्भवे । क्षयो विरोधकस्तस्य सोर्थो यद्यभिधीयते ॥ ८६ ॥ तदा नामादयो न स्युः परस्परविरोधकाः । सकृत्संभविनोर्थेषु जीवादिषु विनिश्चिताः ||८७ न विरोध नाम कश्चिदर्थो येन विरोधिभ्यो भिन्नः स्यात् केवलमक्षीणकारणस्य संतानेन प्रवर्तमानस्य शीतादेः क्षयो यस्योद्भवे पावकादेः स एव तस्य विरोधकः । क्षयः पुनः प्रध्वंसाभावलक्षणः कार्यं तरोत्पाद एवेत्यभिन्नो विरोधिभ्यां भिन्न इव कुतश्चिव्यवह्रियत इति यदुच्यते तदापि नामादयः क्वचिदेकत्र परस्परविरोधिनो न स्युः सकृत्संभवित्वेन विनिश्चितत्वात् । न हि द्रव्यस्य प्रबंधेन वर्तमानस्य नामस्थापनाभावानामन्यतमस्यापि तत्रोद्भवे क्षयोनुभूयते नाम्नो वा स्थापनाया भावस्य वा तथा वर्तमानस्य तदितरप्रवृत्तौ येन विरोधो गम्येत । तथानुभवाभावेपि तद्विरोधकल्पनायां न किंचित्केनचिदविरुद्धं सिद्ध्येत् । न च कल्पित एव विरोधः सर्वत्र तस्य वस्तुधर्मत्वेनाध्यवसीयमानत्वात् सत्त्वादिवत् । सत्त्वादोपि सत्त्वेनाध्यवसीयमानाः कल्पिता एवेत्ययुक्तं तत्त्वतोर्थस्यासत्त्वादिप्रसंगात् । सकलधर्मनैरात्म्योपगमाददोषोयमिति चेत् कथमेवं धर्मी तात्त्विकः । सोपि कल्पित एवेति चेत् किं पुनरकल्पितं ? स्पष्टमवभासमानं स्खलक्षणमिति चेत् नैकवेंद्र द्वित्वस्य बाधितत्वप्रसंगात् । यदि पुनरबाधितस्पष्टसंवेदनवेद्यत्वात्स्खलक्षणं परमार्थसत् नैकद्रौ द्वित्वादिबाधितत्वादिति मन्यसे तदा कथमबाधितविकल्पाध्यवसीयमानस्य धर्मस्य धर्मिणो वा परमार्थसत्त्वं निराकुरुषे । विकल्पाध्यवसितस्य सर्वस्याबाधितत्वासंभवान्न वस्तुसत्त्वमिति चेत्, कुतस्तस्य तदसंभवनिश्चयः । विवादापन्नो धर्मादिर्नाबाधितो विकल्पाध्यवसितत्वात् मनोराज्यादिवदित्यनुमानादिति चेत्, स तर्ह्यबाधितत्वाभावस्तस्यानुमानविकल्पेनाध्य
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org