________________
तत्त्वार्थश्लोकवार्तिके
[सू० ५
नानामप्रत्यासन्नानां जीवादीनां च प्रधानानां प्रत्यासन्नानां नामादिन्यासाभिसंबंधार्थत्वात् तग्रहणस्य । तदभावे प्रत्यासत्तेः प्रधानं बलीय इति न्यायात् सम्यग्दर्शनादीनामेव तत्प्रसंगस्य निवारयितुमशक्तेः ॥ नन्वनंतः पदार्थानां निक्षेपो वाच्य इत्यसन् । नामादिष्वेव तस्यांतर्भावात्संक्षेपरूपतः ॥ ७१ ॥
संख्यात एव निक्षेपस्तत्प्ररूपकनयानां संख्यातत्वात्, संख्याता एव नयास्तच्छब्दानां संख्यातत्वात् । “यावंतो वचनपथास्तावंतः संभवति नयवादाः" इति वचनात् । ततो न निक्षेपोऽनंतविकल्पः प्रपंचतोपि प्रसंजनीय इति चेन्न, विकल्पापेक्षयार्थापेक्षया च निक्षेपस्यासंख्याततोपपत्तेरनंततोपपत्तेश्च तथाभिधानात् । केवलमनंतभेदस्यापि निक्षेपस्य नामादिविजातीयस्याभावान्नामादिष्वंतर्भावात् संक्षेपतश्चातुर्विध्यमाह ॥ नन्वेवम्—
११४
द्रव्यपर्यायतो वाच्यो न्यास इत्यप्यसंगतम् । अतिसंक्षेपतस्तस्यानिष्टेरत्रान्यथास्तु सः ॥ ७२ ॥ न ह्यत्रातिसंक्षेपतो निक्षेपो विवक्षितो येन तद्विविध एव स्याद्रव्यतः पर्यायतश्चेति तथा विवक्षायां तु तस्य द्वैविध्ये न किंचिदनिष्टं । संक्षेपतस्तु चतुर्विधोसौ कथित इति सर्वमनवद्यम् ॥
ननु न्यासः पदार्थानां यदि स्यान्यस्यमानता । तदा तेभ्यो न भिन्नः स्यादभेदाद्धर्मधर्मिणोः ७३ मैदे नामादितस्तस्य परो न्यासः प्रकल्प्यताम् । तथा च सत्यवस्थानं व स्यात्तस्येति केचन ७४ न हि जीवादयः पदार्था नामादिभिर्न्यस्यते, न पुनस्तेभ्यो भिन्नो न्यास इत्यत्र विशेषहेतुरस्ति यतोनवस्था न स्यात् धर्मधर्मिणोर्भेदोपगमात् । तन्न्यासस्यापि तैर्न्यासांतरे तस्यापि तैर्न्यासांतरे तस्यापि तैन्यासांतरस्य दुर्निवारत्वादिति केचित् ॥
तदयुक्तमनेकांतवादिनामनुपद्रवात् । सर्वथैकांतवादस्य प्रोक्तनीत्या निवारणात् ।। ७५ । द्रव्यार्थिकनयात्तावदभेदे न्यासतद्वतोः । न्यासो न्यासवदर्थानामिति गौणी वचोगतिः ७६ पर्यायार्थनयाद्भेदे तयोर्मुख्यैव सा मता । न्यासस्यापि च नामादिन्यासेष्टेर्नानवस्थितिः ७७ भेदप्रभेदरूपेणानंतत्वात्सर्ववस्तुनः । सद्भिर्विचार्यमाणस्य प्रमाणान्नान्यथा गतिः ॥ ७८ ॥ न्यस्यमानता पदार्थेभ्योऽनर्थंतरमेव चेत्येकांतवादिन एवोपद्रवते न पुनरनेकांतवादिनस्तेषां द्रव्यार्थिकनयार्पणात्तदभेदस्य, पर्यायार्थार्पणाद्भेदस्येष्टत्वात् । तत्राभेदविवक्षायां पदार्थानां न्यास इति गौणी वाचोयुक्तिः पदार्थेभ्योऽनन्यस्यापि न्यासस्य भेदेनोपचरितस्य तथा कथनात् । न हि द्रव्यार्थिकस्य तद्भेदो मुख्योस्ति तस्याभेदप्रधानत्वात् । भेदविवक्षायां तु मुख्या सा पर्यायार्थिकस्य भेदप्रधानत्वात् । न च तत्रानवस्था, न्यासस्यापि नामादिभिर्न्यासोपगमात् । नामजीवादयः स्थापनाजीवादयो द्रव्यजीवादयो भावजीवादयश्चेति जीवादिभेदानां प्रत्येकं नामादिभेदेन व्यवहारस्य प्रवृत्तेः परापरतत्प्रभेदानामनंतत्वात् सर्वस्य वस्तुनोऽनंतात्मकत्वेनैव प्रमाणतो विचार्यमाणस्य व्यवस्थितत्वात् सर्वथैकांते प्रतीत्यभावात् ॥
ननु नामादयः केन्ये न्यस्यमानार्थरूपतः । यैर्न्यासोस्तु पदार्थानामिति केप्यनुयुंजते ॥ ७९ ॥ तेभ्योपि भेदरूपेण कथंचिदवसायतः । नामादीनां पदार्थेभ्यः प्रायशो दत्तमुत्तरम् ॥ ८० ॥ नामेंद्रादिः पृथक्तावद्भावेंद्रादेः प्रतीयते । स्थापनेंद्रादिरप्येवं द्रव्ये॑द्रादिश्च तत्त्वत्तः ॥ ८१ ॥ तद्भेदश्च पदार्थेभ्यः कथंचिद्धटरूपवत् । स्थाप्यस्थापकभावादेरन्यथानुपपत्तितः ॥ ८२ ॥ नामादयो विशेषा जीवाद्यर्थात् कथंचिद्भिन्ना निक्षिप्यमाणनिक्षेपकभावात् सामान्यविशेषभावात् प्रत्ययादिभेदाच्च । ततस्तेषामभेदे तदनुपपत्तेरिति । घटाद्रूपादीनामिव प्रतीतिसिद्धत्वान्नामादीनां न्यस्यमानार्थाद्भेदेन तस्य तैर्न्यासो युक्त एव । न हि नामेंद्रः स्थापनेंद्रो द्रव्येंद्रो वा भावेंद्रादभिन्न एव प्रती
Jain Education International
L
For Private & Personal Use Only
www.jainelibrary.org